________________
१५१५- १५१८ ]
व्ययः । 'व्यय वित्तसमुत्सर्गे ' (चु.उ.से.), अदन्तः । एकं
व्ययस्य
॥१५१६ ॥
संमूर्च्छनं त्वभिव्याप्तिः
व्युत्पत्तिरत्नाकरकलिता
१ संमूर्छयते संमूर्च्छनम् । 'मूर्च्छा मोहसमुच्छ्राययो:'(भ्वा.प.से.), ल्युट् । २ अभिव्यापनम् अभिव्याप्तिः । ' आप्लृ व्याप्तौ ' (स्वा.प.अ.), 'स्त्रियां क्तिन् '३ | ३ | ९४॥ । द्वे सर्वतो वृत्तै: । 'सघलई व्याप' इति भाषा ॥ श्रेषो भ्रंशो यथोचितात् । १ यथोचिताद् रूपाद् भ्रंशोऽधः पातस्तन्नामैकं १० भ्रेषः इति । भ्रेषणं भ्रेषः । ' श्रेषृ चलने चं' (भ्वा.उ.से.), चकाराद् भये, भ्वादिरात्मनेपदी, भावे घञ् ॥
अभावो नाश
१ भवनं भावः सत्ता, न भावः अभावः । २ नशनं नाशः । ' णश अदर्शने' (दि.प.वे.), भावे घञ्, तत्र ॥
संक्रामसंक्रमौ दुर्गसञ्चरे ॥१५१७॥
१-२ संक्रामन्त्यनेनेति संक्रामः । बाहुलकाद् वृद्धिः । वृद्ध्यभावपक्षे संक्रमः, पुंनपुंसकावेतौ । ३ दुर्गे सञ्चरन्त्यनेन दुर्गसञ्चरः । 'चर गतिभक्षणयो: ' (भ्वा.प.से.), 'गोचर - सञ्चर - '३ | ३ |११९ ॥ इति साधुः । " संक्रामो दुर्गसञ्चरः ' २० [ अमरकोषः ३ ।२ ।२५ ॥ ] इत्यमरः । " संक्रामन्त्यनेन संक्रामः, संक्रम इत्येके, सेत्वादिः ''[ अम. क्षीर. ३ ।२।२५ ॥ ] इति क्षीरस्वामी । यत्कौटिल्य :- "मुखसमः संक्रमः "[ ] इति । उच्चत्वाद् दुरारोहत्वाद् मुखतुल्य इत्यर्थः । दुर्गं दुर्गमं सञ्चरन्त्यनेन दुर्गसञ्चर इति व्युत्पत्तिः । " दुर्गः स्यात् दुर्गमे दुर्गा गौरीनीलिकयोः " [विश्वप्रकाशकोशः, गान्तवर्ग:, श्रो- २४] इति महेश्वरः । त्रीणि सेतुप्रभृतिविषमस्थानगमनस्य ॥ १५१७॥ नीवाकस्तु प्रयोमः स्यात्
१ नियतं वचनं नीवाकः । निपूर्वः 'वच परिभाषणे' (अ.प.अ.), घञ्, 'चजोः कु घिण्ण्यतो: '७ । ३ ।
Jain Education International
६९५
५२ ॥ इति कुत्वम्, 'उपसर्गस्य घञि - '६ । ३ | १२२ ॥ इति ३० नेर्दीर्घः । २ प्रयमनं प्रयामः । 'यमु (यम) नियमने ' ( ), भावे घञ् । तुलाधृताऽन्यूनाधिकनाम्नी द्वे । 'बराबरि' इति भाषा । अथवा क्रिया (क्रया) दरनाम्नी द्वे । 'नीवाकस्तुलाधृताऽन्यूनाधिकम्, क्रिया (क्रया) दरो व " [ अम. क्षीर. ३ ।२।२३ ॥ ] इति क्षीरस्वामी । तथैवाऽऽचार्यव्याख्याऽपि । “न्यूनाधिकरहितप्रमाणवचनस्य द्वे " [ लिङ्गयसूरिकृतामरपदविवृतिटीका३ ।२ । ३३ ॥ ] इति लिङ्गसूरिः ॥ अवेक्षा प्रतिजागरः ।
४०
१ अवेक्षणम् अवेक्षा । 'ईक्ष दर्शनाङ्कनयो ! ' (भ्वा.आ.से.), 'गुरोश्च हलः ३ । ३ । १०३ ॥ इत्यङ्, टाप् । २ प्रतिजागरणं प्रतिजागरः । 'जागृ निद्राक्षये' (अ.प.से.), 'एरच् '३ । ३ । ५६ ॥ इत्यच् । द्वे अवेक्षायाः । 'सावचेताई' इति भाषा ॥
समौ विश्रम्भविश्वास
१ विश्रम्भणं विश्रम्भः । श्रम्भु विश्वासे " (भ्वा. आ.से.) । २ विश्वसनं विश्वासः । श्वस प्राणने ' ( अ.प.से.), घञ्, 'अत उपधायाः ७ । २ । ११६ ॥ । द्वे विश्वासस्य ॥
परिणामस्तु विक्रिया ॥१५१८॥
१ परिणमनं परिणामः । 'णमु प्रहृत्वे शब्दे च' (भ्वा.प.अ.), भावे घञ् । २ विक्रियते विक्रिया । ५० 'डुकृञ् करणे' (त.उ.अ.), 'कृञः श च '३ ॥ ३ ॥१०० ॥ इति शः, 'रिङ् शयग्लिङ्क्षु ७ ४ २८ ॥ टाप् । विकारविकृती अपि । यदमरः- “परिणामो विकारो द्वे समे विकृतिविक्रिये ''[ अमरकोषः ३ । २ । १५ ॥ ] इति । "विकारेऽर्थे त्रयो वर्तन्ते, द्वयोस्तु साम्यम्, स्त्रीत्वात् "[ अम. क्षीर. ३ ।२ ॥१५ ॥] इति क्षीरस्वामी । द्वे विकारस्य ॥१५१८॥
चक्रावर्तो भ्रमो भ्रान्तिर्भूमिघूर्णिश्च घूर्णने ।
१ चक्रेणाssवर्तनं चक्रावर्तः । २ भ्रमणं भ्रमः ।
॥७
१. मैत्रेयसायणसम्मतोऽयं पाठः, 'व्यय गतौ' इति 'वित्त समुत्सर्गे' इति च स्वामी ॥ २. 'व्याप्तस्य' इति३ ॥ ३ 'लैं' इति, '-लै' इति४ ॥ ४ पै' इति४ ॥ ५ स्वामिमतेऽयम्, 'भ्रेषु भ्लेट चलने' इति मैत्रेयः, 'श्रेषृ गतौ' इति सायणः ॥ ६ आत्मनेपदित्वं विचारणीयम् 'ना' इति४.५ ॥ ८ तुलनीयोऽमरकोषः ३ १२ १२३ ॥ ९ अम क्षीरस्वामिकृतटीकायाम्- “नियतं वचनं नीवाकः, तुलाकृतं न्यूनाधिक्यं क्रयादरो वा" इति दृश्यते, अम. क्षीर. ३ ।२ । २३ ॥ पृ. २६५ ॥ १०. अस्य स्थाने टीकायाम् "नामनी" इति दृश्यते, भा-२, पृ. १९३ ॥ ११. तुलनीयोऽमरकोषः ३ ।२।२८ ॥ १२. 'ईक्ष दर्शने' इति क्षीरतरङ्गिण्यादयः ॥ १३. तुलनीयोऽमरकोषः २ ।८।२३ ॥ १४. 'विश्रम्भे' इति३, 'श्रम्भु प्रमादे' इति सायणमत एव ॥
For Private Personal Use Only
www.jainelibrary.org