________________
(१४)
आदिमपाठयविषयाः। एतदुपनिषत्कोशोपयुक्तताजिज्ञासुभिः संस्कृतसारस्वतोपासकैः पण्डितवरैः शास्त्रि-पौराणिक-प्रवचनकादिभिश्च प्रथमं ज्ञातृशेयज्ञानात्मानात्मात्मीय-चिञ्चितचिन्तनीय-ध्यानध्येयव्यान-वमहमादिशब्दागम्भावाक्यानि शुद्धसत्वान्तःकरणेन प्रविचार्यास्योपयोगिता निर्धार्या ।
१-अत्र सर्वाणि वाक्यान्यकारादिवर्णक्रमेणैव लिखितानि; किन्तु ' ओङ्कारं प्रथमं कृत्वा ततो ब्रह्म प्रवर्तयेत् । भन्यथा विपरीतं तद्ब्रह्म स्यानात्र संशयः (प्रयोगपारिजाते यमः) इति धर्मशास्त्रानुशासनात् , श्रुत्यध्ययनस्य सर्वत्रोकार पूर्वकत्वान् , उपनिषदामपि श्रुतिविशेषत्वाच्च प्रणवादीनि वाक्यानि प्रथमं निवेश्य ततोऽकारादिक्रम माहतः। २-(?) ईदृक् चिढ़ादिमद्वाक्यं जेकब ' महोदयकृतोपनिषच्छब्दकोशादुपात्तम् । एवंविधानि
यानि च 'घ' वर्गादिवाक्यपर्यन्तमेव संगृहीतानि | ३- +इति चिह्न प्रकृतस्य वाक्यस्यान्यत्रापि निर्दिश्य. मानस्थलेऽवस्थानसूचकम् । ४- एतचिह्नमुपात्तवाक्यस्य तस्यामेवोपनिषदि निर्दिष्टस्थानेष्वानेडनबोधकम् । ५ -...इदं विस्तारभयात् त्यक्तानां शब्दानां सूचनम् । ६-अत्र कचित् पदच्छेदः पतयायतिपरिजिहीर्षया न विहितः । ७-दूरान्वयवन्ति द्राधिष्ठानि च वाक्यानि- यथाऽऽचार्यैरुदाहियन्ते तथा- द्विधा त्रिधा वा कृत्वाऽत्र निवेशितानि । सममाण्यपि च तानि तत्तदादिवर्णानुसारेण सहीतान्येवेति न कैश्वनात्र विप्रतिपत्तव्यम् । ८-वाक्यारम्भप्रधानपदाधवर्णमरुनुध्यैव तनिवेशनं विधाय, तदारम्भगतानि मथ-अत:-खलु' प्रभृतीनि पदानि कुत्रचित् ( ईहक चिह्नान्तरे लिखितानि । ९-अत्र निर्दिष्टाः खण्डाध्यायाद्याश्व प्रकाश्य. मानं बृहदपनिषत्संग्रहमनुसरन्ति । १०-उपनिषदां नामादिसकेताच सुव्यक्तत्वात कोशानुशीलनावसर एवं बुध्येरन् । ११ मुद्रितामुद्रितोपनिषत्सु कियन्त्यो निरङ्का मपि सन्ति ता यथावसरं यथामति च साङ्काः कृत्वव तत्तदुपनिषद्वाक्यमत्र लिखितम, यतस्तद्वाक्योपलब्धिः सुकरा स्यात्तथा यतितमिति वाचकदक्पथं यास्यत्येव ।
उपनिषद्वाक्यकोशस्यास्य प्रणयनं केन प्रकारेण कथं जातं तदादावेव निर्दिष्टम । तत्कार्गसमारम्भे प्रसिद्धा. प्रसिद्धा (मुद्रितामुद्रिताः) उपनिषन्मूलभाष्यादिग्रन्था इतस्ततो य उपलब्धास्ते सर्वेतपन्धीयानामेव । ततोऽस्या खिलसाम्प्रदायिनामप्युपयुक्ततासिद्धिं चिकीर्षुणा मया तत्तत्साम्प्रदाय्युपनिषदंथा बहुत्रान्वेषितास्तदा केवलं मावापरपर्यायिद्वैतपन्धीयाः सभाष्येशावास्यादयो दशोपनिषदः समासादिताः। तदन्तर्गता: पाठभेदास्तन्मूलत एवात्र सङ्कलिताः, माध्वभाष्यम्य गद्यपद्यात्मकत्वात् ; पद्यात्मके भाष्ये पाठान्तरव्याकृतेरसंभवाच । विशिष्टाद्वैतपन्थीयास्ता: सभाष्या: कुत्रचिन्मुद्रिता इति केवलं शुश्रुमः । शुद्धाद्वतीयानां पुष्टिमार्गीयाणां तु दशोपनिषापाठान्तराणि सन्तीति किंवदन्त्याकर्ण्यते, कुत्रचिदृष्टान्यपि मया तद्न्थेषु, परंतु तदाप्तिः सुदुर्लभैव । तथापि यदि तानि मद्भागधेयवशाद्धस्तगतानि भवेयुः, यथोचितस्थलदानेन चात्र विभूषितानि भवेयुस्तर्हि कृतार्थो भवेयम् । ___ अन्ततश्च “यैः सङ्कलितसकलसकलविद्यैर्विद्याभिलाषिभिविद्याधनदानशौण्डैः श्रीमत्फत्तेसिंहसुतैः प्रतापसिंहमहागजैराजर्जरितस्य दशैकादशहायनैः कृताखण्डितायासस्य कल्पवृक्षेणेव स्वच्छायाश्रितस्य तवेप्सिततमं पूरयित्वा त्वत्प्रणीत उपनिषद्वाक्यमहाकोशोऽङ्गीकृतः, तेषां कीर्तिकीर्तने सगुणगणधन्यवाददाने च कथं त्वं दशदिवप्रसारिततद्यशोभास्करकरैश्चकितचित्तश्चलद्धस्तो जरठः समर्थो भवितुमिच्छसि" इति मम मानसं मां
पदिशति च मूलसिञ्चनेन वृक्षाग्रं यथोहसति सफलीभवति च तथा त्वमपि यः साधनभूतैमहाराजः प्रसादिनस्ताञ्छरणीभव ' इति । अतस्तानेव सौजन्यशालिनः परोपकतिपरांस्तत्तदधिकाराधिकृतान् धन्यवादानि ग. रा. शं. न. पगारोपाभिधानान , 'डॉ. लेले' इत्युपाख्यान डॉ. भट्टाचार्यान् , प्रो. श्री. स. 'भावे' इत्युपाहान, वि. पा. 'नेने ' इत्याख्यांचाहं तत्कृतोपकारभारेण नम्रीभूतः सादरं सप्रेम च संस्तूय निवेदयाभि तत्तदुपकारजातातिमहत्यनुकम्श नहि शक्या कदापि विस्मतमित्यलमतिपल्लवितेन ।
प्राज्ञपादपांमुःसाधले इत्युपाख्यो शंभुसूनुर्गजाननः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org