________________
न्यायकोशः।
प्रवचनसंज्ञा ज्ञेया ( सांख्य० भा० १११ प्रस्ता० पृ० ७)। [ग] नास्तिककपिलप्रणीतो दर्शनविशेषः । अत्रेदं बोध्यम्। नास्तिककपिलेन स्वयं पूर्वप्रणीतस्य सांख्यप्रवचनसंज्ञकस्य तत्त्वसमासाख्यस्य द्वाविंशति(२२) संख्यकस्य संक्षिप्तसूत्रस्य विस्तररूपेण षडध्यायात्मकः अथ त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः इत्यारभ्य यद्वा तद्वा तदुच्छित्तिः पुरुषार्थस्तदुच्छित्तिः पुरुषार्थः इत्येतत्पर्यन्तः सूत्रोपनिबद्धो ग्रन्थो विरचितः इति । नास्तिककपिलप्रणीतसांख्यस्य पतञ्जलिप्रणीतयोगशास्त्रस्य चानुपादेयत्वमुक्तं भारते मोक्षधर्मेषु सांख्यं योगः पाशुपतं वेदारण्यकमेव च। ज्ञानान्येतानि भिन्नानि नात्र कार्या विचारणा ॥ ( गीता० मध्वभा० अ० २ श्लो० ३९ ) इति । सांख्यमतप्रवर्तकश्च आस्तिकनास्तिकभेदेन द्विविधः । तत्रास्तिकौ द्वौ देवहूतीपुत्रः कपिलः सेश्वरसांख्यो योगशास्त्रप्रवर्तकः पतञ्जलिनामा ब्राह्मणश्च । नास्तिकस्तु निरीश्वरसांख्यो देवहूतीपुत्रादन्यः कपिलनामा कश्चिद्राह्मणः । देवहूतीपुत्रस्तु सांख्यप्रवर्तकः श्रीवासुदेवावतार आस्तिक एव । ऋषि प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत् ( श्वे० ५।२ ) इति श्रुतेः । सिद्धानां कपिलो मुनिः इति स्मृतेश्च । स च राजयोगाख्यमेकाध्यायं पादचतुष्टयात्मकं अथ योगानुशासनम् इत्यारभ्य पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चिच्छक्तिरिति इत्येतत्पर्यन्तं सूत्रोपनिबद्धं योगशास्त्रं प्रणिनाय इति । अथ कपिलमतं संक्षेपेणोच्यते । सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः। सा चैकेव । पुरुषास्तु परं भिद्यन्ते । ते च कूटस्था नित्या अपरिणामिनो नित्यचैतन्यस्वभावाः। ते च पङ्गवः। अपरिणामित्वात् । प्रकृतिस्त्वन्धा। जडत्वात् । यदा विषयभोगेच्छा प्रकृतिपुरुषभेददिदृक्षा च प्रकृतेर्भवति तदा सा पुरुषोपरागवशात् परिणमते । तस्याश्चाद्यः परिणामो बुद्धिरन्तःकरणविशेषः। बुद्धिरेव महत्तत्त्वम् । सा च बुद्धिर्दर्पणवन्निर्मला । तस्याश्च बहिरिन्द्रियप्रणाडिकया विषयाकारो यः परिणतिभेदो घटः इति
पटः इति तत् ज्ञानम् वृत्तिः इति चाख्यायते । स्वच्छायां बुद्धौ - वर्तमानेन ज्ञानेन चैतन्यस्य पुरुषस्य भेदाग्रहात् अहं जानामि इति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org