________________
[ मङ्गलम् ]
देशी दुःसंदर्भा प्रायः संदर्भिताऽपि दुर्बोधा ।
आचार्यहेमचन्द्रस्तत् तां संदभति विभजति च ॥
समग्रशब्दानामनुशासने चिकीर्षिते संस्कृतादिभाषाणां षण्णां शब्दानुशासने सिद्धहेमचन्द्रनाम्नि सिद्धिरुपनिबद्धा ।
इदानीं लोप-आगम-वर्णविकारादिना क्रमेण पूर्वैरसाधितपूर्वा देश्याः शब्दा अवशिष्यन्ते । तत्संग्रहार्थमयमारम्भः ।
तत्रादौ "शिष्टसमयः" [ ] इति अधिकृतदेवता नमस्क्रियते । गम-णय-पमाणगहिरा सहिययहिययहिययंगमरहस्सा । जयइ जिणिंदाण असेसभासपरिणामिणी वाणी ॥१॥ गमास्तात्पर्यभेदिनः सदृशपाठाः ।।
नया वस्त्वेकदेशग्राहिणः स्याद्वादाविरोधिनोऽभिप्रायविशेषा नैगम-संग्रहव्यवहार-ऋजुसूत्र-शब्द-समभिरूढ-एवंभूत-अभिधानाः सप्त ।
प्रमाणानि स्याद्वादगोचराणि प्रत्यक्षादीनि ।
तैर्गभीरा मन्दबुद्धीनामस्ताघा । अथ च सहृदयं सचेतनं हृदयं येषां तेषां हृदयंगमरहस्या । अत एव जयति निःशेषतोर्थिकभाषोत्कर्षेण वर्तते । 'जयति' अर्थेन च नमस्कार आक्षिप्यते । ____ अयमपर उत्कर्षः यद् अशेषभाषारूपत्वेन परिणमते । यदाह"देवा दैवीं नरा नारी शबराश्चापि शाबरीम् ।। तिर्यञ्चोऽपि हि तैरश्ची मेनिरे भगवद्गिरम् ॥" [काव्यानु० अ०१ सू० १]
सौ एवंभूता जिनेन्द्राणामर्हतां वाणी जयति-इति संबन्धः ॥ १॥ १ सा इत्थंभू पा.)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org