________________
५५४
अमरकोषे
विश्वेदेवा भवन्त्येते दश सर्वत्र पूजिताः ॥ इति वह्निपुराणे गणनामाध्यायः । इति शब्दकल्पद्रुमकोशस्य ४४० पृष्ठे ।
वसवः ( १1१1१० ) - वसवोऽष्टौ । ते यथा'धरो ध्रुवश्च सोमश्च श्रहश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासच वसवोऽष्टाविति स्मृताः। इति भा० ० ६६ ०' इति वाचस्पत्याभिधानस्य ४८६३ तमे पृष्ठे । धरो ध्रुवश्च सोमश्च विष्णुश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ क्रमात्स्मृताः ॥ इति भरतः । दक्षो द्वितीयजन्मनि षष्ठमन्वन्तरे सिक्न्यां परयो षष्टिः कन्या जनयामास । ताः प्रजापतिभ्यो दत्तवान् । धर्माय दश, तासां नामानि - 'मानुर्लम्बा ककुयामिर्विश्वा साध्या मरुत्वती । वसुमुहूर्ता सङ्कल्पा । श्रासां मध्ये वसोरष्टौ वसवः पुत्रा जाताः । ते यथा—१ द्रोणः, २ प्राणः, ३ ध्रुवः, ४ अर्कः ५ अग्निः ६ दोषः, ७ वास्तुः ८ विभावसुश्चेति ।
मतान्तरोक्ता अष्टो वसवो यथा
४१ धरः २ ध्रुवः, ३ सोमः ४ सावित्रः ५ अनिलः, ६ अनलः, ७ प्रत्यूषः, ८ प्रभासश्चेति' महाभारते दानधर्मः । अचि च-'श्यापो ध्रुवश्च सोमश्च परश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः । इति वह्निपुराणे काश्यपीयप्रजासर्गनामाध्यायः । कूर्मपुराणे १४ तमाध्यायश्चेति ॥
तुषिताः (१।१।१०) गणदेवताभेदे १२ मन्वन्तरभेदे भिन्ननामानो यथा-'पूर्वमन्वन्तरे श्रेष्ठा द्वादशासन् सुरोत्तमाः । तुषिता नाम तेऽन्योन्यमूचुर्वैवस्वतोऽन्तरे ॥ उपस्थितेऽतियशसश्चाक्षुषस्यान्तरे मनोः । समवायीकृताः सर्वे समागम्य परस्परम् ॥ आगच्छत द्रुतं देवा दितिं संप्रविश्य वै । मन्वन्तरे प्रसूयामस्तत्र श्रेयो भविष्यति ॥ एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः । मारीचात्कश्यपाज्जातास्तेऽदित्यादक्षकन्यया ॥ तत्र विष्णुश्च शक्रश्व जज्ञाते पुनरेव च । अर्यमा चैव धाता च त्वष्टा पूषा तथैव च ॥ विवस्वान् सविता चैव मित्रो वरुण एव । अंशो भगश्चादितिजा श्रादित्या द्वादश स्मृताः ॥ चाक्षुषस्यान्तरे पूर्वमासन् ये तुषिताः सुराः ।
वैवस्वतोऽन्तरे ते वै प्रदित्या द्वादश स्मृताः ॥'
इति हरिवंशे श्याध्यायः ॥ तथा चादित्यरूपा द्वादश
'प्राणापानावुदानश्च समानो व्यान एव च । चक्षुः श्रोत्रं रसो घ्राणस्पर्शो बुद्धिर्मनस्तथा ॥
१. अत्रैवाने प्रत्येकस्य सन्ततिवर्णनं नाम चामे विस्तरेण वर्णितम् ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org