________________
[क्षत्रम् क्षत्रियः (१४० ) क्षत्रम् , क्षत्रियः क्षत्रं वै स्विष्टकृत् । श० १२ । ।३।१६ ॥
क्षत्रं त्रिष्टुप् । कौ० ३।५ ॥ श० ३।४।१।१०॥ ब्रह्म हि पूर्व क्षत्रात् । तां० ११।१।२॥ सैषा क्षत्रस्य योनिर्यब्रह्म । श० १४।४।२।२३ ॥ ब्रहणः क्षत्रं निम्मितम् । तै०२।।18॥ तद्यत्र ब्रह्मणः क्षत्रं वशमेति तद्राष्ट्र समृद्धं तद्वीरवदाहास्मिन् वीरो जायते । ऐ०।६॥ अभिगन्तैव ब्रह्म कर्ता क्षत्रियः । श०४।१।४।१॥ एतद्ध त्वेवानवक्तप्तं यत्क्षत्रियो ऽब्राह्मणो भवति तस्मादु क्षत्रियेण कर्म करिष्यमाणेनोपसर्तव्य एव ब्राह्मणः । श०४।१।४।६॥ क्षत्रं वै होता। ऐ०६ । २१॥ गो० उ०६।३॥ क्षत्रं माध्यन्दिनं सवनम् । कौ० १६॥ ४ ॥ भुव इति ( प्रजापतिः) क्षत्रम् (अजनयत)। श०२। १।४।१२॥ यजुर्वेदं क्षत्रियस्याहुर्थोनिम् । ते० ३ । १२ । । ।२॥ क्षत्रं वै साम । श० १२ । ।३ । २३ ॥ गो० उ० ५।७॥ क्षत्रं वै स्तोत्रम् । १०१।४॥ क्षत्रं वै लोकम्पृणा ( इष्टका) विश इमा इतराइष्टकाः। श०८।७।२।२॥ क्षत्रं वै लोकम्पृणा (इष्टका)। २०।४।३।५॥ क्षत्रमुपाशुयाजः । श० ११ । २।७। १५ ॥ क्षत्रं वै प्रस्तरः । श०१।३।४।१०। यस्तान्तवं वस्ते क्षत्रं वर्द्धते न ब्रह्म । गो० पू०।२।४ ॥ ब्रह्म वै पौर्णमासी क्षत्रममावास्या। कौ०४ ।। एतानि क्षत्रस्यायुधानि यदश्वरथः कवच इषुधन्य । ऐ०७। १९ ॥ अन्नं वै क्षत्रियस्य विट् । श०३।३।२।। तस्मान कदा चन ब्राह्मणश्च क्षत्रियश्च वैश्य च शुद्ध च पश्चादन्धितः । श०६।४।४।१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org