________________
परिशिष्टम् आदित्याः (१।१।१०)-हरिवंशोक्ता द्वादशादित्यकथाऽत्रोच्यते, तथा हि'मरीचात्कश्य पानातास्तेऽदित्या दक्षकन्यया । तत्र शक्रश्च विष्णुश्च जमाते पुनरेव ह ॥ अर्यमा चैव धाता च त्वष्टा पूषा च भारत। विवस्वान् सविताचैव मित्रोवरुण एव च ॥ अंशो भगश्चातितेजा श्रादित्या द्वादश स्मृताः'। इति शब्दकल्पद्रुमकोशः॥
काश्यान्त्वन्य एव द्वादशादित्याः विद्यन्त इत्युक्तं काशीखण्डे । तथा हिइति काशी प्रभावज्ञो जगचभुस्तमोनुदः । कृत्वा द्वादशधाऽऽस्मानं काशीपुर्या व्यवस्थितः॥ लोकार्क उत्तरार्कश्च शम्बादित्यस्तथैव च । चतुर्थो द्रुपदादित्यो पद्धकेशवसङ्गको ॥ दशमो? विमलादित्यो गङ्गादित्यस्तथैव च । द्वादशश्च रमादित्यः काशीपुय्या पटोद्भव ॥ तमोऽधिकेभ्यो दुष्टेभ्यः क्षेत्रं रक्षन्त्यमी सदा।
इति काशीखण्डे अ० ४६; वाचस्पत्याभिधानस्य ३८०६ तमे पृष्ठे ॥ यथा वा-विष्णुधर्मोत्तरे भारते चोक्ता द्वादशादित्याः'धाता मित्रोऽर्यमा रुद्रो वरुणः सूर्य एव च । भगो विवस्वान् पूषा च सविता दशमस्तथा।
एकादशस्तथा त्वष्टा विष्णुर्दादश उच्यते' । इति ॥ द्वादशमानभेदेनान्य एव द्वादशादित्या श्रादित्यहृदये उतारतेऽत्र निर्दिश्यन्ते । तथा हि'अरुणो माघमासे तु सूर्यो वै फाल्गुने तथा। चत्रेमासि च वेदज्ञो वैशाखे तपनः स्मृतः॥ ज्येष्ठे मासि तपेदिन्द्र प्राषाढे तपते रविः । गभस्तिः श्रावणे मासे यमो भाद्रपदे तथा । इथे हिरण्यरेताच कार्तिके च दिवाकरः । मार्गशीर्षे तपेच्चैत्रः पौषे विष्णुः सनातनः॥
इत्येते द्वादशादित्याः काश्यपेयाः प्रकीर्तिताः' !
इति वाचस्पत्याभिधानस्य ६९६ तमे पृष्ठे ॥ विश्वेदेवाः ( १।१.१०)-विश्वेदेवा दश प्रोकास्तेषां नामान्युल्लिख्यन्ते । तथा हि'ऋतुर्दक्षो वसुः सत्यः कामः कालस्तथा धुरिः। रोचनोमाद्रवाश्चैव तथा चान्यः पुरूरवाः। विश्वेवा भवन्त्येते दश श्राद्धेषु पूजिताः' । इति वाचस्पत्याभिधाने ४९१६ तमे पृष्ठे॥
अन्यच्च वहिपुराणे'ऋतुर्दशो वसुः सत्यः कामः कालस्तथा ध्वनिः। रोचकवादवाव तथा चान्यः पुरूरवाः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org