________________
[ आहवनीयः
( ७८ )
आसन्दी इयं ( पृथिवी ) वाऽआसन्द्यस्यां हीदं सर्वमासन्नम् । श० ६ । ७ । १ । १२ ॥
आसितम् (साम) - असितो वा एतेन दैवलस्त्रयाणां लोकानां दृष्टिमपश्यत् त्रयाणाङ्कामानामवरुध्या आसितं क्रियते । तां १४ । ११ । १९ ॥
आस्कनाहुतिः अथ यस्याज्यमनुत्पूतं स्कन्दत्यसौ वा अस्कन्नानामाहुतिः । ष० ४ । १ ॥
आहवनीयः (अग्नि: ) द्यौराहवनीयः । श० ८ | ६ | ३ | १४ ॥ यद्वाऽआहवनीयमुपतिष्ठते । दिवं तदुपतिष्ठते । श० २ । ३ । ४ । ३६ ।।
""
""
"
"
35
""
37
"
<3
"
""
"
""
33
,,
17
एष वै स यज्ञः । येन तद्देवा दिवमुपोदक्रामन्नेष आह्नवनीयोऽथ य इहाद्दीयत स गाईपत्यस्तस्मादेतं (आहवनीयं) गार्हपत्यात्प्राञ्चमुद्धरन्ति । श० १ । ७ । ३ । २२ ॥
यज्ञेो वा आहवनीयः स्वर्गो लोकः । ऐ० ५ । २४, २६ ॥ स्वर्गो वै लोक आहवनीयः । ष० १ । ५ ॥ तै० १ । ६ । ३॥६॥
देवयोनिर्वाऽएष यदाहवनीयः । श० १२ । ९ । ३ । १० ॥ इन्द्रो ह्याहवनीयः । श० २ । ६ । १ । ३८ ॥
1
तस्य (राज्ञः) पुरोहित एवाहवनीयो भवति । ऐ०८ | २४ ॥ शम इत्याहवनीयः । जै० उ० ४ । २६ । १५ ॥ प्राणोदानावेवाहवनीयश्च गार्हपत्यश्च । श० २ । २ । २ । १८ ॥
यज्ञ आहवनीयः । श० १ । ७ । ३ । २६ ॥ यजमान आहवनीयः । तै० ३ । ३ । ७ । २ ॥
एतदायतनो यजमानो यदाहवनीयः । तां० १२ । १० । १६ । यजमानदेवत्यो वा आहवनीयः । तै० १ । ६ । ५ । ३ ।। यद्वा आहवनीयमुपतिष्ठते। पशूंस्तद्याचते । श० २ । ३ ।
४ । ३२ ॥
योनिर्वै पशूनामाहवनीयः । कौ० १८ । ६ ॥ गो० उ०४ ॥६॥ आहवनीयो वा आहुतीनां प्रतिष्ठा । श० २ । ४ । ३ । १० ॥ सामवेदादाहवनीयः ( अजायत ) । प० ४ । १ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org