________________
२२
श्री जिनेश्वरसूरिचरितवर्णन ।
[ क० परिशिष्ठ
'एवं भगवन् ! विधास्ये' इति प्रतिपन्नम् । पञ्चपरमेष्ठिनः स्मरन्ती सा स्वर्गं गता । जातो देवो महर्द्धिकः । एवं च तावदितश्च श्राद्ध एको युगप्रधाननिश्चयाय श्रीउज्जयन्तगिरी गत्वा, 'साधिष्ठायकं सिद्धिक्षेत्रमेतद्, अतोऽम्बिकादिदेवताविशेषो यदि मम युगप्रवानं प्रतिपादयिष्यति ततोऽहं भोक्ष्ये नान्यथे 'ति सत्त्वमालम्व्यावस्थितः । उपवासान् कर्तुमारब्धः । एतस्मिन्नवसरे महाविदेहे श्रीतीर्थङ्करवन्दनार्थं गतस्य ब्रह्मशान्तेस्तेनार्यि काजीवदेवेन संदेशको दत्तः । यथा त्वया श्रीजिनेश्वरसूरीणाम इदं निवेदनीयम् । तथा हि
'मरुदेवीनाम अजा, गणिणी जा आसि तुम्ह गच्छग्मि । समि गया पढमे, जाओ देवो महिडिओ || १ कलयम्मि विमाणे दुसागराऊ सुरो सम्प्पन्नो । समसस्स जिणेसर रिस्स इमं कहिजासि ॥ २
टकउरे जिणवंदणनिमित्तमेवागरण संदिट्ठे | चरणम्मि उज्जमो मे ! कायव्वो किं च सेसेहिं ॥ ३
तेनापि च ब्रह्मशान्तिना स्वयं गत्वाऽसौ संदेशकः सूरिपादानां पुरो न प्रकाशितः । किं तर्हि युगप्रधान - निश्चयनिमित्तप्रारब्धोपवासश्रावक उत्थापितः । ततस्तस्याञ्चले लिखितान्यक्षराणि यथा - 'म सटसटच' भणितश्च गच्छ पत्तने यस्याचार्यस्य हस्तेन प्रक्षालितानि यास्यन्त्येतान्यक्षराणि स एवेदानतनकाले भारते वर्षे युगप्रधानः । ततस्तेन श्रीनेमिजिनं वन्दित्वा कृतपारणकेन पत्तनमागतेन सर्वासु वसतिषु गत्वा दर्शितान्यक्षराणि, परं न केनापि बुद्धानि । यदा तु श्रीजिनेश्वरसूरिवसतौ गत्वा दर्शितान्यक्षराणि तदा वाचयित्वा गाथात्रयमेतदिति समुत्पन्नप्रतिभैश्चेतसि पर्यालोच्य श्रीजिनेश्वरसूरिभिस्तान्यक्षराणि प्रक्षालितानि । ततस्तेन श्रात्रकेण चिन्तितम् - निश्चितं युगप्रधान एष इति । विशेषतो गुरुत्वेन चाङ्गकृत इति । इत्येवं श्रीमहावीरतीर्थङ्करदर्शितधर्मप्रभावनां कृत्वा श्रीजिनेश्वरसूरयः देवलोकं प्राप्ता इति ॥
Jain Education International
(२१) पश्चाज्जिन चन्द्रसूरिवर आसीद् यस्याष्टादशनाममालाः सूत्रतोऽर्थतश्च मनस्यासन् । सर्वशास्त्रविदा नाष्टादश (?) सहस्रप्रमाणा 'संवेगरंगशाला' मोक्षप्रासादपदवीजभूता भव्यजन्तूनां कृता । येन जाबालिपुरे विहृतेन श्रावकाणामग्रे व्याख्यानं 'चीवंदणमावस्ये' त्या दिगाथायाः कुर्वता ये सिद्धान्तसंवादाः कथितास्ते सर्वे सुशिष्येण लिखिताः । शतत्रयप्रमाणो दिनचर्याग्रन्थः श्राद्धानामुपकारी जातः । सोsपि श्रीवीरधर्मं याथातथ्येन प्रकाश्य दिवं गतः ॥
इति सुमतिगणिकृद्गणधर सार्द्धशतकवृहद्वृत्तिगतं श्रीजिनेश्वरसूरिचरित्रवर्णनं समाप्तम् ।
For Private & Personal Use Only
www.jainelibrary.org