________________
(१३) वाक्यानां स्थलनिदर्शनेन न तथा परिश्रान्तोऽस्मि यथोपनिषद्वाक्यस्थलाङ्कनिदर्शनेन । एवमस्मिन्नारब्धकायें मासद्वयावध्यगाधचिन्ताम्बुधेरतितरतरलतरङ्गनिकरेषु निमनमानसोऽभूवम् ।
तत एकस्मिन्दिने नयननाराचवसुविधुतमे (१८५२ ) शकाब्देऽनन्तप्रियायामनन्तचतुर्दश्यां कृतानन्तार्चनोपासनस्य “को मम चिन्ताग्रहप्रस्तस्य इस्तावलम्बदानेनास्मात्समुद्धर्ता भविता ? 'अनन्तसंसारमहासमुद्रमनं समभ्युद्धर वासुदेव!। अनन्तरूपे विनियोजयस्व ह्यनन्तसूत्राय नमो नमस्ते ।।' इत्यनन्तभक्तैरनन्तस्तवैः स्तुतोपासितानन्तगुरो ' त्वमेवेदानी ममाप्यनन्तापत्समुद्धा गुरुः शरणं भव' इति प्रार्थयमानस्यार्धरात्रेऽसुप्तस्यापि मम मनसि श्रीमदनन्तानुग्रहतश्चिन्तापद्धनध्वान्तविध्वंसकोऽयं चिन्तामणिः प्रादुरभूघदहमेवोपनिषद्वाक्यकोशस्य सम्यक्प्रणयनं कुर्यां तर्हि मदीयमप्यारब्धकार्य सफलं भवेल्लोकसंग्रहश्वापीति । ततस्तदेवोत्थाय कृतानन्तानन्तप्रणामोऽहं मुद्रिताष्टोत्तरशतोपनिषद्रतामीशावास्योपनिषदमारभ्योपनिषदाक्यमहाकोशहेतोस्तद्वाक्यावलीलेखन विधातुमुद्यक्तः।
चतुःपञ्चोपनिषदां वाक्यलेखनानन्तरं लिखितेषु वाक्येष्वपशब्दितं गलितादि २ दृष्टा तरीकर्तुमनसा पितृपितामहादिसंग्रहीतग्रन्थेषु विचिन्वता मयाऽतिजीर्ण हस्तलिखितं भ्रष्टाक्षरमष्टोत्तातोपनिषद्भिन्नमुपनिषडयं समुपलब्धम् । तदवलोक्य 'एतदतिरिक्ता अन्या अप्युपनिषदोऽत्र मुम्बापुरस्थवृह पुस्तकालये. पन्यत्र च स्युः । इत्याशाङ्कुरो मद्धदाकाशेऽङ्कुरितः। परन्तु तल्लाभः प्रयत्नापेक्षः, प्रयत्नरत शक्यवसरद्रव्यापेक्षः, तद्धीनेनापि यथाशक्ति शनैः शनैः प्रयतितं मया । 'प्रसादचिह्नानि पुरःफलानि ' ( र. पं. २।२२ ) इति श्रीमन्महाकविकुलगुरोः कालिदासस्योक्तिस्तत्प्रसङ्गानुसारेण सूपयुक्तव, तथापि प्रयत्नचिह्नानि पुर:फलानि' इत्यपि केनचित्कविवरेण यत्रकुत्रचिदुक्तं स्याचेत्तदपि युक्ततरमेवेत्यहं मन्ये, मत्कृतप्रयत्नामृतधारासिञ्चनेन मदाशांकुरस्य महावृक्षीभूतत्वात् । तासामत्यन्तायासलब्धानामुपनिषदां परिसल्यानं विंशोत्तरशतद्वयात्मकमभूद्यासामयमुपनिषद्वाक्यमहाकोशः समजनि, तत्प्रेक्षासमकालमेव प्रेक्षावतां विद्ववराणामामोदातिभूमिमारोहेदेवासंशयम् । तद्गतं पुरुषसूक्तं ऋग्यजुरादिवेदान्तर्गतमप्युपनिपदेवेति निर्विवाद निश्चितं मत्वा तद्वाक्यैरयं कोशः समलङ्कतोऽस्माभिः “ पुरा मत्पुत्र ! पुरुषसूक्तोपनिषद्रहस्यप्रकारं निरतिशयाकारावलंविना विराट् पुरुषेणोपदिष्टं रहस्य ते विविच्योच्यते " इति नारदपरिव्राजकोपनिषदि ( उप. २) ब्राह्मण नारदायोक्तत्वात् । तथैव "त्रिसुपर्णोनिषदः पठनात् पंक्तिपावनः... त्रिसुपर्णश्रुतियुषा निष्कृती भिदले ना " इति द्वितीयबिल्वोपनिषदि दृष्टत्वात्तद्वाक्थैरप्ययं विभूपित इति ज्ञातव्यं विचक्षणः । अस्मत्सङ्कलितबृहदुपनिषासंग्रहे स श्रीसूक्त एत मालोचयतामालोचनगते भविष्यत एवेति ।
अत्र केचिद्वदन्ति-उपनिषदस्तु दशैव त्रयोदश वा, या अबोधशब्दसुबोधाय श्रीमच्छङ्कराचार्यः प्रायशः शब्दशो व्याख्याताः, यदीतरास्तत्कालीना भवेयुस्तहि ता अपि कथं न तद्याख्याविभूपिता दृग्गोचरतामायान्ति?' इति । तदसत्। श्रीमच्छङ्करानन्द-नारायण रामतीर्थादि-यतिवरैश्चत्वारिंशदधिकानामथर्वशिखाशुपनिषदां कृतानि व्याख्यानानि दृश्यन्ते । तत्र श्रीमद्यतिवर-नारायणस्वामिपादस्तु प्रत्युपनिषद्व्याख्यानस्यादावन्ते च 'नारायणेन रचिता श्रुतिमात्रोपजीविना' इत्यनेन पद्येन स्वीया चारकृतयः श्रुतिपराः समर्थिताश्च दृश्यन्ते । अन ईशावास्यादित्रयोदशोपनिषदामिव तदितरासां श्रुतिमयत्वसिद्धेदर्शनात् ।। ॥ केचिद्वैयाकरणाचार्या नैयायिकादयश्च लिखित. कतिपयोपनिषद्गतमपशब्दितं ह्रस्वदीर्घादिकं च लेखकप्रमादोद्भूतं स्यादिति जानन्तोऽपि नाहीकुर्वन्ति तत्समीक, कथयन्ति च यथादृष्ट श्रुतमेव मुद्रणीयं, न वयं तत्र हस्तप्रक्षेपं कर्तुं शक्नुम इति । तथापि मथा लेखकप्रमादोद्भूतो हस्तदोषोऽयमिति निश्चित्यादिमान्तिमसम्बन्धमनतिक्रम्य तद्गतामशुद्धिप्रचुरतां यथामति दूरीकृत्य तद्वाक्यान्यत्र समावेशितानि । आस्तां तावत् , प्रकृतमनुसरामः। __ अत्रोल्लिखितानामुपनिषदां प्राचीनार्वाचीनत्वं, तद्व्याख्यातणां परिचयः, उपनिषद्गतास्फुटशब्दार्थपरिज्ञानं, भनेकार्थात्मादिशब्दा यत्र यत्रोपयुक्त वेनोपनिषत्सु दृग्गोचरा भवन्ति तेषां स्थलनिर्देशः, उपनिषदुपलब्यिस्थानादि चैतद्विषयाणामत्रोल्लेखनमावश्यकमपि तद्यथावसरं यथामत्यस्योत्तरार्धे विद्वदग्रेसगणामये निधापयिष्यामः, उत्तरार्धस्याप्यविलम्बिततया मुद्रणावश्यकत्वात् । बृहदुपनिषत्संग्रहेण साकमचिरादेव तत्सर्व प्रकाशीभविष्यत्येव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org