________________
३०
१५२६-१५३० ]
(३.४.५ प्रतिपाठः) १-५ पञ्च 'सरिखं' इत्यादिभाषानामानि ॥१५२७ ॥
भवान् । ( १.२प्रतिपाठः ) १ " अन्यो धनं प्रेत्य गतस्य भुङ्क्ते''[ ] । २ अमुत्र भविता यत् ते तच्चिन्तय शुभाशुभम् "[ ] ॥
( ३.४.५ प्रतिपाठः ) १ " अन्यो धनं प्रेत्य गतस्य भुङ्क्ते"[]। २ ( अमुष्मिन् अमुत्र) । यथा'अमुत्र भविता यत् ते तत् चिन्तय शुभाशुभम् "[] १० इति । भवान्तरनाम्नी द्वे ॥
44
तूष्णीं तूष्णीकां जोषं च मौने
( १.२ प्रतिपाठः ) १ " मुनिस्तूष्णीमास्ते "[ ] । मौनमात्रे इदम् । 'अकप्रकरणे (अकच्प्रकरणे ) तूष्णीम: कां वक्तव्य:' (वा - ५ १३ ॥ ७१ ॥ ) इति । अज्ञातार्थादिविशिष्टे मौने । २-३ " तूष्णिकां जोषमास्ते "[ ] एते मौनार्थाः ॥
( ३.४.५ प्रतिपाठः ) १ तूष्णीमित्यादित्रयोऽपि मकारान्ताः । यथा- "तूष्णीमास्ते मुनिः "[] । २ 'तूष्णीकाम्' इति तु कुत्सितादिविशिष्टि मौने वर्तते । यथा- "मुनिस्तूष्णीकामास्ते "[]। ३ जोषम् इति सुख२० मौनयोः । यथा- “जोषमास्ते जितेन्द्रियः " [स.कं. पृ.५९] । "ज्योषम् "[ ] चवर्गतृतीयान्तस्थाद्यत्रयोदशस्वरादिरपीति
शाकटायनः । त्रीणि मौनस्य ॥
व्युत्पत्तिरत्नाकरकलिता
दिष्ट्या तु सम्मदे ॥१५२८ ॥
( १.२प्रतिपाठः ) १ " दिष्ट्या पुत्रो जात: "[ ] | समुपजोषं च । आनन्देऽव्ययः ॥
( ३.४.५ प्रतिपाठः ) १ यथा- "दिष्ट्या पुत्रो जात: "[] । समुपजोषमपि । उपजोषमित्यन्ये । एकं हर्षस्य ।। १५२८ ।।
परितः सर्वतो विष्वक् समन्ताच्च समन्ततः ।
( १.२ प्रतिपाठः ) १ " परितः प्रपतन्ति दुष्कृतां विपदः ''[ ] । २ " सर्वतः सम्पदः सताम् "[ ] । ३ विष्वगञ्चति 'विष्वग्' इति शब्दप्रतिरूपकम् । यथा
१. ' - खां' इति४ ॥ 'कामास्ते' इति३ ॥
Jain Education International
७०१
" विष्वग् व्याप्य स्थितो महीम् [] । ४ 'समन्ताद्' इति पञ्चम्यन्तप्रतिरूपकम् । "समन्ताद् वाति मारुतः " [] । ५ समन्ताद् भव: सामन्तः ( समन्ततः ) । "समन्ततो धावन्ति []। एते सर्वतो दिग्भागेऽव्ययाः ॥
( ३.४.५ प्रतिपाठः ) १ परितः सर्वतः एतौ द्वौ व्यञ्जनदन्त्यान्तौ । यथा- "परितो ग्रामम् "[], "सर्वतो ग्रामम् "[] । ३ 'विष्वग्' इति व्यञ्जनचवर्गाद्यन्तः । यथा- 'विष्वग् व्याप्य स्थितो महीम् "[ ] इति । ४ ४० 'समन्ताद्' इति पञ्चम्यन्तप्रतिरूपकमव्ययम् । यथासमन्ताद् वाति मारुतः " []। ५ 'समन्ततः' इति व्यञ्जनदन्त्यान्तः । यथा - " येन चक्रे समन्ततः "[ ] इति ॥ पुरः पुरस्तात् पुरैतोऽग्रतः
( १.२ प्रतिपाठः ) १ " एते पुरस्सरा: "[]। २ "पुरस्ताद् गच्छतिं "[]। ३ " नासीरमूर्ध्नि धवलाः पुरतः प्रयान्ति "[] ४ " अग्रतो धावति श्रीः "[]। एतेऽग्रार्थाः ॥ ( ३.४.५ प्रतिपाठः ) १ पूर्वस्यां पूर्वस्याः पूर्वा वा दिक् पुरः, व्यञ्जनदन्त्यान्तः I २-३ पुरस्तात्, पुरतः इति व्यञ्जनदन्त्यान्तः | ४ अग्रतः व्यञ्जनदन्त्यान्तः । एते परस्परं पर्यायाः ॥ यथा- पुरस्सरः, पुरस्ताद् गच्छति, पुरतो गच्छति अग्रतः सरः इत्यादि । 'आगलि' नामानि चत्वारि ॥
प्रायस्तु भूमनि ॥१५२९॥
( १.२प्रतिपाठः ) १ " सन्तः प्रायो विवेक्तारः " []। भूमनि बाहुल्यार्थेऽव्ययम् ॥
( ३.४.५ प्रतिपाठः ) १ 'प्रायः' इति व्यञ्जनदन्त्यान्तः । यथा- “प्रायः प्रत्ययमाधत्ते स्वगुणेषूत्तमादरः " [कुमारसम्भवम्, सर्गः ६ श्रो- २०] इति । बहुलपणानामैकम् ॥१५२९॥
साम्प्रतमधुनेदानीं सम्प्रत्येतर्हि
( १.२ प्रतिपाठः ) १ सम्प्रत्येव साम्प्रतम् । स्वार्थेऽण्, एतद्विभक्तिप्रतिरूपकम् । यथा- "साम्प्रतं नहि "[ ] । २-४-५ अधुना इदानीम् एतर्हि । 'इदमो हिल्५ । ३ । १६ ॥, 'एतेतौ रथो: '५ । ३ ४ ॥ इत्येतादेशः । " अधुना तस्य
२. तुलनीयोऽमरकोषः ३ १४ १४८ ॥ ३. ' -न्यं' इति५ ॥ ४. कोष्ठान्तर्गतपाठः ५प्रतौ नास्ति ॥ ५. 'रि-' इति३ ॥ ६. ७. 'दिरिति' इति५ ।। ८ 'न्ति' इति ॥ ९ १प्रतौ नास्ति ॥
For Private Personal Use Only
५०
६०
www.jainelibrary.org