________________
परिशिष्टम् ।
५५४ दुर्गाः ( १।११३७ )-दुर्गासप्तशत्यो नव दुर्गा उक्ताः । तथा हिप्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी । तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ पञ्चमं स्कन्दमातेति षष्ठं कात्यायनी तथा । सप्तमं कालरात्रीति महागौरीति चाष्टमम् ॥ नवमं सिद्धिदात्री च नव दुर्गाः प्रकीर्तिताः । इति दुर्गासप्तशतीकवचम् ३-५ ॥
निधिः (ले० ३०--१।१७१) मूले नवनिधय उक्ताः। किन्तु हारावल्या 'खर्वश्च निधयो नव' इत्यस्य स्थाने 'व!ऽपि निधयो नव' इति पाठ उपलभ्यते । मार्कण्डेयपुराणे तु 'वर्च' इति हित्वाऽष्टावेवोक्ता' इति भरतः। तल्लक्षणं फलश्च मार्कण्डेयपुराणस्य ६८ तमेऽध्याये द्रष्टव्यम् ।।
सध्या (१।४।३)-मुहूर्तचिन्तामणौ, तद्वयाख्यायां पीयूषधारायां चोक्तं सन्ध्यालक्षणं निर्दिश्यते । तथा हि
'सन्ध्या त्रिनाडीप्रमितार्कविम्बादोदितास्तादध ऊधमत्र ।
चेद्याम्यसौम्ये अयने क्रमास्तः पुण्यौ तदानीं परपूर्वधनौ' । इति मुहूर्तचिन्तामणिः ३॥७॥ अत्र पीयूषधाराख्यटीकाकारः । तदाह वराहः
अर्धास्तमितानुदितात्सूर्यादस्पष्टभं नभो यावत् ।
तापत्रसन्ध्याकालचिह्न रेतैः फलं ब्रूयात्' ॥ इति ॥ सन्ध्ययोर्लक्षणान्तरे । तत्प्रमाणमाह नारदः'मास्तमनसन्ध्या हि घटिकात्रयसंमिता । तत्रैवार्डोदयात्प्रातर्घटिकात्रयसंमिता' ॥इति॥ स्कन्दपुराणेऽपि
'उदयात्प्राक्तनी सन्ध्या घटिकात्रयमुच्यते ।
सोऽयं सन्ध्या विघटिका त्यस्तादुपरि भास्वतः' ॥ इति ॥ अत्र सन्ध्यालक्षणोऽर्धास्तमितानूदितवाक्यस्य स्कन्दपुराणीयवाक्यस्य च यव. ब्रीहिवद्विकल्प:' इति ॥
कल्पः (१।४।२१)-त्रिंशत्कल्पस्य ब्रह्मणो मासो जायते । तेषाच त्रिंशस्कल्पाना नामान्यत्र निर्दिश्यन्ते । तथा हि-'अथ कल्पदानं मत्स्यपुराणे-- 'कल्पानुकीर्तनं वक्ष्ये सर्वपापप्रणाशनम् । यस्यानुकीर्तनादेव वेदपुण्येन युज्यते ॥ प्रथमः श्वतकल्पस्तु द्वितीयो नीललोहितः । वामदेवस्तृतीयस्तु ततो रथन्तरोऽपरः ॥ शैरवः पञ्चमः प्रोक्तः षष्ठः प्राण इति स्मृतः । सप्तमोऽथ बृहत्कल्पः कन्दर्पोऽष्टम उच्यते ॥ सयोऽथ नवमः प्रोक्त ईशानो दशमः स्मृतः । व्यान एकादशः प्रोक्तस्तथा सारस्वतोऽपरः॥ त्रयोदश उदानस्तु गारुडीऽथ चतुर्दशः। कूर्मः पञ्चदशो ज्ञेयः पौर्णमासी प्रजायते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org