________________
अनभिज्ञलिखिाग्रन्धकसुलभैर्दोषविशेषेराक्रान्ता अभूवन् । ताश्चात्रभवता शास्त्रिप्रवीरेण सूक्ष्मेक्षिकया संशोध्य यथोचित्तं संविभज्य, तच्छुद्धपाठानुन्नीय, यावद्भद्धिबलं पूर्वोदितं दोषजालमपनीय, तथा संस्कृता यथा मुद्रणयन्त्राधिरोहणं प्रतीक्षमाणास्तिष्ठन्ति । अयं च तत्रत्यानां सर्वेषामेव वाक्यानामकारादिवर्णक्रमेण विहितः कोशस्तद्गुणपरिमलवाहः पृषदश्व इव तत्रभवतः सहृदयानुपतिष्ठत इति कथं वायं महात्मा शाखिशिरोमणिः स्वपित्रुद्धरणमात्रार्थमधिवसुधं समानीतसकललोकैकपावनसुरसरित्सलिलस्य नानुकरोतितरां भगीरथस्य ?
अथैवं सरस्वतीनिसर्गमात्सर्यशालिन्या लक्ष्म्या कदाचिदकटाक्षितेन, जठरपिठरपूरणाय व्यवसायान्तरं श्रितवता, स्वयशोराशिविशदपलिताकान्तशिरसा, यस्यां जाग्रति भूतानि तस्यामिव या निशा सर्वभूतानां तस्यामपि जाग्रता, शास्त्रिमहाशयेन भूयस: क्लेशाननुभूय निर्माय निर्मायमुपट्टतमिममुपनिषद्वादंगकुसुमकोशं स्वकरकिसलयैः स्वीकृत्याश्वेव सफलीकरिष्यन्त्येतस्य परिश्रमान् कोविदकल्पदुमा इत्याशास्महे ।
ये चात्र केचिद्दोषाः सम्भवेयुस्ते कर्तुरसहायतां च जराशिथिलतां च माधनसामग्रीविकलतां च तथाऽस्य "कर्मणोऽपि विशालतां च विषमतां च मानुषमनीषाया अल्पविषयतां च समालोच्य मर्षणीयाः करुणार्णवैर्लब्ध. वर्णवरेण्यैरिति तान साअलिबन्धमभ्यर्थयामः ।
अन्ततश्च वयसेव विद्यया तयेव नय विनयाभ्यां ताभ्यामिव गुणैश्च गरिष्ठमपि सौजन्यातिशयेन सुहृदायमानमीदृशानेककर्मसु व्यापृतं श्रीमन्तं शम्भुसूनुं गजाननशास्त्रिगमनामयेन द्राधीयसायुषा यशसा श्रिया च समेधयितुं भगवन्तमगजानननलिनभास्करं महेश्वरं सम्प्राय तेन सपोवाविश्विकीर्षितं वृहदुपनिषत्संग्रहं' प्रतीक्षमाणा एतावत्येव तिष्ठासामः ।
'दोपैर्द्विपन्तश्च गुणैर्महान्तस्तुष्यन्तु सन्तः सुखमस्मदीयैः ।
अन्तयेषामपि सन्तमेषां जानीमहे प्रीतमनन्तमेकम् ॥' महाशालिक्षेत्रम्
दीर्घदर्शिनामाश्रवःशके १८६२ वटपूर्णिमा
धूपकरोपाहोऽनन्तयज्ञेश्वरशर्मा । न्यूनातिरिक्तं यत्किञ्चित् । यत्प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु ।
यस्मान्न ऋते किश्चन को क्रियते तन्मे मनः शिवसङ्कल्पमस्तु । अनन्तकोटिब्रह्माण्डनायकस्यानन्तभक्तजनाज्ञानान्धतमसविध्वंसकरस्यानन्तार्तातिहरस्य सच्चिदानन्दमयस्यानन्तासनस्य भगवतः श्रीमदनन्तस्य कालवलेशात्स्वान्तःस्फुरितं तत्प्रसादभूतं श्रुतिमनोनयनाहादकर कमनीयकमलकोशमिवेममुपनिषद्वाक्यमहाकोशं विद्वद्वरकरकमलेपूपहारीकर्तु मम मनोभास्करोऽद्यानन्तानन्दोदयाचलं समुदितस्तत्प्रमोदसन्दोहावहमिति को न मन्येस ?
श्रीमद्विद्वदप्रेसरैः परोपकृतिमद्धयधूपकरेत्युपाख्यैरनन्तशास्त्रिभिः स्वोद्यमभारं दूरतोऽपसार्यास्योपनिषद्वाक्यमहाकोशस्य प्रस्तावलेखनेनोपकृतोऽहं प्रभाकरप्रभया खद्योत इव लेखनासमर्थोऽपि तदनुज्ञया तच्छन्दरेव किञ्चिल्लेखनधाष्टर्य कर्तुमुगुक्तः स्वोद्देश्यादि स्फुटीकर्तुम् , तत्क्षमापयितुमर्हन्ति ते क्षमाशीलाः ।
उपनिषद्वाक्यमहाकोशस्य प्रादुर्भावः परिचयश्च । ना वा दश वर्षाणि व्यतीतानि भवेयुस्तत्प्रागेव 'गुजराती' मुद्रणालयाधिपतिभिर्मामाहयोक्तं 'शाकुरभाष्यायेकादशटीकोपेता श्रीमद्भगवद्गीता मुद्यतेऽस्माभिः । परं च तद्गाष्य-व्याख्यादि-प्रणेतभिस्तत्र तत्र स्वस्वमतसमर्थनपराणि वेदवेदाङ्ग श्रुतिस्मृतिपुराणेतिहासादिभ्यो यानि वाक्यानि समुश्तानि भवेयुस्तेषां मूलस्थलाकृनिवेशनेन तत्तदादर्शभूतप्रत्यन्तरादिभ्योऽशुद्धिनिरसनपूर्वकं विशेषाविशेषनिदर्शनेन च परिच्छेद
सास्वल्पविरामचिह्नध तां विभूष्य सा मुद्रणीयेत्यस्माकं मनस्युत्कटा मनीषा समुद्भूता सां सफलीक महथ' इति । तथे युक्त्या नकर्तुमुगुक्तोऽहं श्रीमद्भगवद्गीतायास्तत्तट्टीकाकारैस्तत्र तत्र वेदादिग्रन्थेभ्यः समुद्भुत.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org