________________
आदित्वा आदित्यः त्रिह वा एष (मघवा = इन्द्रः = आदित्यः) एतस्या मुहूर्त
स्येमाम्पृथिवीं समन्तः पर्येति । जै० उ०१।४४।९॥ एष ह वा अह्नां विचेता याऽसौ ( सूर्यः) तपति । गो० उ०६।१४॥ एष ( आदित्यः) ह वा अह्नां विचेतयिता । ऐ०६॥ ३५ ॥ असो वाऽ आदित्यः पाप्मनो ऽपहन्ता। श०१३।८।
स वा एष ( आदित्यः) न कदाचनास्तमयति नीदयति । तद्यनं पश्चादस्तमयतीति मन्यन्ते अह्न एव तदन्तं गत्वाथात्मानं विपर्यस्यतेहरेवाधस्ताकृणुते रात्री परस्तात् । गो० उ०४ । १०॥ स वा एष ( आदित्यः) न कदाचनास्तमेति नोदेति तं यदस्त मेतीति मन्यतेऽह्न एव तदन्तमित्वाऽथात्मानं विप. यस्यते रात्रिमेवावस्तात कुरुतेऽहः परस्तादथ यदेनं प्रातरुदेतीति मन्यते रात्ररेव तदन्तभित्वाथात्मानं विपर्यस्यते ऽहरेवावस्तात्कुरुते रात्रि परस्तात्स वा एष न कदाचन निम्रोचति । ऐ०३।४४॥ तस्य ( अस्य-आदित्यस्य ) एतदन्नं क्यमेष चन्द्रमास्तदय यजुष्टः । श० १०।४।१ । २२॥ प्राङ् चार्वाङ् चादित्यस्तपति । तां० १२ । १० । ६ ॥ यस्मादायत्रोत्तमस्तृतीयः (त्रिरात्रः) तस्मादादित्य. स्तपति । तां०१०। ५ । २॥ सहस्रं हैत आदित्यस्य रश्मयः । जै० उ०१।४।५ ॥ स एष (आदित्यः) एकशतविधस्तस्य रश्मयः शत विधा एष एवैकशततमो य एष तपति । श०१०।२।४।३॥ षष्टिश्च ह वै त्रीणि च शतान्यादित्यस्य रश्मयः । श. १०।५।४।४॥ षष्टिश्व ह वै त्रीणि च शतान्यादित्यं नाव्याः समन्तं परि. 'यन्ति । श०१०। ४।१४॥ शतयोजने ह वा एष (आदित्यः) इतस्तपति । को.८३॥ (सावित्रमनि) स (भरद्वाजः) विदित्वा । अमृतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org