________________
॥ अव्ययानि ॥
अथाऽव्ययानि वक्ष्यन्ते
(१.२ प्रतिपाठः) १ अथ ततोऽनन्तरम्, न वियन्ति लिङ्गकारकनानारूपतां प्रतिपद्यन्त इति पचादित्वादर्चि । अव्ययानि स्वरादीनि । यदुक्तं महाभाष्ये"सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥१॥" [काशिका१।१।३७॥] । अत एवाऽलिङ्गानि द्वित्वादिसङ्ख्यारहितानि च । यदुक्तम्- "ष्णान्तसङ्ख्याकत्य
व्यययुष्मदस्मदोऽलिङ्गाः ।" पुनपुंसकोऽयमव्ययशब्दः । एषु १० च केचिद् द्योतकाः, (अपरे वाचकाः) । यदाह
"चादयो द्योतका ज्ञेया वाचकास्तु स्वरादयः । व्यर्थाः स्तुत्याश्च निन्दाद्या मास्माद्याः सम्भूय वाचकाः ॥२॥"
(३.४.५ प्रतिपाठः) १ अथेति साधारणशब्दकथनान्तरम् , न वियन्ति लिङ्गकारकनानात्वेऽपि नानारूपतां न प्रतिपद्यन्त इति अव्ययानि । नविपूर्वः 'इण् गतौ'(अ. प.अ.), पचाद्यच् । अव्ययानि स्वरादीनि । यदुक्तम्__ "सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥१॥" [काशिका१।१।३७॥] इति ॥ २०
स्व: स्वर्गे (१.२प्रतिपाठः) १ 'स्वर' इत्यव्ययं स्वर्गार्थे । यथा- "एहि जाये स्वरारोहाव :"[वाजसनेयी संहिता ] । एवमग्रे योजना कार्या । उदाहरणानि वक्ष्यन्ते ॥
(३.४.५ प्रतिपाठः) १ "अवश्यमेव संज्ञा- शब्दानां सदसदर्थेन यथाकथञ्चिद् व्युत्पत्तिः कार्या, तैलपायिकावत्''[]इति भाष्यम्, एवमन्यत्राऽप्यन्नेयम् । 'स्व शब्दोपतापयो: '(भ्वा.प.अ.), स्वरति शब्दायते । 'अन्येऽपि दृश्यन्ते '३।२७५ ॥ इति विच्, गुणो रपरत्वं च, स्वरा- दित्वादव्ययत्वम्, 'अव्ययादाप्सुपः'२।४।८२ ॥ इति सुप्लुक्।
स्व:शब्दस्य रेफान्तत्वादुत्वं न भवति, 'अतो रोरप्लु- ३० तात्- '६।१।११३ ॥ इत्यत्र रुसम्बन्धिनो रेफस्योत्वविधानात् । अव्ययाधिकारादव्ययमिदम् । अव्ययं चाऽव्यक्तलिङ्गम् । तदुक्तम्- "सदृशं त्रिषु लिङ्गेषु''[काशिका१।१।३७॥] इत्यादि । कथं तर्हि 'रम्यं स्वः '[] इति तद्विशेषणस्य क्लीबत्वम्, तथा च सनातनं(-न:)- "स्वरपि मे मनोहरं त्रसत्पृषल्लोचनया हितं तया"[ ] इति, उच्यते, अत्र 'लोकाश्रयत्वाल्लिङ्ग स्य'[]इति । तथा च वामनः"द्विगुरपि पात्राद्यन्तः, क्रियाव्ययविशेषणं चैकः''[ ] इति । स्वरिति व्यञ्जनरेफान्तः । यथा- "छायेव या स्वर्जलधेर्जलेषु'"[ ] | स्वरिति शब्दोऽपि हलन्तः, क्लीबलिङ्गः । ४० स्वः, स्वरी, स्वांरि इत्यादिरूपाणि । यथोक्तं काव्यादर्श"माधवधवविश्रूषाच्छस्त्रविशेषान्मृतामृतामृवाहं मदनाजौ प्रगता स्वरि भवतो ध्यानं न हास्यामि"[ ]इति । तथा च निघण्टुः-"स्वः क्लीबे स्वर्ग आहूतौ भाषणे च प्ररोहणे''[] इति । तथा च"अव्ययं स्वर्गनाकौ च त्रिदिवत्रिदशालयौ ।
सुरलोकस्वरी चाऽपि द्योद्यौरव्ययमित्यपि ॥१॥"[ ]इति शब्दरूपदर्शनात् स्वरिति शब्दोऽपि सिद्धः ॥
भूः रसातले ॥१५२५॥ (१.२प्रतिपाठः) १ यथा- "भूर्लोकः"[ ] ॥ ५०
(३.४.५प्रतिपाठः) १ भूः व्यञ्जनदन्त्यान्तः । यथा- "भूर्लोकः''[ ] । एकं रसातलस्य ॥१५२५॥ वो विद्वायसा व्योम्नि
(१.२प्रतिपाठः) १ व्योम्नि आकाशे । यथा"भूर्भुवःस्वस्त्रयी"[] । २ "विहायसा रम्यमितो विभति"[] |
(३.४.५प्रतिपाठः) १ भुवः व्यञ्जनदन्त्यान्तः ।
१. इतोऽव्ययव्युत्पत्त्यां १.२प्रत्योः, ३.४.५प्रतीनां च पाठोऽन्यथा दृश्यते, अत्र प्रतिसङ्ख्यानिर्देशेन विभागीकृत्य स्थापितः ॥ २. 'पचाद्यचि' इति१॥ ३. १प्रतौ नास्ति ॥ ४. कोष्ठान्तर्गतपाठः २प्रतौ नास्ति ॥ ५. व्युत्पत्तिरत्नाकरटीकायां निर्दिष्टान्युदाहरणानि प्रायोऽमरकोषनानार्थवर्गाव्ययवर्गक्षीरस्वामिकृतटीकायां स्वोपज्ञटीकायां च दृश्यते ॥ ६. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, शो-१, पृ.९॥ ७. 'स्व' इति४॥ ८. '-ते' इति३॥ ९. ' यम्' इति४.५॥ १०. द्र. टीकासर्वस्वम् , भा-१, ११६॥, पृ.६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org