________________
श्रीजिनेश्वर सूरिचरितवर्णन ||
[ क० परिशिष्ट
भक्तवितीर्णबलिग्रहणवत् । न चायमसिद्धो हेतुः । तत्र संवसतां देवद्रव्योपभोगस्य शयनासनभोजनादिकरणेनानेकजन्मदारुण विपाकस्यावश्यंभावित्वात् । नापि विरुद्धः, हेतोर्मुनियोग्यताया व्याप्यत्वे हि स स्यात्, न चैवमस्ति ।
'देवस्स परीभोगो अनंतजम्मेसु दारुणविवागो । जं देवभोगभूमिसु बुड्ढी न हु वडह चरिते ॥'
इति सिद्धान्तेन देवभूमिभुञ्जानस्य यतेश्चारित्राभावेन विपाकदारुणत्वस्य प्रतिपादितत्वात् । नापि सत्प्रतिपक्षः । आगमोक्तत्वादिप्रतिबलानुमानस्य प्रागेव निरस्तत्वात् । नापि बाधितविषयः । प्रत्यक्षादिभिरनपहतविषयत्वात् । न च प्रत्यक्षेणैव संप्रति जिनगृहे वासदर्शने तद्वासस्य धर्मिणो मुन्ययोग्यतायाः साध्यधर्मस्य हेतुविषयस्य बाधितत्वेन विषयापहारात् कथं न हेतुर्बाधित विषय इति वाच्यम् । तेषां मुन्याभासत्वेन तत्र तद्वासदर्शनेनापि न तद्वासस्य मुन्ययोगताया बाधितत्वमिति हेतोविषयापहाराभावात् न बाधितविषयत्वमिति । ततश्चैत्यं मुनीनामुपभोगयोग्यम्, आधाकर्मादिदोषरहितत्वात् - इति भावत्को हेतुरुक्तन्यायेन मुनीनां चैत्योपभोगयोग्यताया देवद्रव्योपभोगादिदोषैरागमे बाधित - त्वात् कालात्ययापदिष्टः । एवं च सति भगवद्गुणगायन पण्यस्त्रीनर्तन- शङ्खपटह मेरी मृदङ्गाद्यातोद्यवादनकुलविचिकिलमालतीप्रमुखामोदितसकलजिनभवनमालापूजा विच्छित्तिविरचनादिभक्त्यर्हद्भवने देवद्रव्यो
१८
पभोगात् ।
यदीच्छेनरकं गन्तुं सपुत्रपशुबान्धवः । देवेष्वधिकृतिं कुर्याद् गोषु च ब्राह्मणेषु च ॥ तथा - नरकाय मतिस्ते चेत् पौरोहित्यं समाचर । वर्ष यावत् किमन्येन माठपत्यं दिनत्रयम् ॥ इत्यादिप्रकारेण लोकनिन्दितात् माठपत्यात् दीर्घसंसारकार्याशातनातश्च कम्पमानाः साधवो जिनमतनिष्णाताः कथंचिन्न संवसन्ति । किं तु -
"ताहे सामी वासावासे उवागए तं चैव दूइजंतगगामं एह । तत्थेगम्मि उडप वासावासं ठिओ ।' - 'ताहे सामी रायगिहं गओ तत्थ वाहिरियाए तंतुवायग्गहसालाप एगदिसि अहापडिरूव अणुणवत्ता चिट्ठा ।'
तथा -
तथा - 'अन्नया आयरिया मज्झन्हे साहुसु भिक्खं निग्गएसु सन्नाभूमिं गया वइरसामी विं पंडिस्सयवालो त्ति ।'
इत्यादि आवश्यक 5- चूर्ण्यादिग्रन्थेषु बहुशो दर्शनात्; साक्षादेव तीर्थकृद्गुणधरनिषेवितायाम् ;
'संविग्गसणिभद्दग सुत्ते नीयाइ मुत्तहाछंदे । वच्चंतस्स पसु ( ? ) वसहीपमग्गणा होइ ।' इत्यादिना सप्रपञ्चं जिनादिभिरनेकधा प्रतिपादितायाम् ; तथा -
'धन्या अमी महात्मानो निःसंगा मुनिपुंगवाः । अपि क्वापि स्वकं नास्ति येषां तृणकुटीरकम् ॥'
इत्यादिवचनसंदर्भलोकप्रशस्यधन कनकतनयवनिताखजनपरिजनत्यागरूप परिग्रहतामुख्यास्पदभूतायाम् ; तथा - सिञ्जायरु त्ति भन्नइ आलयसामि त्ति ।' तथा - 'सिञ्जायरो पहू वा पहुसंदिट्ठो न होइ कायवो ।' तथा - मुत्तूण गेहं तु सपुत्तदागे वाणिजमाईहि कारणेहिं । सुर्य व......... art दे सिञ्जायसे तत्थ स एव होइ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org