________________
अज्ञातकर्तृक-कतिचित्-खरतरगच्छ पट्टावलिगताः श्रीजिनेश्वरसूरिविषयकाः संक्षिप्तोल्लेखाः।
[१] उद्योतनमरि पट्टधर ] श्रीवर्द्धमानसूरिभिः श्रीविमलदंडनायकः प्रतिबोधितः । तदभ्यर्थनया षण्मासीं यावदाचाम्लानि कृत्वा षण्मासान्ते ध्यानाकृष्टः धरणेन्द्रः समागतः । हस्तं योजयित्वा पृष्टवान् - भगवन् ! किमर्थमाकृष्टः ? भगवता उक्तम् – पातालात् श्रीजिनमूर्ति प्रकटीकुरु, यथान पर्वते प्रासादं कारयामः । ततो धरणेन्द्रेण पातालात् श्रीयुगादिमूर्तिर्वज्रमयी प्रकटीचक्रे । तदा च गुरुणा स्तुता पन्दिता । ततः धरणेन्द्रात् श्रीसूरिमन्त्ररहस्यानि पृष्टानि । तेन सर्वाणि कथितानि । ततः श्रीविमलदंडनायकेन तत्रस्थान मिथ्यादृष्टीन् द्विजानाकार्य मूर्तिर्दर्शिता । उक्तं च-भोः ! पश्यत, अत्र श्रीजिनमूर्तिश्चिरंतना प्रकटीजाता । भवद्भिरुक्तमभूत् यत् श्वेताम्बरतीर्थ नाभूत् । तदलीकं जातम् । अथ प्रासादकरणे निषेधो न कार्यः । ततो विमलदंडनायकेन प्रचुरद्रव्यं दत्वा फकारपंचकेन भूमि पूरयित्वा प्रासादः कारितः। श्रीजिनशासने महती प्रभावना तीर्थोन्नतिश्चक्रे ।
श्रीपत्तनवास्तव्यौ जिनेश्वर-बुद्धिसागरौ ब्राह्मणौ । महाविद्वांसौ । मोक्षार्थ सोमनाथवन्दनाय चलितौ । सोमनाथस्तयोरुपरि संतुष्टः । सन्मुखं समागत्य कथितम् - किमर्थमत्र समागतौ ? ताभ्यामुक्तम् - मोक्षाय । तेनोक्तम् -- मम सेवया मोक्षो न प्राप्यते । तर्हि मोक्षः कस्य पार्श्वे याच्यते ? तेनोक्तम् - श्रीवर्द्धमानसूरीणामादेशं कुर्वाथाम् , यथा मोक्षः प्राप्यते । ताभ्यामुक्तम् - ते कुत्र संति साम्प्रतम् ।। तेनादिष्टौ तत्र पत्तने संति । तौ तत्र समागतौ । गुरुभिः सम्यक्, प्रतिबोधितौ । क्रमेण जिनेश्वरस्य भट्टारकपदं जातम् । बुद्धिसागरस्य आचार्यपदं जातम् । पश्चात्वयं अनशनेन अर्बुदाचले दिवं गताः ।
श्रीजिनेश्वरसूरिभिः लीलावतीकथा अनेकार्था कृता, कथाकोशश्च । तथा मरुदेविगणिन्या अनशनं गृहीतम् । चत्वारिंशदिनानि स्थिता । श्रीजिनेश्वरसूरिणा समाधानमुत्पादितम् । भणितम् - यत्रोत्पत्स्यसे तत्स्थानं कथनीयम् । तया अंगीकृतम् - कथयिष्यामि । तदा ब्रह्मशान्तिः श्रीसीमंधरस्वामिवन्दनाथ महाविदेहे गतः । तस्याने मरुदेविदेवेन श्रीगुरूणां च म स ट स ट च इति संदेशो भणितः । मरुदेविनाम अजा गणिणी जा आसि तुम्ह गच्छमि । सग्गमि गया पढमे, देवो जाओ महडिओ ॥१ रकलयंमि विमाणे दुसागराऊ सुरो समुप्पन्नो । समणेसस्स जिणेसरसूरिस्स इमं कहिज्जासु ॥२ टकउरे जिणवंदणनिमित्तमेवागएण कहेजासु । चरणमि उजमो मे कायव्यो किं विसेसेण ॥३
संवत् १०२४ (!) वर्षे अणहिल्लपत्तने चैत्यवासिनो निर्जिताः । श्रीदुर्लभराजसमक्षं श्रीजिनेश्वर, सूरिभिः पूर्वं यदाशीर्वादो दत्तस्तच्चेत्थम् -
श्रिये कृतनतानंदाः, विशेषवृषसंगताः। भवन्तु तव राजेन्द्र ! ब्रह्म-श्रीधर-शंकरराः ॥१ इति श्रीजिनेश्वरेण श्रीदुर्लभराज्ञः आसीर्वादो दत्तः । विशेषधर्मेण संगताः । द्वितीयपक्षे विः पक्षी राजहंसः, शेषः शेषराजः, वृषः वृषभस्तैस्संगताः । ब्रह्मज्ञानश्रीधारिणस्तीर्थ कराः । ब्रह्मा विष्णुमहेश्वरश्च । आशीर्वादानन्तरं वादः । पश्चात्ते निर्जित्य खरतरबिरुदः प्राप्तः । श्रीधनपालपितृप्रतिबोरकारकः । शोभनदीक्षादायकः । ततो द्वादशवर्षानन्तरं धनपालः प्रतिबोधितः । सम्यक्त्वधारी सुश्रावको जातः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org