________________
सादयेन तच्छब्दत्वोपपत्तेः, 'मायुबै घृतम्' इत्यादिवत् । तस्मात् विद्यायां मुख्यया वृत्त्योपनिषच्छब्दो वर्तते, प्रन्थे तु भक्त्या इति (कठभा.)। वैत्तिरीयोपनिषदीपिकायां सायणाचार्या अपि “अत्र ह्युपनिषच्छब्दो प्रावियेकगोचरः। तच्छब्दावयवार्थस्य विद्यायामेव सम्भवात् ॥ उपोपसर्गः सामीप्ये तत्पतीचि समाप्यते । सामीप्यात्तारतम्यस्य विश्रान्तः स्वात्मनीक्षणात् ॥ त्रिविधः सविधात्वों विद्यायां सम्भविष्यति । श्रीमत्सुरेश्वराचार्यविस्पष्टमिदमीरितम् ।। उपनीयेममात्मानं प्रयापास्तद्वयं स्वतः । निहन्त्यविद्या तज्जं च तदुपनिषद्भवेत्॥ निहत्यानर्थमूलां स्वाविद्यां प्रत्यक्तया परम् । गमयत्यस्तसम्भेदमतो वोपनिषद्भवेत् । प्रवृत्तिहेतूनिःशेषांस्तन्मूलोबछेदकत्वतः । यतोऽवसादयेद्विधा तस्मादुपनिषन्मता " इति ॥ ' यथोक्तविद्याहेतुत्वानन्थोऽपि तदभेदतः । भवेदुपनिषनामा लागलं जीवनं यथा ॥' इति । ताश्चैता उपनिषदो गीर्वाणसारस्वतसरस्वति महार्घा मणय वापरिमिता एव विद्योतन्ते । परमिदानी बहूनां श्रुतिशाखानामुच्छिन्नत्वात् ; विद्यमानानामप्यङ्गुलीमेयानामाशिरोऽन्तर्षायमानत्वात् , मन्यैश्च तैस्तैः कलिकालमात्रसुलभैर्वेदोच्छेदकरैरुपप्लवैविप्लुतत्वाचादरणीयतरा अपि, अनादिनिधनत्वेन प्रसिद्धा अपि, प्रायो दुष्प्रापदर्शना एवैता वासय्यो भगवतस्तनवः ।
यद्यप्यद्यत्वे कचिदष्टाविंशतिः, कुहस्वित् द्वात्रिंशत् , कचनैकसप्ततिः, अन्यत्राष्टोत्तरं शतम् , इत्याद्यनेकश्रोपनिषदः प्रकाशिता दृश्यन्ते; तथापि ताः प्रायशोऽशुद्धिवाहुल्यासंविभक्तत्वासम्पूर्णत्वादिदुरन्तदोषप्रस्ततया न मनीषिणां मनोरथान् पूरयितुं पारयन्ति ।
न च तावता सर्वासां संग्रहोऽपि भवति, तत्रानुपलभ्यमानानां भूयसां वचसा प्रन्थकृद्भिरुदाहृतत्वेन तदा धिकोपनिषत्सवानुमानात् । दृश्यन्ते च वैदेशिकेन 'फारकर ' नानाऽनेकप्रन्थपर्यालोचनादिना ' रिलिजिअस लिटरेचर ऑफ इंडिया' इत्यत्र प्रकाशितायां सूच्यां त्रयोविंशत्यधिकशतसंख्यान्युपनिषन्नामानि । उपलभ्यन्ते च कचित् कचित् व्यतिरिक्तान्यपि पुस्तकानीत्यावश्यकस्तत्संग्रहे प्रयत्नः ।
किच प्रकाशितानामप्यासामिदानीमध्ययनाभावेन तदसम्भवेन चाभीष्टवाक्यमत्रादीनां स्थानाभानदोस्थ्यं तस्वस्थमेव । तेन अतर्कसाध्याध्यात्मविद्याविषयान् निबन्धान् श्रुत्येकोपष्टम्मानि शारीरादिभाष्याणि, भामतीश्रुतप्रकाशिकादिव्याख्याः, अन्यांश्चैवंविधान प्रबन्धानधीयानाः, द्वैताद्वैतादिदार्शनिकग्रन्थांस्तुलनयाऽभ्यस्यन्तः, विशेषतस्वादशग्रन्थानां संशोधकाश्च तत्रोदाहृतोपनिषद्वाक्यसन्दर्भशुद्धिवञ्चितास्वत्वार्थावधारणे कियत् क्लिनन्तीति तथाविधा एव बुधा बुध्येरन् । ईदृश्युपनिषदां विषमावस्यैव केषांचन दुर्दुरुढानां परमाप्ततया प्रतीते. रप्याचार्यपादादिभिरुवाहृतेषु वाक्येष्वमूलत्वारोपणे, अपरेषां साहसिकशिरोमणीनां स्वकपोलकल्पितवचसामपि श्रुतिस्वेन जल्पने चावसरं वितरतीति सर्वेषामेवास्तिकानामत्यावश्यकं तरीकरणम् । न च तत्र यावदुपलभ्यमानानामशेषाणामप्युपनिषदां संग्रह-संविभाग-संशोधनपूर्वकं प्रकाशनं; तदन्तर्गतनिखिलवाक्यानां वर्णानुक्रमानुसारिसूचीनिर्माणं चान्तराऽपरः कोऽप्युपाय इति सर्वसम्प्रतिपन्नम् । किंतु ' वक्तुं सुकरमेतत्, कर्तु दुष्करम् । इति पश्यन्त अद्ययावत केऽपि लब्धवर्णमणयोऽस्मिन् कर्मणि प्रावर्तिषत, परमिदानी-मन्यामहे परिणाममुपेयुषां पण्डितानां पुण्यपुखेन प्रेरितः-ता एता उपनिषदामोपनिषदानां चापद एकपद एवापाकर्तुं समनमसंख्यावताममेसरः श्रीमान् ' शम्भुसूनुर्गजाननशास्त्री साधले' महाभागः । व्यतानीच नातिचिरादिव भगवतः श्रुतिरक्षादीक्षितस्य क्षीरसागरसुताजानेरनुकम्पामात्रसहायः श्लाघनीयतमं बहदुपनिषत्संग्रहमिममुपनिषद्वाक्यमहाकोशं चेति चिरायाधमर्णमस्य सकलमपि कृति कुलं जानीमः । वयसा स्थविरतरस्याप्यध्यवसायवता मनसा यूनोऽतिशयानस्य, धनेन दुर्गताप्रगण्यस्याप्यनवद्यया विद्यया लक्ष्मणस्य प्रापच्चिकसुखवश्चितस्यापि सदा स्वानन्दनिर्भरस्यास्य शात्रिमहोदयस्यात्र प्रवृत्तिवृत्तान्तस्य परिचयः 'न्यूनातिरिकं यत्किञ्चित् ' इति निवेदनतोऽवगन्तव्यः।
एवमतिमहता यत्नेन सम्भृता अपि ता उपनिषदः काश्चिदतिजरत्तरमातृकतया करग्रहणमाप सोदुमक्षमः काश्चिदसंविभक्तवाक्यतयार्थावबोधनेऽसमर्थाः, काश्विदशुद्धजालजटिलतया पठनेऽप्यपर्याप्ताः, काश्चिञ्च तैस्तैः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org