________________
क० परिशिष्ट ]
गणधरसार्द्धशतकप्रकरणान्तर्गत मनुभवन्ति, एवं यां शृण्वन्तो भव्या निरन्तरं संवेगरङ्गशालमध्यपातिनो राग-द्वेष-प्रमादादिवैरिभिर्न क्षणमपि पराभूयन्ते इत्यभिप्रायः ।
१०. तथा, कृतशिवसुखार्थिसेवः विहितमुक्तिसाताभिलाषिपर्युपास्तिः, अभयदेवनामा श्रीयुगप्रवरगणधरः । कीदृशः ? 'अवगयसमयपयखेवो'ति- सूचनमात्रत्वात् सूत्रस्य, अत्र क्षेपशब्देन निक्षेपो गृह्यते । ततोऽवगतो विज्ञातः समयपदानां सिद्धान्तशब्दाना क्षेपो निक्षेपो नामादिविन्यासो येन, स अवगतसमयपदक्षेपः । नानाविधविशुद्धसिद्धान्तामृतरसपानरसिको हि भगवानिति भावः। तथा च सिद्धान्ते
___ नाम ठवणा दविए खित्ते काले भवे य भावे य ।
___ एसो खलु ओहिस्सा निक्खेवो होइ सत्तविहो ॥ इत्यवधिपदस्य सप्तधा निक्षेपः प्रतिपादितः । अथवा, सह मदेन दर्पण वर्तन्त इति समदाः साहङ्काराः। पदानि- 'पदस्थाने विभक्त्यन्ते शब्दे वाक्येऽङ्कवस्तुनोः । त्राणे पादे पादचिहे व्यवसायापदेशयोः' । - इत्यनेकार्थवचनात् , शब्दा वाक्यानि वा तेषां क्षेपः प्रेरणम् , उच्चारणमिति यावत् , पदक्षेपः । समदानां दर्पोद्भुरकन्धराणां वादिनां पदक्षेपः पद-वाक्योच्चारणं समदपदक्षेपः । ततोऽपकृतः तत्त्वाप्रतिपादकत्वलक्षण-प्रतिज्ञाहानि प्रतिज्ञान्तर-प्रतिज्ञाविरोधाद्यभिधान-द्वाविंशतिनिग्रहस्थानप्रोद्भावनेन बाधितो निराकृतो निषिद्ध इति यावत् समदपदक्षेपो येन, स अपकृतसमदपदक्षेपः । निरन्तरं विसृत्वरोद्धरतरगी
र्वाणवाणीकुपणीप्रहारदारितदर्पिष्ठदुरूढदुर्वादिवृन्द इत्यर्थः । “ए ए छच्च समाणा' - इति प्राकृतलक्षणादत्र व्याख्याने 'अवगिये ति प्राप्तावपि इकारखराभावः । अपगतो दूरीभूतः समयपदानां सिद्धान्तवाक्याना क्षेपः, 'क्षेपो गर्वे लङ्घननिन्दयोः, विलम्बे रणहेलासु' - इति वचनात् , निन्दालङ्घनं वा अतिक्रमणं यस्मात् , स अपगतसमयपदक्षेप इति वा । यदि वा, समयः
__ 'समयः शपथे भाषा-संपदोः कालसंविदोः । सिद्धान्ताचारसङ्केतनियमावसरेषु च ॥
क्रियाकारे च निर्देशे' - इति वचनात् , साध्वाचारः १, सिद्धान्तः २, सङ्केतः ३, अवसरः ४, नियमो ५ वा. पदं स्थानं संयमक्षेत्रासंयमक्षेत्ररूपम् । क्षेपश्च समयोचितो विलम्बः । ततः समयश्च पदं च क्षेपश्च समयपदक्षेपाः, अवगता ज्ञाताः समयपदक्षेपा येन, स अवगतसमयपदक्षेप इत्यर्थः । यच्छिष्यो येषां पूज्यानां विनेयः ।
११. तस्यैवानन्यसाधारण विशेषणमाह - 'विहियनवंगवित्तिजलधोयजललेवोत्ति- अत्र जललेपो इत्यत्र डलयोरेकत्वाजड इति ज्ञेयम् । तत्रापि 'द्रव्यानयने भावानयनम्' - इति न्यायाज्जाड्यमिति द्रष्टव्यम् । ततो विहिता रचिता, खयमिति गम्यते, विशेषेण मुक्त्यर्थिनां सिद्धान्तशरणानां शुद्धात्मनामेकान्तेनैव हिता पथ्या, मुक्तिमार्गप्रदर्शनदीपिकाकल्पत्वेन वा विहिता, नवसंख्यानां स्थानाङ्गादीनां अङ्गानां वृत्तिर्विवरणं नवाजवृत्तिः, विहिता चासौ नवाङ्गवृत्तिश्च सैव जलं सलिलं विहितनवाङ्गवृत्तिजलम् , तेन धौतः प्रक्षालितो जाड्यलेपः अज्ञानपङ्कपुटो येन, स विहितनवाङ्गवृत्तिजलधौतजललेपः । एतच्चासाधारणगुणवर्णनं प्रभुश्रीजिनवल्लभसूरिभिरपि श्रीचित्रकूटीयश्रीवीरप्रशस्तावकारि । तद्यथा
श्रीवीरान्वयि वृद्धये गुणभृता नानार्थरनैर्दधे
यः स्थानादिनवाशेवधिगणः कैरप्यनद्धाटितः। तद्वंश्यः खगुरूपदेशविशदप्रक्षः करिष्यन् शुभां तट्टीकामुदजीघटत् तमखिलं श्रीसंघतोषाय यः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org