________________
क. परिशिष्ट ]
गणधरसार्चशतकप्रकरणान्तर्गत अत्र च चतस्रो वृत्तयः कैशिकी-सात्वत्यारभटी-भारतीलक्षणाः । ततोऽत्र सरखतीति शब्दान्तरेण भारती वृत्तिरुपलक्ष्यते । तस्याश्च
र प्रसाध्य मधुरैः श्लोकै कार्यसूचकैः। ऋतुं कश्चिदुपादाय भारतीवृत्तिमाश्रयेत् ॥ १
'भारती संस्कृतप्रायो वाग्व्यापारो नटाश्रयः।' २-इत्यादि । शेषाणां च वृत्तीनाम् -
तयापारात्मिका वृत्तिश्चतुर्धा तत्र कैशिकी । गीत-नृत्य-विलासाद्यैर्मृदुशृङ्गारचेष्टितैः॥३
विशोका सात्वती सत्त्व-शौर्य-त्याग-दयार्जवैः। आरभटी पुनः- मायेन्द्रजालसंग्रामक्रोधोद्धान्तादिचेष्टितैः ॥४
शृङ्गारे कैशिकी वीरे सात्वत्यारभटी पुनः।
रसे रौद्रे सबीभत्से वृत्तिः सर्वत्र भारती ॥ ५ इत्यादिखरूपं नाटकलक्षणादवसेयम् । अकस्तु
प्रत्यक्षनेतृचरितो बिन्दुव्याप्तिपुरस्कृतः।
अङ्को नानाप्रकारार्थसंविधानरसाश्रयः ॥ ६ इत्यादिनाटकलक्षणोक्तखरूपः । ततश्च सरखती च अश्व ताभ्यां उपशोभित इत्यर्थः ।
तथा 'सुहए'त्ति-शोभनाः काम्बोज-बाहीक-पारसीकादयः शुक्तिरन्ध्रदेवमणिरोचमानादिप्रशस्त. समस्तलक्षणोपेता उच्चैःश्रवानुकारिणो हयास्तुरगा यत्र, तस्मिन् सुहये । यदि वा, सुभगे हृदयप्रियेसकलफल-पुष्प-भक्ष्य-वस्त्र-तीक्ष्णनागरखण्डनागवल्लीदलसोपारकपूगफलादिनानाप्रकारमनोहरवस्तुरत्नाकरत्वेन विषयिणां मुग्धबुद्धीनां लोचनसाफल्यकारिदर्शने इत्यर्थः । अन्यथा पुनस्तत्त्ववृत्त्या समस्तसौख्यनिधाननिर्वाणदानदुर्ललितानां परमेष्ठिनामेव वर्ण्यमानं सुभगत्वं श्रेष्ठमिति । नाटकपक्षे च मुग्धानां सुखदे सातावहे" । इति विशेषणसप्तकार्थः ।
अमुमेवार्थ पुनः सविशेषमाह - 'वसहिविहारो जेहिं फुडीकओ गुजरत्ताए ।' वसत्या चैत्यगृहवासनिराकरणेन परगृहस्थित्या सह, विहारः समयभाषया भव्यलोकोपकारादिधिया ग्रामनगरादौ विचरणम् , वसतिविहारः । स वैर्भगवद्भिः स्फुटीकृतः । सिद्धान्तशास्त्रान्तःपरिस्फुरन्नपि लघुकर्मणां प्राणिनां पुरः प्रकटीकृतः । कस्याम् ! गूर्जरत्रायाम् - सप्ततिसहस्रप्रमाणमण्डलमध्ये । किंविशिष्टायाम् ? परिहृतगुरुक्रमागतवरवा यामपि । परिहृता श्रवणमात्रेणाप्यवगणिता, गुरुक्रमागता गुरुपारम्पर्यसमायाता, वरवार्ता विशिष्ट-शुद्धधर्मवार्ता यया सा तथा । तस्यामपि । अपिः संभावने। नास्ति किमप्यत्रासंभाव्यम् , घटत एवैत, दित्यर्थः । परं तादृश्यामपि । प्रतीयमानार्थपक्षे पुनः- गुरुः पिता, 'गुरुर्महत्याङ्गिरसे पित्रादौ धर्मदेशके'इत्यनेकार्थवचनात् । तस्य गुरोः क्रमः गुरुक्रमः । 'क्रमः कल्पांहिशक्तिषु, परिपाट्याम्'- इति वचनात् । कल्प आचारः खकन्यकावराङ्गीकारणलक्षणः । तेन गुरुक्रमेण आगता आयाता गुरुक्रमागता । सा बासौ वरवार्ता च, 'भर्चा भोक्ता पतिर्वरः'- इत्यभिधानचिन्तामणिवचनात् , वरो भत्ती तस्य वार्ता कथा वरवार्ता । परिहता त्यक्ता गुरुक्रमागतवरवार्ता यस्याम् , तन्निवासिलोकेनेति गम्यते । तत्स्थलोकोपचारात् सैव वा व्यपदिश्यते । ततः परिहृता गुरुक्रमागतवरवाची यया सा तथा, तस्यामिति समासः । अत एव'गुजरत्ताए'ति-गुज्जो नट-विटादिः, तत्र रक्ता आसक्ता, तस्यां गुज्जरक्तायाम् । खपतिं परित्यज्य कृतान्यगृहप्रवेशायामित्यर्थः । अत्र पक्षे, अपिर्निन्दायाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org