________________
४०
अभिधानचिन्तामणिनाममाला
बहुत्वविधानात् । " भद्रपदौ भद्रपदः भद्रपदा च "[ ] इति स्वामी । " भद्रपदशब्देन तारकाविशेषाणां समुदाय उच्यते । तिरोहितावयवभेदपक्षे एकवचनम्, प्रोष्ठपदाशब्दस्तद्रिक्तावयवभेदभेदसमुदायमाचष्टे, एतत्पक्षे बहुवचनम् "[ ] इति मैत्रेयंः ॥ रेवती तु पौष्णम्
१ रेवते गच्छति रेवती । 'रेवृ गतौ ' (भ्वा.आ.से.), बाहुलकाद् ‘भृहशीङ्यजि- ' ( उणा - ३९०) इत्यादिनाऽतच् । २ पूषा देवताऽस्येति पौष्णम् । पूषन्शब्दात् 'सास्य देवता '४।२।२४ ॥ इत्यण्, 'अल्लोपोऽन:'६।४।१३४ ॥ इत्युपधालोपः । अयं ज्योतिषि १० क्लीबे रूढः । द्वे रेवत्याः ॥
दाक्षायण्यः सर्वाः शशिप्रियाः ॥ ११५ ॥ दक्षस्यापत्यं दाक्षिः । 'अत इञ् ४।१।९५ ॥ । 'आसुरेरुपसंख्यानम्'(वा-४ ।१ ।१९ ॥ ) इत्यत्र केचिद् - " आसुरिदाक्ष्योः " [ ]इति, " दाक्षायणी "[ ] इति पारायणम्, उपाध्यायसर्वस्वेऽपि तदेवोद्धृतम्, कलिङ्गादयस्तु तददर्शनात् 'नडादिभ्यः फक् ४।१।९९ ॥ [ ]इत्याकुलितवन्तः, गोत्रत्वाभावान्नडादावनाकृतिगणेऽस्याऽपाठात् । सर्वानन्दस्तु - " दक्षस्य प्रजापतेरपत्यानि दाक्षायण्यः, गोत्रत्वमुपचर्य 'गोत्रे कुञ्जादिभ्यश्चफञ् ४ ११ १९८ ॥ इर्ति ‘जातेरस्त्रीविषयादयोपधात् ४ १ १ १६३ ॥ डीष् "[ टीकासर्वस्वम् २० १ । ३ ।२० ॥ ] इत्याह । " दक्षस्यापत्यं दाक्षायणी, 'अत इञ्' ४।१।९५ ॥ अनन्तरापत्येऽपि द्वैपायनवद् 'यञिञोश्च ४११ ॥ १०१ ॥ इति फक्" [ अम. क्षीर. १ । २ । २२ ॥ ] इति स्वामी । " स्त्रियामासुरिदाक्षिभ्यां श्च्फञ् इत्युपसंख्यायते दाक्षायणी श्रीरिव निर्बभासे नन्दी "[ ] इति स्वामी । "दक्षमयते गच्छति । 'अय गतौ' (भ्वा.आ.से.), नन्द्यादित्वाद् ल्युः, प्रज्ञाद्यणि दाक्षायणी "[ ] इत्यन्यः । तथा च "दक्षोऽय्यते गम्यते पितृतया आभिरिति ल्युटि, प्रज्ञाद्यणि, ड्याम्, 'पूर्वपदस्था - ७।३।४४ ॥ इति णत्वं च "[ ] इति केचित् । सर्वा अश्विन्यादयः सप्तविंशतिरपि दाक्षायण्यः शशिप्रियाश्चन्द्रदाराश्चोच्यन्त इत्यर्थः । " दाक्षायण्यः कीर्तिता३० श्चन्द्रदाराः''[हलायुधः १ ५१ ॥ ] इति. हलायुधः । द्वे सामान्येन सप्तविंशतिनक्षत्राणाम् ॥११५॥
Jain Education International
[ देवकाण्डः-२ साध्ये लग्नम्, पुंक्लीबलिङ्ग: । 'लगे सङ्गे' (भ्वा.प.से.), बाहुलकाद् नः । लज्जत इति वा । 'ओलस्जी व्रीडनें ' (तु.आ.से.), 'निष्ठा'३ ।२ । १०२ ॥ इति क्तः, 'श्वीदितो निष्ठायाम् ७।२।१४ ॥ इतीण्निषेधः, 'ओदितश्च ८ २ १४५ ॥ इति निष्ठानत्वम्, नत्वस्यासिद्धत्वात् 'चोः कुः ८ | २ | ३० ॥ इति कुत्वम् । राशीनां मेषादीनां ४० द्वादशानामुदयः प्राप्तकालता, तस्यैकं लग्नमिति नामं ॥
राशीनामुदयो नम्
बुधः सौम्यः प्रहषुः ।
१ (अनुवते अहोरात्रमिति राशयः, पुंसि, तेषाम् । ज्ञः पञ्चार्चिः श्रर्विष्ठाभूः श्यामाङ्गो रोहिणीसुतः ।११७। 'अशूई व्याप्तौ', 'अणिपणाय्यो रुडायलुकौ च ' ( उणा-५७२) १ बुध्यते बुधः । 'बुध अवगमने ' (दि.आ.अ.), इत्युणादिसूत्रेण इण्प्रत्ययः, अशेरुडागमः, वृद्धिः) । लगति निजे 'इगुपधज्ञाप्रीकिरः कः ' ३ | १ | १३६ ॥ २ सोमश्चन्द्रः पितृत्वाद्
प्रभूतु । ते इति राशयः मेषः प्रभृतिराद्यो येषां ते मेषप्रभृतयः । यथा 'मेषो वृषो मिथुनः कर्कटः सिंहः कन्या तुला वृश्चिको धनुर्मकरः कुम्भो मीन' इति । एकं सामान्येन मेषादीनां राशय इति ॥ ओरो वंक्रो लोहिताङ्गो मङ्गलोऽङ्गारकः कुंजः ॥११६॥ आषाढाभूर्नवार्चिश्च
१ आ समन्तादियर्ति क्रूरत्वं नक्षत्रेष्विति आरः । आङ्पूर्वः 'ऋ गतौ' (जु.प.अ.), पचाद्यच्, 'सार्वधातुकार्धधातुकयोः ७ | ३ |८४ ॥ इति गुणः । २ वञ्चति कुटिलं गच्छति वक्रः । ५० 'वञ्च गतौ ' (भ्वा.प.से.), 'स्फायितञ्चिवञ्चि- ' (उणा - १७०) इत्यादिना रक्, 'अनिदिताम् - ६ ४ । २४ ॥ इति न्लोपः । ३ लोहितवर्णानि अङ्गान्यस्य लोहिताङ्गः । ४ मङ्गति गच्छति मङ्गलः । 'मगि गतौ ' (भ्वा.प.से.), 'मङ्गेरलच्' (उणा- ७४८) । ५ अङ्गति कुटिलं क्रामति अङ्गारः । 'अगि गतौ ' (भ्वा.प.से.), 'अगिमदिमन्दिभ्यः आरन्'(उणा-४१४), ततः स्वार्थे कनि अङ्गारकः । 'अङ्गानियर्ति पीनत्वादिति तु, 'ऋ गतौ ' ( जु.प.अ.), 'ण्वुल्तृचौ '३ |१ | १३३ ॥ इति ण्वुल् " []इति र्तुं स्वामी । ६ को पृथिव्या: जात: कुजः । 'जनी प्रादुर्भावे (दि.आ.से.), 'पञ्चम्यामजातौ ' ३ । २९८ ॥ इति डः । यौगिकत्वाद् भौमः अत्र ६० 'शिवादिभ्योऽण् '४।१।११२॥ माहेयः, धरणीसुत इत्यादयः ॥ ११६॥ ७ आषाढा उत्तराषाढा, तासु भवति आषाढाभूः । 'भू सत्तायाम्' (भ्वा.प.से.), क्विप् । ८ नंव अर्चिषोऽस्य नवार्चिः । नवार्चिषौ, नवार्चिषः इत्यादि । अष्टौ मङ्गलस्य । शेषश्चात्र" भौमे व्योमोल्मुकैकाङ्गौ ॥ [ शेषनाममाला २ | १४ ॥ ] ॥
१. 'भेदसमुदायव्याचाष्टे' इति३, 'भेदात् समुदायमाचष्टे' इति ॥ २. अत्र पदचन्द्रिका द्रष्टव्या, भा-१, दिग्वर्गः, -९०, पृ.११९ ॥ ३. 'भृमृदृशियजि-' इत्युणादिगणे ॥ ४. टीकासर्वस्वे " गोत्रे कुञ्जदिभ्यश्च्फञ् ४ ११ १९८ ॥ इति" इत्यस्य स्थाने "नडादित्वात् फक्" इति पाठो दृश्यते ॥ ५. कोष्ठान्तर्गतपाठस्थाने २.३.४ प्रतिषु “रान्ति ददति फलानीति राशयः, तासामू रा ला दाने" इति दृश्यते ॥ ६. क्षीरतरङ्गिण्यादौ ङकारो न दृश्यते ॥ ७. 'व्रीडायाम्' इति३, 'व्रीडे' इति स्वामिसायणौ ॥ ८. नास्ति ३.४प्रत्यौः ॥ ९. " अङ्गानियर्ति पीनत्वादङ्गारकः, आरस्तु भीमवत्" इत्येव अम. स्वामिकृतटीकायाम्, पृ. २८ ॥ १०. ३.४नास्ति ॥
For Private
Personal Use Only
www.jainelibrary.org