________________
क० परिशिष्ट ]
गणधर सार्द्धशतकप्रकरणान्तर्गत
२१
तदाऽऽत्मनः स्थानं चिन्तनीयम् ।' ततस्तेन तथोक्ते भयभीतया भणितं राज्ञ्या- 'भो ! यद् येनानीतं तत्तेन स्वगृहे नेतव्यम् । मम नास्ति प्रयोजनं पूगीफलमात्रेणापि । एवमेषोऽप्युपायो विफलता प्राप्तः ।
१६ ) ततश्चिन्तितस्तैश्चतुर्थ उपायो यथा - यदि राजा देशान्तरागतमुनीन् बहुमंस्यते तदा सर्वाणि देवसदनानि शून्यानि मुक्त्वा देशान्तरेषु वजिष्याम इति प्रघोषश्चक्रे । केनापि राज्ञे निवेदितम् । राज्ञोक्तमतीव शोभनम्, गच्छतु यत्र रोचते । राज्ञा देवगृहपूजका वृत्या बटुका धारिताः । सर्वे देवाः पूजनीया युष्माभिरिति भणित्वा । परं देवगृहमन्तरेण बहिःस्थातुं न शक्यते । ततः कोऽपि केनापि व्याजेनागतः । किंबहुना सर्वेऽप्यागताः स्थिताश्च गृहेषु ।
1
(१७) श्रीवर्द्धमानसूरिरपि सपरिवारः क्षितिपतिसम्मानेनास्खलितप्रचारः सर्वत्र देशे विहरति । कोऽपि किमपि कथयितुं न शक्नोति । ततः श्रीजिनेश्वरपण्डितः शुभलग्मे खपट्टे निवेशितः । द्वितीयोऽपि भ्राता बुद्धिसागर आचार्यः कृतः । तयोर्भगिनी कल्याणमतिनाम्नी महत्तरा कृता ।
पश्चात् जिनेश्वरसूरिभिर्विहारक्रमं कुर्वद्भिः जिनचन्द्र- अभय देव- धनेश्वर- हरिभद्र- प्रसन्नचन्द्र-धर्मदेवसहदेव - सुमतिप्रभृतयो बहवः शिष्याः प्रचक्रिरे । ततो वर्द्धमानसूरयः सिद्धान्तविधिना समाधिना देवलोक श्रियं प्राप्ताः ।
(१८) पश्चात् श्रीजिनेश्वरसूरिभिः श्रीजिनचन्द्राभयदेवौ गुणपात्रमेताविति ज्ञात्वा सूरिपदे निवेशितौ । क्रमेण युगप्रधानौ जातौ । अन्यौ च द्वौ सूरी धनेश्वरो जिनभद्रनामा, द्वितीयश्च हरिभद्राचार्यः । तथा धर्मदेव - सुमति - विमलनामानस्त्रय उपाध्यायाः कृताः । धर्मदेवोपाध्याय - सहदेवगणी द्वावपि भ्रातरौ । धर्मदेवोपाध्यायेन हरिसिंह - सर्वदेवगणी भ्रातरौ सोमचन्द्रपण्डितश्च शिष्या विहिताः । सहदेव गणिना अशोकचन्द्रः शिष्यः कृतः । सचातीय वल्लभ आसीत् । स च श्रीजिन चन्द्रसूरिणा विशेषेण पाठयित्वा आचार्यपदे निवेशितः । तेन च खादे हरिसिंहाचार्यो विहितः । अन्यौ द्वौ सूरी प्रसन्नचन्द्र - देवभद्राख्यौ । देवभद्रः सुमत्युपाध्यायशिष्यः । प्रसन्नचन्द्राचार्य प्रभृतयश्चत्वारोऽभयदेव - सूरिणा पठितास्तर्कादिशास्त्राणि । अत एवोक्तं श्रीचित्रकूटी प्रशस्तौ श्रीजिनवल्लभसूरिभिः, यथा -
सतर्कन्यायच चर्चित चतुरगिरः श्रीप्रसन्नेन्दुसरिः,
सूरिः श्रीवर्द्धमानो यतिपतिहरिभद्रो मुनीड् देवभद्रः । इत्याद्याः सर्वविद्यार्णवकलशभुवः संचरिष्णूरुकीर्ति - स्तम्भायन्तेऽधुनापि श्रुतचरणरमाराजिनो यस्य शिष्याः ॥
(१९) श्रीजिनेश्वरसूरय आशापट्टयां विहृताः । तत्र च व्याख्याने विचक्षणा उपविशन्ति । ततो विदग्धमनः कुमुदचन्द्रिकासहोदरी संविभवैराग्यवर्द्धनी 'लीलावती' अभिधाना कथा विदधे श्रीजिनेश्वरसूरिभिः । तथा डिंडियाणकग्रामप्राप्तैः पूज्यैर्व्याख्यानाय चेत्यवास्याचार्याणां पार्श्वाद् याचितं पुस्तकम् । तैः कलुषितहृदयैर्न दत्तम् ततः पश्चिमप्रहरद्वये विरच्यते प्रभाते व्याख्यायते । इत्थं च तत्रैव 'कथानककोशः ' चतुर्मास्यां कृतः ।
1
९२०) तथा मरुदेवानाम्नी गणिन्यभूत् । तया चानशनं गृहीतम्, चत्वारिंशद्दिनानि स्थिता, श्रीजिनेश्वरसूरिभिः समाधानमुत्पादितं तस्याः । भणिता च यत्रोत्पत्स्यते तत्स्थानं निवेदनीयम् । तयापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org