________________
प्रस्तावः ।
म॒हान्तं॒ कोश॒मद॑चा नि विश्व स्यन्द॑न्तां कुल्या विषि॑ताः पु॒रस्ता॑त् । घृ॒तेन॒ द्यावा॑पृथि॒वी व्यु॑न्धि सुमषा॒णं भ॑वत्व॒घ्न्याभ्य॑ः ॥
*
[ - ऋ. मं. ५१८३८ ]
अस्त्येतत् समेषां सुरभारती परिशीलनबद्धादराणां विपश्चिद्वराणां सुविदियमेव यत् सर्वेऽपि भारतीया याचार्या दार्शनिकादयश्च स्वसिद्धान्तोपष्टम्भकतया तत्र तत्र श्रुतिशिरोवचनान्येव भूम्नोपन्यस्यन्तीति । सर्वेषां हि समयिनामपौरुषेयत्वेनानादिनिघनत्वेन चाभ्युपगता भगवती श्रुतिरेव चरमं परमं च प्रमाणम् । तत्रापि शरीरिणां गात्रेष्विव शिरोभागा एव सर्वतः समुत्कृष्यन्ते श्रुतीनामपि । अक्षय्या नित्रयः खल्वेतेऽनन्यलभ्यस्य भारतीयानां सविज्ञानस्य ज्ञानस्य । नैकोऽपि कोऽपि विद्यते चतुर्विधपुरुषार्थसाधनोपायेषु तथाविधो योऽमीभि. रविसृष्टचर इति निर्देष्टुं शक्यः । एतेषु च रहस्यविद्यानां प्रतिपादनादुपनिषच्छब्देन व्यपदेशः । " उपेत्य नियमयुक्ताय खाद्यते उपदिश्यत इत्युपनिषत् । उप-नि-पूर्वात् ' षट्ट ' विशरणगत्यवसादनेषु (धा.पा. १.८५४) इत्यस्मात् सम्पदादित्वात् कर्मणि किप् । 'सदिरप्रतेः' (पा. सू. ८.३.६६) इति षत्वम् । इति ग्रुपनिषच्छन्दो निरुच्यते तेन रहस्यार्थस्योपनिषत्संज्ञत्वमुपपद्यते । यत एवार्थशास्त्रे कामशास्त्रे च रहस्यप्रयोगेष्वौपनिषदशब्दः प्रयुज्यते । सादर्थ्याच मन्थोऽप्युपनिषदुच्यते । तथा च क्वचित् ' रसोपनिषत् ' ' कुचोपनिषत् ' इत्याद्यास्तत्तद्विषयप्रतिपादकमन्थानां संज्ञा अपि समुपलभ्यन्ते । परं निपाधिक उपनिषच्छन्दः सकलरहस्येभ्योऽपि रहस्यतां ब्रह्मविद्यामेव मुख्यया वृस्याऽभिधत्ते, तत्प्रतिपादिकां च श्रुतिमेत्र भक्त्येति सर्वसम्प्रतिपन्नमिदम् ।
तथा चाहुः श्रीमद्भगवत्पादाचार्या :-' उपशब्दो हि सामीप्यमाह । तच्चासति सङ्कोचके प्रतीचि पर्यवस्यति । निशब्दश्च निश्चयार्थः । तस्मादेकात्म्य निश्चितम् । तद्विद्या सहेतुं संसारं सादयतीत्युपनिषदुच्यते ' (बृ. भा. ) । यं मुमुक्षवो दृष्टानुविकविषयवितृष्णाः सन्त उपनिषच्छब्दवाच्यं वक्ष्यमाणलक्षणां विद्यामुपसद्योपगम्य तन्निष्ठतया निश्चयेन शीलयन्ति तेषामविद्यादेः संसारबीजस्य विशरणात् हिंसनात् विनाशनादित्यनेनार्थयोगेन विद्यो पनिषदित्युच्यते । पूर्वोक्तविशेषणान् मुमुक्षून वा परं ब्रह्म गमयतीति ब्रह्मगमयितृत्वेन योगात् ब्रह्मविद्योपनिषत् । गर्भवासजन्मजराद्युपद्रववृन्दस्य लोकान्तरे पौनःपुन्येन प्रवृत्तस्यावसादयितृत्वेन शैथिल्यापादनेन धात्वर्थयोगादविद्याऽप्युपनिषदित्युच्यते ॥
ननु - उपनिषच्छब्देनाध्येतारो मेन्थमप्यभिलपन्ति - उपनिषदमधीमहे - अध्यापयाम- इति च । एवम्, नैष दोषः; व्यविद्या दिसंसारहेतुविशरणादेः सदिधात्वर्थस्य ग्रन्थमात्रेऽसम्भवात् विद्यायां च सम्भवात् प्रन्थस्यापि
*
* भौमस्यात्रेरार्षम् । स खल्नुषिरनेन मन्त्रेण सकलजगज्जन्मादिविधायकं करुणावरुणालयं भगवन्तं जगतः कल्याणमाशासान: प्रार्थयते - भो जगदीश्वर ! महान्तं कोशं इममुपनिषद्वाक्यमहाकोशम्, उदच उमय, विद्वन्मान्यतापादनादिना समुन्नततमं कुरु । अत्रु गत • (धा. पा. ८६३) लोट् । किञ्च निषिश्च स्वकृपामृतधारया सर्वश्रेयोऽभिवर्षिण्याऽभिषिक्तं कुरु ॥ अनेन कर्मणा च कोशप्रणेतुः पितॄणां पुरस्तात् अभिमुखं कुल्याः पयआदीनां नद्यः विषिताः अनवरुद्धाः स्यन्दन्ताम् अस्य पितॄणामक्षय्या तृप्तिरस्त्वित्यर्थः । तथा चाश्वलायन: - ' यदचोऽधीते पयसः कुत्या अस्य पितॄन् स्वधा उपक्षरन्ति ययजूंषि घृतस्य कुल्या, यत्सामानि मध्वः कुल्या, यदथर्वाङ्गिरसः सोमस्य कुल्या, यद्राह्मणानि कल्पान् गाथान्तराशंसी रितिहासपुराणानीत्यमृतस्य कुरयाः (गू. सु. ३. ३. ३.) इति ॥ घृतेन अमृतरसेन गव्येन च द्यावापृथिवी दिवं च पृथिवीं च व्युन्धि विशेषेण लेवय 'उन्दी क्लेदने ' (धा.पा. ७. २०) लोट् । कोशकर्त्रे स्वर्लोकेऽमृतं भूलोके घृतं तत्सहतं पयोदष्यादि च प्रभूतमुपतिष्ठतुः स इहामुत्र सुखमृच्छत्विति भावः । तथा चात्र मन्त्रान्तरम् - 'घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः । (ऋ.सं.४.५८. १इति, ' तस्मै सरस्वतीदुहे क्षीरं सर्पिर्मधूदकम् । (ऋ. सं. ९. ६७. ३२ ) इति बानुसन्धेयम् ॥ अन्याभ्यो गोम्यः सुप्रपाण सम्यक्पातव्यमुदकं भवतु । काले वर्षतु पर्जन्यः । गोभ्यः शिवं स्वस्ति वास्त्वित्यर्थः ॥
Jain Education International
For Private & Personal Use Only
"
www.jainelibrary.org