________________
१०
२०
१११-११५ ]
"मारुतोऽथ विशाखया "[] इति वाचस्पतिः । २ इन्द्राग्नी देवते अस्याः इन्द्राग्निदेवता ॥ ११२ ॥ ३ राध्नोति कार्यमनया राधा । 'राध साध संसिद्धौ ' (स्वा.प.अ.), 'गुरोश्च हल : ' ३ । ३ । १०३ ॥ इत्यकारः । त्रीणि विशाखायाः ॥
अनुराधा मैत्री
१ अनुराध्नोति अनुराधा । 'राध साध संसिद्धौ' (स्वा.प.अ.), पचाद्यच् । एकदेशविकृतत्वादनूराधेत्यपि । २ मित्रो देवताऽस्याः मैत्री । 'सास्य देवता '४ । २ । २४ ॥ इत्यण्, 'टिड्ढाणञ्- '४।१।१५ ॥ इत्यादिना डीप् । द्वे अनुराधायाः ॥ ज्येष्ठन्द्री
व्युत्पत्तिरत्नाकरकलिता
१ अतिशयेन वृद्धा ज्येष्ठा । 'वृद्धस्य च '५ ।३ ।६२ ॥ इति ज्यादेशः, ततष्टाप् । २ इन्द्रो देवताऽस्या ऐन्द्री । 'सास्य देवता'४।२ ।२४ ।। इत्यण्, 'टिड्ढाणञ् - ४ ११ ११५ ॥ इत्यादिना ङीप् । द्वे ज्येष्ठायाः ॥ मूल आस्त्रपः । १ मूलति मूलः, पुंक्लीबलिङ्ग: । 'मूल प्रतिष्ठायाम् ' (भ्वा.प.से.), पचाद्यच् । २ अस्त्रं शोणितं पिबति अस्रपो राक्षसः, अस्रपो देवताऽस्य आस्त्रपः, दन्त्यसमध्यः । द्वे मूलस्य ॥ पूर्वाषाढाऽऽपी
१ न सहते अषाढा । "नक्षत्रेऽषाढा इत्यव्युत्पन्नम्, मूर्धन्यमध्यवद् हुस्वादि ''[] इति 'स्र (श्र) विष्ठा '४।३।३४ ॥ आदिसूत्रे रक्षितः । " यद्रोहिणीयोगफलं तदेव सुतावषाढासहिते च चन्द्रे' [ ] इति वराहः । २ आपो देवताऽस्या आपी । 'सास्य देवता '४ ।२ ।२४ ॥ इत्यण् 'टिड्ढाणञ्- '४ ।१ । १५ ।। इत्यादिना ङीप् । द्वे पूर्वाषाढायाः ॥
सोत्तरा स्याद्वैश्वी
१ सा अषाढा सोत्तरा स्यात्, उत्तरया सह वर्तमाना सोत्तरा, उत्तराषाढा इत्यर्थः । २ विश्वो देवता अस्या वैश्वी । 'सास्य देवता '४ । २ । २४ ॥ इत्यण्, 'टिड्डाणञ्- '४ ।१ ।१५ ॥ इत्या३० दिना ङीप् । द्वे उत्तराषाढायाः
॥
श्रवणः पुनः ॥११३॥
हेरिदेवः
१ श्रूयतेऽसौ श्रवणः पुंस्त्रीलिङ्गः । 'ल्युट् च' ३ । ३ । ११५ ॥ इति ल्युट् ॥ ११३ ॥ २ हरिर्विष्णुर्देवोऽस्य हरिदेव: । द्वे श्रवणस्य ॥
Jain Education International
३९
श्रविष्ठा तु धनिष्ठा वसुदेवता ।
१ (श्रवणं श्रवः प्रसिद्धिः । 'श्रु श्रवणे' (भ्वा.प.अ.), 'ऋदोरप् '३ १३ १५७ ॥ श्रवोऽस्त्यस्याः मतुप् अतिशयेन श्रववती श्रविष्ठा) । इष्ठन्, 'विन्मतोर्लुक् '५ ।३ ।६५ ॥ इति लुक् । २ एवं 'धन धान्ये ' ( जु.प.से.), पचाद्यजन्ताद् मतुबादिना अति - ४० शयेन धनवती धनिष्ठा । एतौ द्वावपि टवर्गद्वितीयोपधौ । ३ वसवो देवताऽस्या वसुदेवता । त्रीणि धनिष्ठार्याः ॥ वारुणी तु शर्तभिषक्
९ वरुणो देवताऽस्या वारुणी । 'सास्य देवता' ४ । २ । २४।। इत्यण् । २ शतं भिषजोऽस्यां शतभिषक्, स्त्रीलिङ्ग: । शतभिषजौ, शतभिषजः इत्यादि । द्वे शतभिषजः ॥ अजाहिर्बुध्नदेवता ॥११४॥ पूर्वोत्तरा भद्रपदा द्वय्यः प्रोष्ठपदाश्च ताः ।
१ अजोऽजपादः, भीमो भीमसेन इतिवत्, पदैकदेशे पदसमुदायोपचाराद्वा । तथा च अजोऽहिर्बुध्नश्च देवते आसामिति ५० अजाहिर्बुध्नदेवताः, अजाहिर्बुध्नाभ्यामग्रे देवतेति योज्यते ॥११४॥ पूर्वाश्च उत्तराश्च पूर्वोत्तराः, पूर्वोत्तरविशिष्टाः कोऽर्थः ?, पूर्वोत्तराभ्यामग्रे भद्रपदा इति योज्यते, ततोऽयमर्थः - अजदेवताः, पूर्वभद्रपदाः च एकार्थी, अहिर्बुध्नदेवताः, उत्तरभद्रपदाः च एकार्थौ । वैयाकरणाः पूर्वे भद्रपदे उत्तरे भद्रपदे इति द्वित्वमेव प्राहुः । तथा च "पूर्वभद्रपदे उत्तरभद्रपदे च द्वे "[ ] इति 'फल्गुनी प्रोष्ठपदानां च १ ।२ ६० ॥ इति सूत्रे उक्तम् । “भद्रपदा' इति शब्दो ह्रस्वादिः "[ ] इति वर्णविवेकः । " ग्रहपतिरिव भद्रपदानुगत इति शेषः, ततो दीर्घादिपाठः प्रामादिक: "[ ]इति कौमुदी । " भाद्रपदासु भयं सलिलोत्थम् " [ ] इति ज्योतिर्ग्रन्थे ६० कुलेखकदोषात् । ताः पूर्वभद्रपदा उत्तरभद्रपदाश्च द्वय्यः द्वौ अवयवौ आसामिति द्वय्यः प्रोष्ठपदा उच्यन्ते । प्रवृद्धः ओष्ठो यस्य स प्रोष्ठः, तस्येव पादावासां प्रोष्ठपदाः । प्रोष्ठौ सारौ वा पादावासामिति प्रोष्ठपदाः । 'सुप्रातसुश्वसुदिवसा (शा) रिकुक्षचतुरश्रे () णीपदाजपदप्रोष्ठपदाः ५ १४ ।१२० ॥ इति सूत्रेण प्रोष्ठपदाः भद्रपदाश्च निपातिताः । पूर्वे प्रोष्ठपदे द्वे, उत्तरभद्रपदे द्वे समुदायश्चासां चतुः संख्य इति बहुवचनम् । केचित्तु " भद्रपदेन युक्तः काल इति प्रयोगात् पुंल्लिङ्गो भद्रपदः "[ ] इत्याहुः । यत्तु कदा पूर्वे प्रोष्ठपदेकदा पूर्वे भद्रपदे इति तत्तारकयोर्द्वित्वादुपपद्यते, 'फल्गुनीप्रोष्ठपदानां च १ । २ । ६० ॥ इति सूत्रेण द्वित्वस्य वा ७०
१. द्र. पदचन्द्रिका, भा-१, दिग्वर्गः, श्रो- ८९, पृ. ११८ ॥ २. मूले तथा स्वोपज्ञवृत्तावपि तालव्यशमध्यस्य आश्रयशब्दस्याश्रियैव व्युत्पत्तिः कृता ॥ ३.
' मध्यं ह्रस्वादि' इतिर, 'मध्यहुस्वादि' इति ॥ ४. द्र. पदचन्द्रिका, भा-१, कालवर्ग:, श्रो- १२०, पृ.१५२ ॥ ५. कोष्ठान्तर्गतठस्थाने २. ३. ४प्रतिषु " श्रूयते शुभकर्मण्यतिशयेनेति श्रविष्ठा, 'श्रु श्रवणे' । ऋदोरप्" इति दृश्यते ॥ ६. 'श्रविष्ठायाः' इति४ ॥
For Private Personal Use Only
www.jainelibrary.org