________________
अमरकोषेसमाधि समापत्तिज्ञानबलानि । ७ सर्वत्रगामिनीप्रतिपज्ज्ञानबलम् । ८-९ पूर्वनिवास बलम , च्युत्युत्पादनबलञ्च । १० अ.श्रवक्षयज्ञान बलम्'। इति अभिधः मेकोषः ७।२९॥ ___ अष्टमूर्तिः (क्षे० १४-१।१।३४)-अथाष्टमूर्तः प्रत्येकमूर्तिनामान्युच्यन्ते । तथा हि-१ क्षितिमूर्तिः शर्वः, २ जलमूर्तिर्भवः, ३ अनिमूर्ती रुद्रः, ४ बायुमूर्तिसमः, ५ आकाशमूर्तिीमः, ६ यजमानमूर्तिः पशुपतिः, ७ चन्द्रमूतिर्महादेवः, ८ सूर्यमूतिरीशानश्चेति तन्त्रशास्त्रम् । एताः शरभरूपिशिवस्याष्टपादा इति कालिकापुराणम् ॥ अन्यच्च"अथानी रविरिन्दुश्च भूमिरापः प्रभखनः । यजमानः खमष्टौ च महादेवस्य मूर्तयः ॥
इति 'शब्दमाला' इति शब्दकल्पद्रुमस्य १४९ तमे पृष्ठे। सप्तमातरः (ले० १६-११११३५)-भरतेन सप्त मातर उकास्तथा हि
'ब्राह्मी माहेश्वरी चैन्द्री रौद्री वाराहिकी तथा ।
कौबेरी चैव कौमारी मातरः सप्त कीर्तिताः ॥ इति । अन्याश्च सप्तमातरो यथा
'श्रादौ माता गुरोः पत्नी ब्राह्मणी राजपत्रिका।
गावी धात्री तथा पृथ्वी सप्तैता मातरः स्मृताः' ।। इति । अन्यत्राष्टमातरोऽप्युक्तास्तथा हि
'ब्राह्मी माहेश्वरी चैव वाराही वैष्णवी तथा।
कौमारी चैव चामुण्डा चर्चिकेत्यष्ट मातरः' ।। इति ॥ श्राद्धतत्त्वे बह चपरिशिष्टे गौर्यादिषोडशमातरोऽप्युक्तास्ता यथा
गौरी पद्मा शची मेधा सावित्री विजया जया। देवसेना स्वधा स्वाहा मातरो लोकमातरः ॥ शान्तिः पुष्टिधृतिस्तुष्टिंरात्मदेवतया सह ।
श्रादौ विनायकः पूज्यः अन्ते च कुलदेवताः।। इति ॥ वैष्णवपूज्यास्त्वन्या एव षोडश मातरः उक्तास्तथा हि'यत्र मातृगणाः पूज्यास्तत्र येताः प्रपूजयेत् । सदा भगवती पौर्णमासी पमान्तरणिका ।। गङ्गा कलिन्दतनया गोपी वृन्दावती तथा । गायत्री तुलसी वाणी पृथिवी गौश्व वैष्णवी ॥ श्रीयशोदा देवहूतिदेवकीरोहिणीमुखाः । श्रीसीता द्रौपदी कुन्ती पर या महर्षयः ।।
रुक्मिण्याद्यास्तथा चाष्टमहिषी याश्च ता अपि । इति पाझे उत्तरखण्डे ७८ तमेऽण्याये' इति शब्दकल्पद्रुमस्य ६९० तमे पृष्टे ।।
For Private & Personal Use Only
.
Jain Education International
www.jainelibrary.org