________________
गणधर सार्द्धशतकप्रकरणान्तर्गत
तथा - जो देइ उवस्सयं मुणिवराण तवनियमबंभजुत्ताण | ते दिना वत्थन्नपाणसयणासणविगप्पा ||
क० परिशिष्ट ]
इत्यादि- बहुधा सिद्धान्ताक्षरदर्शन संजाततात्त्विकावबोधबुधजनबहुमतायां वसतावेव सत्याभिधेयानगारनामधेयाः साधवोऽवस्थानमाबनते, न त्वत्यन्तापवादेऽपि जिनसद्मनीति स्थितम् । इत्थमुपन्यासप्रबन्धेनोत्तरीकृतशून्य दिक्चक्रतारतरलावलोकनसूराचार्यं विधाय, ऊर्ध्वं कृतभुजदण्डेनोक्तं भगवता कदध्वध्वान्तध्वंसनभास्करेण श्रीजिनेश्वरसूरिणा । यथा -
एवं सिद्धान्तवाक्यैर्बहुविधघटनाहेतुष्टान्तयुक्तरुक्तैरस्माभिरेतैरवितथसुपथोद्भासनोष्णांशुकल्पैः । कुग्राहग्रस्तचेताः परगृहवसतिं द्वेष्टि योऽसौ निकृष्टो दुर्भाषी बद्धवैरः कथमपि न सतां स्यान्मतो नष्टकर्णः ॥
६१३ ) इति तार्किकसभासच्च क्रमानम्य, राजादिलोकप्रत्यायनार्थं भूयोऽप्यभिदधे श्रीजिनेश्वरसूरिणा 'महाराज ! युष्माकं लोके किं पूर्वपुरुषदर्शिता नीति: प्रवर्तते, उताधुनिक पुरुषदर्शिता नूतना ?" राज्ञोक्तम् -'अस्मद्देशे समस्तेऽपि पूर्वजवणराजनीतिः प्रवर्तते नान्या ।' श्रीजिनेश्वरसूरिणोक्तम् - 'महाराज ! अस्माकमपि मते गणधरैश्चतुर्दशपूर्वधरैश्व यो मार्गों दर्शितः स एव प्रमाणीक्रियते, नान्यः । राज्ञोक्तम् - " इत्थमेवैतत् पूर्वपुरुषव्यवस्थापित एव पन्थाः सर्वत्र प्रमाणपदवीमध्यास्ते ।' जिनेश्वरसूरिणोक्तम्'"महाराज ! वयं दूरदेशादागताः, पूर्वपुरुषविरचितखसिद्धान्तपुस्तकानि न कानिचिदानीतानि । तदेतेषां मठेभ्यो महाराज ! यूयमानाययत पूर्वपुरुष विरचितसिद्धान्त पुस्तकगंडलकम्, येन युष्माकं प्रत्यक्षं सन्मार्ग - निश्वयाक्षराणि दर्शयामः । ततो राज्ञोक्तम्- 'अहो ! युक्तमेते वदन्ति भो भोः श्वेताम्बर सूरयः ! खकीयं श्वेताम्बरमेकं प्रेषयत पुस्तकदर्शनार्थं येन मदीयपुरुषा आनयन्ति ।'
१९
I
तत एतेषामेव पक्षस्तेष्वपि भविष्यतीति निश्चिन्वन्तः, श्रीजिनेश्वरसूरिव ग्भल्लिशल्यितान्तर्हृदया इवास्तनिशितवचनशस्त्रास्तूष्णींभूय स्थिताः सर्वेऽप्याचार्याः । राजपुरुषैस्तु गत्वा यत् प्रथमत एव हस्ते चरितं तदेवानीतं शीघ्रं पुस्तकगंडलकम् । आनीतमात्रमेव छोटितम् । तत्र श्रीदेवगुरुप्रसादाद् दशवैकालिकं चतुर्दशपूर्वधरविरचितं निर्गतम् । तत्र च प्रथममेवायं निर्जगाम श्लोको यथा -
-
'अन पगडं लेणं भएज सयणासणं । उच्चारभूमिसंपन्नं इत्थीपसुविवज्जियं ॥' श्रीजिनेश्वरसूरिणोक्तम् -'एवंविधे परगृहे वसन्ति साधवो न देवगृहे ।' श्रीदुर्लभराजचितेऽतीव तल्लमम्, भणितं च - - 'अहो ! यथा वदन्त्येते तथैवैतत् । सर्वैरप्यधिकारिभिर्ज्ञातं यदुत निरुचरीभूताः सर्वथाऽस्मद्भुवः । ततः सर्वेऽधिकारिणो वदन्ति श्रीकरणिकप्रभृतयः प्रत्येकम् - देव ! एते अस्माकं गुरवः, एते अस्माकं गुरवः - इति । येन राजाऽस्मत्कारणेनाऽस्मद्गुरूनपि बहु मन्यते । राजा च न्यायवादी यावन्न किंचिज्जल्पति ।
1
Jain Education International
१४ ) अत्र प्रस्तावे भणितं विचक्षणशिरोमणिना श्रीजिनेश्वरसूरिणा - 'महाराज ! कश्चिगुरुःश्रीकरणाधिकारिणः, कश्चिन्मांडपिकाधिकारिणः, कश्चिन्मन्त्रिणः, कश्चिच्छ्रेष्ठिनः समभूत् । महाराज ! या नष्टिः (धिष्ठि, प्र०) सा कस्य सत्का भवति ?' राज्ञोक्तम्- 'मदीया' । जिनेश्वरसूरिणोक्तम् - 'तर्हि महाराज ! कोऽपि कस्यापि सम्बन्धी जातो वयं न कस्यापि । ततो राज्ञा आत्मसम्बन्धिनो गुरवः कृता ।
For Private & Personal Use Only
www.jainelibrary.org