________________
१४८-१५२]
अमावस्या | 'वस निवासे' (भ्वा.प.अ.), 'अमावस्यदन्यतरस्याम् '३ | १ | १२२ ॥ इति वृद्ध्यभावपक्षे ण्यति प्रत्यये रूपं निपातितम् । ४ दृश्यते याज्ञिकैः दर्शः । 'दृशिर् प्रेक्षणे ' (भ्वा.प.अ.), 'पुंसि संज्ञायां घः प्रायेण '३ । ३ । ११८ ॥ । 'दृश्येते उपलक्ष्येते चन्द्रार्कावत्रेति दर्श: "[[ ] इत्यन्ये । दृश्यते चन्द्रोऽस्मिन्निति वा विपरीतलक्षणया । ५ सूर्येन्द्वोः सङ्गोऽत्रेति सूर्येन्दुसङ्गमः । व्यधिकरणो बहुब्रीहिः ॥ १५०॥ ६ अमाह वसतोऽस्यां चन्द्रार्काविति अमावास्या ।' अमावस्यदन्यतरस्याम्' ३।१।१२२॥इति ण्यति वृद्धिभावपक्षे निपातितम् । ७ अमा सह १० वसतोऽस्यां चन्द्रार्कौ इति अमावासी । औणादिकोऽप्रत्ययः बाहुलकाद् दीर्घता, गौरादित्वाद् ङीष् । " अमावस्या दर्शोऽमाऽमावसी'च''[ ]इति रभसः, " अप्यमावास्यामावासी चामामास्यप्यमाव (म) सौ''['] इति शब्दार्णवे चानेकरूपता । " अमानाम रवे रश्मिश्चन्द्रलोकं प्रतिष्ठितः ।
व्युत्पत्तिरत्नाकरकलिता
तत्र सोमो वसत्यस्याममावास्या ततः स्मृता ॥१॥" []इति स्मृतिः । `सामान्यतोऽमावास्यायाः सप्त ॥ अथ विशेषेणाह
सा नष्टेन्दुः कुहुः कुहूः । १ सा अमावास्या नष्टोऽदृश्य इन्दुरस्यां नष्टेन्दुः, २० उदयेऽमावास्यायोगान्नष्टचन्द्रकलाऽमावास्या कुहुः प्रोच्यते । कुहयते विस्मापयते कुहुः । 'कुह विस्मापने ' ( चु.आ.से.), ‘मृगय्वादिभ्यश्च’(उणा-३७) इति कुः । तथा च " धेनूरुरज्जकुहुसरयुतनुकरेणवः स्त्रियाम् " [] इति विन्ध्यवासी । २ कुहयते विस्मापयते कुहूः, षष्ठस्वरान्तः । 'कुह विस्मपने' (चु.आ.से.), चुरादिः, अतः 'कृकमि (कृषिचमि) तनिधनिसर्जिखर्जिभ्यः कू:'(उणा - ८१ ) इति "बाहुलकात् कुहेरपि " [] इति धातुप्रदीपः । यत्राऽमायां प्रभाते चन्द्रो न दृश्यते, तस्याद्वे ॥ दृष्टेन्दुस्तु सिनीवाली
३० १ अत्रापि सेत्यनुकृष्यम्, साऽमावास्या चतुर्दशीयोगाद् दृष्टचन्द्रा सती सिनीवाली । सह एन विष्णुना वर्तते,
Jain Education International
५५
सा लक्ष्मीस्तद्योगाद् व्रीह्यादित्वादिनिः, सिनी चन्द्रकला, (सा बालापात्रेति गौरादिपाठाद् ङीष् । यद्वा सिनीं ) वलति धारयतीति वा । 'वल धारणे ( ), कर्मण्यणि सिनीवाली, ('स्त्रियाः पुंवद्-'६।३।३४ ॥ इत्यादिना न पुंवत्त्वम्, 'संज्ञापूरण्योश्च ६ | ३ | ३८ ॥ इति निषेधात् ) । "सिनी सिता वाला चन्द्रकलाऽस्त्यस्याम्''[अम.क्षीर. १।३।९ ॥ ] इति स्वामी । दृष्टचन्द्रामावस्या एकम् ॥
भूतेष्टा तु चतुर्दशी ॥१५१॥
१ भूतानामिष्टा प्रिया भूतेष्टा । २ चतुर्दशानां ४० तिथीनां पूरणी चतुर्दशी । 'तस्य पूरणे डट् '५ १२४८ ॥ टित्त्वात् 'टिड्डाणञ्- '४ । १ । १५ ॥ इत्यादिना ङीप् । चतुर्दश्या द्वे ॥ १५१ ॥ पक्षौ मासः
१ तौ शुक्लकृष्णपक्षौ मासः स्यात् । मीयतेऽनेन वर्षमिति मासः, पुंक्ली. । 'माङ् माने' (दि.आ.अ.), 'मासः (मः सः) ' (दशपाद्युणादिः ९ । २७ ॥ इत्युणादिसूत्रेण सप्रत्ययः । 'मासः (मः सः) ' (दशपाद्युणादिः ९ । २७ ॥ ) इति सूत्रे सानुवृत्तौ पुनः सग्रहणं कित्त्वाभावार्थम्, अन्यथा इत्वं स्यात्, अथवा निपातः । माश्चन्द्रस्तस्यायमिति वा । 'तस्येदम् '४ । ३ । १२० ॥ ५० इत्यण् । एतच्चान्द्रेण मानेन, सौरादिमानैस्तु मस्यते परिमीयतेऽनेन, असौ वेति मासः । 'मसी परिमाणे ' (दि.प.से.), 'हुलश्च'३।३।१२१ ॥ इति घञ् । पृषोदरादित्वाद्धलन्तोऽप्ययम् ।
१७
१८
तौ द्वौ वर्षांशकश्रामो वर्षा (ङ्)गमा अहर्गण: "["]इति नामनिधानम्) । द्विपक्षोऽपि । सामान्यत एकं मासस्य । शेषश्चात्र- "मासे वर्षांशको भवेत् । वर्षकोशो दिनमल: " [शेषनाममाला २।२२-२३ ॥] ॥ अथ विशेषेणाह
वत्संरादिर्मार्गशीर्षेः संहः संहाः ।
आग्रहायणिकश्च
१ वत्सरस्य वर्षस्यादिः वत्सरादिः । २ मृगशिरसा नक्षत्रेण युक्ता पौर्णमासी मार्गशीर्षी । मृगशिरः शब्दाद् 'नक्षत्रेण
१. द्र. पदचन्द्रिका भा-१, कालवर्ग:, श्रो- १११, पृ. १४४ ॥ २. 'वासी' इति२ ॥ ३. 'चामामावस्यप्यमावसी' इति३, 'अप्यमावस्यमावासी 'चामामस्यप्यमामसी' इति रामाश्रम्याम्, १४४८ ॥ पृ.५८ ॥ ४. द्र टीकासर्वस्वम्, भा-१, ४४८ ॥, पृ.८० ॥, पदचन्द्रिका, भा-१, कालवर्ग:, श्ले१११, पृ.१४३ ॥ ५. ‘सामान्येनामा - ' इति १.२ ॥ ६. ' - दयश्च' इत्युणादिगणे ॥ ७. ' करणे च' इति१.३, ' करणे चा-' इति४ ॥ ८. द्र. पदचन्द्रिका, भा-१, कालवर्ग:, श्लो- १११, पृ. १४४ ॥ रामाश्रमी १४९ ॥ पृ.५८ ॥ ९. प्र. पदचन्द्रिका, भा-१, कालवर्ग:, - १११, पृ. १४४ ॥ १०. कोष्ठान्तर्गतपाठः १ प्रतौ न दृश्यते ॥ ११. 'तां वलति धारयति' इति१ ॥ १२. क्षीरतरङ्गिण्यादौ वलधातुः धारणेऽर्थे न दृश्यते, परं 'संवरणे सञ्चरणे च' इत्यर्थेऽऽत्मनेपदिनि च दृश्यते ॥ १३. इतोऽग्रे १ प्रतौ 'पृषोदरादित्वान्न पुंवद्भावः' इति दृश्यते ॥ १४. अग्रिमग्रन्थानुरोधादयं युक्तः, प्र. क्षीरतरडिणी, अदादिः, धातुसं५५, पृ.१९०॥ १५. 'मसि' इति३, 'मसा' इति२ ॥ १६. कोष्ठान्तर्गतपाठः १ प्रतौ न दृश्यते ॥ १७. द्र. पदचन्द्रिका, भा-१, का वर्ग:, श्रो- ११५, पृ. १४८ ॥ १८. २.३.४प्रतिषु नास्ति ॥
For Private Personal Use Only
६०
www.jainelibrary.org