________________
गणधर सार्द्धशतकप्रकरणान्तर्गत
मन्थायस्तार्णवाम्भःप्रति कुहर वलन्मन्दरध्वानधीरः कोणाघातेषु गर्जत्प्रलयघनघटान्योऽन्यसंघट्टचण्डः । कृष्णाक्रोधाग्रदूतः कुरुकुल निधनोत्पत्तिनिर्घातवातः केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितोऽयम् ॥
'बहुकविदूसगे य'त्ति - कवयः काव्यकर्त्तारः, दूष्याणि देवाङ्गवस्त्राणि 'दूष्यं वाससि तद्गृहे दूषणीये चे 'ति हैमानेकार्थवचनात् । दूष्याण्येव दृष्यकाणि बहूनि प्राज्यानि कवि-दूष्याणि यत्र तस्मिन् । तथा यदि वा सप्तमीलोपात्, बहुकविदूष्यगेये - गेयं गीतम्, इति पत्तनपक्षे । नाटकपक्षे च बहुकविदूषके बहव एव बहुकाः, प्रभूता विदूषका यत्र तथाविधे । विदूषकलक्षणं च रुद्रटालङ्कारेऽभिहितम् । यथा -
० परिशिष्ट ]
भक्तः संवृतमन्त्रो नर्मणि निपुणः शुचिः पटुर्वाग्ग्मी । चित्तज्ञः प्रतिभावांस्तस्य भवेन्नर्मसचिवस्तु ॥ १ त्रिविधः स पीठमर्दः प्रथमोऽथ विटो विदूषकस्तदनु । नायक गुणयुक्तोऽथ च तदनुचरः पीठमर्दोऽत्र ॥ २ विट एकदेशविद्यो विदूषकः क्रीडनीयकप्रायः । निजगुणयुक्तो मूर्खो हासकराकारवेषवचाः ॥ ३ ॥
तथा च नलविलासनाटके विदूषक हास्यकवचांसि । ततश्च बहुकविदूषके नाटके ।
तथा 'सन्नायगाणु गए 'ति - पत्तनपक्षे, शोभननाय कैर्विशिष्टमण्डलगृहमामादिखामिभिरनुगते संबद्धे । नाटकपक्षे च चतुर्धा नायक उक्तः । तथा च नायकलक्षणं शास्त्रेऽभिहितम्, यथा
नेता विनीतो मधुरस्त्यागी दक्षः प्रियंवदः । रक्तलोकः शुचिर्वाग्मी रूढवंशः स्थिरो युवा ॥ १ बुद्धधुत्साहस्मृतिप्रज्ञाकलामानसमन्वितः । शूरो दृढश्च तेजस्वी शास्त्रचक्षुश्च धार्मिकः ॥ २ भेदैश्वतुर्धा ललितशान्तोदात्तोद्धतैरयम् । निश्चिन्तो धीरललितः कलासक्तः सुखी मृदुः ॥ ३ सामान्यगुणयुक्तश्च धीरशान्तो द्विजादिकः । महासत्त्वोऽतिगम्भीरः क्षमावानंविकत्थनः ॥ ४ fort निगूढाहंकारी धीरोदात्तो दृढव्रतः । दर्पमात्सर्य भूयिष्ठो मायाछद्मपरायणः ॥ ५ धीरोद्धतोऽत्यहंकारी चलश्चण्डो विकत्थनः । सदक्षिणः शठो धृष्टः पूर्वा प्रत्यन्यया हृतः ॥ ६ दक्षिणोऽस्यां सहृदयो गूढविप्रियकृत् सदा । व्यक्ताङ्गो वितथोऽदुष्टोऽनुकूलस्त्वे कनायकः ॥ ७
एवंरूपचतुर्विधनायकानुगते नाटके "" ।
३. तथा 'सड्डियदुलहराए' त्ति - सह ऋच्या चतुरङ्गचमूरु विनिचय विरचितचक्रवाल विशालसारतारवज्ञेन्द्रनील-मरकत-कर्केतन-पद्मराग-मुक्ताफल- शशिकान्त-सूर्यकान्तादिरत्नमणिभाण्डागार - शालि - तन्दुलगोधूम-मुद्रादिसद्धान्यकोष्ठागार निर्जितरतिरूपाप्रतिरूपाप्रचुरान्तः पुरसार्द्धषोडश वर्णिक सुवर्णरजतादिमहाविभूस्या वर्तते इति सार्द्धिकः । तादृशो दुर्लभराजा महीपतिर्यत्र तस्मिन् सार्द्धिक दुर्लभराजे, इति
Jain Education International
१ प्र० क्षमावेद्यवि २ प्र० संरक्षिणः ।
३ प्र० दृष्टः । ४ प्र० कृच्छठः ।
For Private & Personal Use Only
www.jainelibrary.org