SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ [वाजी ( ४९२ ) वाजपेयम् वाज ह्येतेन (वाजपेयेन) देवा ऐप्सन् । तै०१ । ३ । २॥३॥ बार्हस्पत्यो वा एष देवतया यो वाजपेयेन यजते । ते० १।३।६। ८-९॥ वाजपेययाजी वाव प्रजापतिमाप्नोति । तां० १८।६।४॥ , यो वै वाजपेयः। स सम्राट्सवः । तै०१।७।६।१॥ सम्राडाजपेयेन (इष्ट्रा भवति)। श०५।१।१ । १३॥९ । ३।४॥ ८॥ स वाजपेयेनेष्ट्वा सम्राडिति नामाधत्त । गो० पू० ५। ८ ॥ , स वा एष ब्राह्मणस्य चैव राजन्यस्य च यशः । तं वा एतं वाजपेय इत्याहुः । तै० १ । ३ । २।३॥ सोमो वै वाजपेयः । तै० १ । ३ । २ । ३ ॥ , अन्नं वै वाजपेयः । तै० १ । ३ ।। ४ ।। , ब्रह्म वै वाजपेयः । तै० १ । ३ । २ । ४॥ , वाजपेयो वा एष य एष (सूर्यः) तपति । गो० उ० ५। ८ ॥ वाजिनम् (ऋ० १० । ७२ । १०) इन्द्रियं वै वीर्य वाजिनम् । ए० ११.३॥ ,, योषा पयस्या रेतो वाजिनम् । श० २।४। ४ । २१ ॥ २। ,, रेतो वाजिनम् । तै० १।६।३।१०॥ पशवो वै वाजिनम् । तै० १ । ६ । ३ । १०॥ वाजी यत्सद्यो वाजान्त्समजयत् । तस्माद्वाजी नाम । तै०३।९। २१ । २॥ ., (हे ऽश्व त्वं) वाज्यसि । तां० १ । ७।१॥ ,, वाजिनो ह्यश्वाः । श०५।१।४।१५ ॥ ,, (अश्वो) वाजी (भूत्वा) गन्धर्वान् (अवहत्) । श० १०६॥४॥१॥ देवाश्वा वै वाजिनः । कौ० ५। २॥ देवाश्वा वै वाजिनो ऽत्र देवाः साश्वा अभीष्टाः प्रीता भवन्ति । गो० उ०१॥ २०॥ ,, अग्निर्वायुः सूर्यः। ते वै वाजिनः। तै०१।६।३।९॥ " आदित्यो वाजी । तै०१।३।६।४॥ ॥ इन्द्रो वै.वाजी । ऐ० ३ । १८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy