________________
श्रीजिनेश्वरसूरिचरितवर्णन।
[क. परिशिष्ट ततो महाराजेनोक्तम् – 'सर्वेषां गुरूणां सप्त सप्त गब्दिका रत्नपटीनिर्मिताः, किमित्यस्मद्रूणां नीचैरासने उपवेसनम् ! किमस्माकं गब्दिका न सन्ति ।' ततो जिनेश्वरसूरिणोक्तम् - 'महाराज ! साधूनां गब्दिकोपवेशनं न करपते ।' राजा-'किमिति ?' श्रीजिनेश्वरसूरिः- 'महाराज! शृणु
भवति नियतमत्रासंयमः स्वाद्विभूया नृपतिककुद ! एतल्लोकहासश्च भिक्षोः । . स्फुटतर इह सङ्गः सातशीलत्वमुचैरिति न खलु मुमुक्षोः सङ्गतं गन्दिकादि ॥
इति वृत्तार्थो व्याख्यातः । राज्ञोक्तम् – 'कुत्र यूयं निवसत !' सूरिणोक्तम् – 'महाराज! विरोधिरुद्धवात् कथं स्थानम् ?' राज्ञोक्तम् - 'अहो अमात्य! अस्ति करडिहट्टिकामध्ये बृहत्तरमपुत्रगृहम् , तद्दापयितव्यमेषाम् ।' तत्क्षणादेव लब्धम् । भूयोऽपि पृच्छति महाराजः- 'भोजनं केन विधिना भवताम् ?' अत्रान्तरे पुरोहितः - 'देव किमेषां महात्मनां वयं ब्रूमहे ।
'लभ्यते लभ्यते साधु साधु वै यन्न लभ्यते ।
अलब्धे तपसो वृद्धिलेब्धे देहस्य धारणम् ॥ । अतः कदाचिदोदरपरिपूर्तिः कदाचिदुपवसनमेतेषाम् । राजा सानन्दं सविषादं च- 'यूयं कति साधवः स्थ? ।' पुरोहितः- 'देव ! सर्वेऽप्यमी अष्टादश ।' राजा- 'एकहस्तिपिण्डेन सर्वेऽपि तृप्ता भविष्यन्ति ।' ततो भणितं जिनेश्वरसूरिणा- 'महाराज ! राजपिण्डो न कल्पते मुनीनामिति पूर्वमेव सिद्धान्तपठनपूर्वकं प्रतिपादितं युष्माकं पुरतः। ततोऽहो! निःस्पृहत्वममीषां मुनीनामित्युत्पन्ना प्रीतिः । ततो तेन राज्ञा प्रत्यपादि- 'तर्हि मदीयमानुषेऽग्रतः स्थिते सुलभा भिक्षा भविष्यति । } किं बहुना ? - इत्थं वादं कृत्वा विपक्षान् निर्जित्य, राजामात्यश्रेष्ठिसार्थवाहप्रभृतिपुरप्रधानपुरुषैः सह भट्टघट्टेषु वसतिमार्गप्रकाशनयशःपताकायमानकाव्यबन्धान् दुर्जनजनकर्णशूलान् साटोपं पठत्सु सत्सु, प्रविष्टा वसतौ भगवन्तः श्रीजिनेश्वरसूरयः । एवं गूर्जरत्रादेशे श्रीजिनेश्वरसूरिणा प्रथमं चक्रे चक्रमूर्द्धसु पादमारोप्य वसतिस्थापनेति ।
१५) द्वितीयदिने विपक्षरचिन्ति- जज्ञे तावन्निरर्थकमुपायद्वितयम् । इदानीमन्य एवैतन्निष्काशनोपाय! कश्चिन्मयते । पट्टराज्ञीप्रियोऽयं नृपः, यत् सा भणति तत् करोति, तवारेणैते निष्काश्यते इति खाभिप्रा. यस्तैः स्वकीयाधिकारिश्रावकेभ्यो निवेदितः । ततस्ते आम्रकदलीफलद्राक्षादिफलभाजनानि प्रधानवस्त्राण्याभरणानि च प्राभृतं गृहीत्वा गता राज्ञीसमीपे । तस्या अग्रेऽहत्प्रतिमाया इव पुरो बलि विरचनं चके । राज्ञी तुष्टा तत्प्रयोजनविधानाभिमुखी बभूव । अत्रान्तरे राज्ञः किश्चिद् राज्ञीसविधे प्रयोजनमुपस्थितम् । ततो ढिल्लिकादेशसम्बन्धी पुरुष आदेशकारी राज्ञा तत्र प्रेषितो यदुतेदं प्रयोजनं राश्यै निवेदय । 'देव! इदानी निवेदयामी'त्युक्त्वा शीघ्रं गतः । राजप्रयोजनं निवेदितं राश्यै । प्रभूतानधिकारिणो नानाढौकनिकाचावलोक्य तेन चिन्तितम् - ये मम देशादागता आचार्यास्तेषां निःसारणोपाय एष संभाव्यते । पर मयापि स्वदेशागताचार्याणां पक्षस्य पोषकं राज्ञः पुरो भणनीयम् । गतस्तत्र । 'प्रयोजनं निवेदितं भवताम् । पर देव हरकौतुकं तत्रगतेन दृष्टम् । राजा-'कीदृशं भद्र !' 'देव ! राज्ञी जिनवरबिम्बाकृतिर्जाता। यथा अहंदरे बलिविरचनं क्रियते एवं राश्या अग्रे कैश्चित् कृतम् ।' राज्ञा चिन्तितम् - ये मया न्यायवादिनो गुरुत्वेनाजीचक्रिरे तेषां पृष्ठिमद्यापि पापा न मुञ्चन्ति । ततो राज्ञा भणितः स एव पुरुषः, यथा- 'शीघं रावीपार्थे गत्वा भण, यद देव एवं भाणयति- यत् तवाने दत्तं कैश्चित् तन्मध्यादेकमपि पूगीफलं यदि गहीतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org