SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ४] देसो सद्दसंग हे व्युत्पित्सुप्रवृत्तये अभिधेय प्रयोजने आह । [अभिधेय-प्रयोजनादिकम् ] णीसेस देसि परिमलपल्लवियकुऊहलाउलतेण । विरइज्जइ देसीससंगहो वण्णकमसुहओ ॥२॥ देशीशब्देन देशीशास्त्राण्युच्यन्ते । निःशेषदेशीशास्त्राणां परिमलनेन परिशीलनेन पल्लवितं प्रादुर्भूतम् क्वचित् अर्थासमर्पकत्वेन क्वचित् वर्णानुपूर्वीनिश्चयाभावेन क्वचित् पूर्वदेशीविसंवादेन क्वचित् गतानुगतिकेतया निबद्धशब्दार्थतया यत् कुतूहलं तेन यद् आकुलत्वम्- 'आ !! कथमयमपभ्रष्ट शब्दपङ्कमग्नो जनः समुद्धरणीय. ' - इति परोपचिकीर्षारभसस्तेन हेतुना देशीरूपाणां शब्दानां संग्रहो विरच्यते । 'अस्माभिः' इति शेषः । पादलिप्त-आचार्यादिविरचितैदेशीशास्त्रेषु सत्स्वप्यस्यारम्भे प्रयोजनं विशेषणद्वारेणाह--' वण्ण' इति । वर्णा अकारादयो हकारावसानाः प्राकृतप्रयोगयोग्याः तेषां पदादिभूतानां सुखग्रहणधारणनिमित्तं क्रमः - परिपाटि :- तेन वर्णक्रमेण द्वचक्षर - त्र्यक्षर - चतुरक्षरादिपदक्रमेण च सुखदः सुभगो वा । वर्णक्रमेण हि निर्दिष्टाः शब्दा अर्थविशेषसंशये सति सुखेनैव स्मर्थन्ते अवधार्यन्ते च । वर्णक्रमातिक्रमेण च वर्णक्रमातिक्रमेण च निर्दिश्यमाना न सुखेनावधारयितुं शक्यन्ते इत्यर्थवान् वर्णक्रमनिर्देशः ॥२॥ [ गाथा २ पुनर् - इतरदेशीभ्यो वैलक्षण्यमाह जे लक्खणे ण सिद्धा न पसिद्धा सक्कयाहिहाणेसु । नय गण - लक्खणासत्तिसंभवा ते इह णिबद्धा ||३|| लक्षणे शब्दशास्त्रे सिद्ध हेमचन्द्रनानि येन सिद्धाः प्रकृति - प्रत्ययादिविभागेन न निष्पन्नाः तेऽत्र निबद्धाः । ये तु वज्जर - पज्जर- उप्पाल-पिसुणसंघ - बोल्ल -चव - जंप-सीस साहादयः 'कथि' - आदीनामादेशत्वेन साधिताः [सिद्ध हे ० ८|४|२] ते अन्यैर्देशीषु परिगृहीता अप्यस्माभिर्न निबद्धाः । १. कतानि पा. । २. 'तदेशीशब्दशा' पा. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016081
Book TitleDesi Shabda Sangraha
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherUniversity Granth Nirman Board
Publication Year1974
Total Pages1028
LanguageGujarati
ClassificationDictionary & Dictionary
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy