________________
[ fagr:
( ५५० )
श्यावाश्वम् ( साम ) श्यावाश्वमार्वनानस सत्रमासीनं धन्वोदवहन् स एतत्सामापश्यत्तेन वृष्टिमसृजत ततो वै स प्रत्यतिष्ठततो गातुमविन्दत गातुविद्वा एतत्साम । तां० ८५९ ॥ श्येनः यदाह श्येनो ऽसीति सोमं वा एतदा है ह वा अग्निर्भूत्वा Sस्मिल्लोके संश्यायति । तद्यत्संश्यायति तस्माच्छयेनस्तच्छयेनस्य श्येनत्वम् । गो० पू० ५ । १२ ॥
I
उरस एवास्य (इन्द्रस्य) हृदयात्त्विषिरस्रवत्स श्येनो ऽपाष्टिहाभवद्वयसां राजा । श० १२ । ७ । १ । ६ ॥
"
99
35
13
श्यैतम् (साम) इयैतेन श्येती कुरुते । तै० १ । १ । ८ । ३ ॥
"9
ते ( प्रजापतिना ऽभिव्याहृताः पशवः) शेत्या अभवन् यच्छेत्या अभवंस्तस्माच्छयैतम् । तां० ७ । १० । १३ ॥
पशुकाम एतन (इयैतेन साम्ना) स्तुवीत । तां० ७ । १० । १४ ॥ पशवो वै श्यैतम् । तां० ७ । १० । १३ ॥
19
रथन्तरं ह्येतत्परोक्षं यछयैतम् (यच्छ चैतम्) । तां०७|१०:८ ॥ श्रद्धा श्रद्धा पत्नी सत्यं यजमानः । ऐ० ७ । १० ॥
श्रद्धां कामस्य मातरं हविषा वर्द्धयामसि । तै० २ | ८ | ८ | ८ ॥ एतद्दीक्षायै ( रूपं ) यच्छ्रद्धा । श० १२ । ८ । २ । ४ ॥
तेज एव श्रद्धा । श० ११ । ३ । १ । १ ॥
श्रद्धैव सकृदिष्टस्याक्षितिः स यः श्रद्दधानो यजते तस्येष्टं न क्षीयते । कौ० ७ । ४॥
99
99
"
59
,.
स ( इयेनः ) हि वयसामाशिष्ठः । तां० १३ । १० । १४ ॥
श्येनो वै वयसां क्षेपिष्ठः । ष० ३ | ८ ॥
एतद्वै वयसामोजिष्ठं बलिष्ठं यच्छयेनः । श० ३ | ३ | ४ | १५ ॥
""
,, श्रद्धा वा आपः । तै० ३ । २ । ४ । १ ॥
श्रद्धा वै सूर्यस्य दुहिता ( यजु० १९ । ४ ) । श० १२ । ७ । ३ । ११ ॥
श्रवद् श्रवद्व इन्द्रः शृण्वद्वाग्निरिति ( यजु०२८ । ६) शृणोतु वै इन्द्रः शृणोत्वग्निरित्याशिषमेव तद्वदते । कौ० २८ । ६ ॥
श्रविष्टाः ( नक्षत्रम्) यदशृणोत् तच्छ्रविष्ठाः (= धनिष्ठा इति सायणः) । तै०१ । ५ । १ । ९॥
35
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org