________________
( ३७१ ) ब्रह्मचारी वृह्मचारी सप्तमी नातिनयेत्सप्तमीमतिनयन्न ब्रह्मचारी भवति, समि
द्भक्षे सप्तरात्रमचरितवान् ब्रह्मचारी पुनरुपनेयो भवति । गो० पू०२।६॥ (ब्रह्मचार।) महीभूत्वा भिक्षते य एवास्य मृत्यौ पादस्तमेव तेन परिक्रीणाति तथं संस्कृत्यात्मन्धत्ते । श० ११ । ३ ।
ब्रह्म वै मृत्यवे प्रजाः प्रायच्छत् । तस्मै ब्रह्मचारिणमेव न प्रायच्छत्सो (मृत्युः ) ऽब्रवीदस्तु मह्यमप्येतस्मिन्भाग इति यामेव रात्रि समिधं नाहराताऽ इति तस्माद्यां रात्रि ब्रह्मचारी समिधं नाहरत्यायुष एव तामवदाय वसति तस्माद्रह्मचारी समिधमाहरेनेदायुषो ऽधदाय वसानीति | श० ११ । ३।३।१॥ ब्रह्म ह वै प्रजा मृत्यवे सम्मायच्छतु, ब्रह्मचारिणमेव म सम्प्रददौ, स होवाचास्यामस्मिन्निति किमिति या रात्री समिधमनाहस्य वसेत्तामायुषो ऽवरुन्धीयेति, तस्माद्रह्मचार्यहरहा समिध आहत्य सायं प्रातरग्निं परिचरेत् । गो० पू० २।६॥ (ब्रह्मचारी)न श्मशानमातिष्ठेतू. स चेदभितिष्ठेदुदकं हस्त कृत्वा । गो० पू०२।७॥ (ब्रह्मचारी) अध एवासीत, अधः शयीत, अधस्तिष्ठेदधी प्रजेदेवं ह स्म तत्पूर्वे ब्राह्मणा ब्रह्मचर्य चरन्ति । गी० पू० २।४॥ ( ब्रह्मचारी ) नोपरिशायी स्यान गायनो , नर्सनो न सरणो म निष्ठीवेत् । गो० पू०२।७॥ सदाहुः । न ब्रह्मचारी सन्मध्वनीयादोषधीनां वाऽ एष परमो रसो यन्मधु नेदनाद्यस्यान्तं गच्छानीत्यथ ह स्माह श्वेतकेतुरारुणेयो ब्रह्मचारी सन्मध्वश्रंखय्यै वा एतद्विद्यायै शिष्ठं यन्मधु...यथा ह वा ऋचं वा यजुर्वा साम वाभि. व्याहरेत्ताहत एवं विद्वान्ब्रह्मचारी सन्मध्वभाति तस्माद् कममेवाभीयात् । श० ११ । ५।४।१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org