________________
૨૮૪
न्यायकोशः ।
1
इति फलितार्थः ( ग० व्यु० का० ३ पृ० ८९ ) । अयमर्थः । पुत्रेण सहागतः पिता इत्यादौ पितुः क्रियासंबन्धः साक्षाच्छब्देनोच्यते पुत्रस्य तु प्रतीयमानः इति पुत्रस्याप्राधान्यम् इति वैयाकरणा आहु: ( काशिका २।३।१९ ) । [ ] तत्क्रियाकालीनत्वम् । यथा शिष्येण सहागतो गुरुः इत्यादौ । अत्र कर्तृत्वं तृतीयार्थः । तस्य सहशब्दार्थैकदेशक्रियायामन्वयः । सहशब्दार्थस्य तादृशकालीनत्वस्य च धात्वर्थेन्वयः । इत्थं च शिष्यकर्तृकागमनकालीनागमनकर्ता गुरुः इति बोध: ( म०प्र० ०६) । [ ] समभिव्याहृतपदोपस्थाप्यो यत्किंचिद्धर्मः । यथा शिष्येण सह गुरुर्ब्राह्मणः पुत्रेण सह पिता सुन्दरः इत्यादौ सहशब्दस्यार्थः । अत्र सहशब्दार्थो ब्राह्मण्यसौन्दर्यादि । तस्य समानकालीनत्व - संबन्धेन ब्राह्मणसुन्दरादिपदार्थैकदेशेन्वयः । परे तु सहार्थः साहित्यम् एकधर्मान्वयित्वरूपम् । तृतीयार्थो वृत्तित्वम् संख्यामात्रं वा । तथा च शिष्यसाहित्यवान् गुरुर्ब्राह्मणः इत्यादिबोधः इत्याहु: (काव्या० पृ० ८) । २ शाब्दिकास्तु सह विद्यमानत्वम् । यथा सहैव दशभिः पुत्रैर्भारं वहति गर्दभी इत्यादौ सहशब्दार्थ इत्याहुः ( ल० म० ) । ३ साकल्यम् । ४ सादृश्यम् । ५ यौगपद्यम् । ६ समृद्धि: । ७ संबन्ध: ( मेदि ० ) । ८ सामर्थ्यम् (शब्दमा० ) ।
सहकार :- १ सहकर्मकरणम् ( सहकारित्वम् ) । २ सुगन्धिरात्रः इति काव्यज्ञा आहुः ( अमर : २ | ४ | ३ ३ ) ।
सहकारित्वम्—स्वभिन्नत्वे सति स्वकार्यकारित्वम् । यथा दण्डस्य मृत्तिका - कार्यघटकारित्वम् ।
सहचरितत्वम् – १ सामानाधिकरण्यम् । २ क्वचित् व्याप्तिमत्त्वम् । यथा साध्येनासहचरितो व्याप्यत्वासिद्धः इत्यादौ सहचरितत्वशब्दार्थो व्याप्तिः । सहचारः – सामानाधिकरण्यम् ( दीधि० २ ) ।
सहायता — अन्यकर्तृकक्रियायाम प्राधान्येनान्वयित्वम् । यथा देवदत्तो यज्ञदत्तेन सह तण्डुलं पचति इत्यादौ यज्ञदत्तस्य पचनक्रियायां सहायता ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org