SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ ६९४ न्त्यनेनेति वा । ' गोचरसञ्चर- '३ । ३ । ११९ ॥ इति साधुः । "प्रवहस्तु बहिर्यात्रा (त्र) मतविश्व (मातरिश्व) प्रभेदयोः ' [मेदिनीकोशः, हान्तवर्ग:, श्रो- २०] इति मेदिनिः । "प्रवहो वायु स्याद् वायुमात्रे बहिर्गतौ "[ अनेकार्थसङ्ग्रहः ३ ।७६२ ॥]इत्यनेकार्थः । प्रवासोऽपि । एकं गृहनगरादेर्बहिर्गमनस्य ॥१५१४॥ अभिधानचिन्तामणिनाममाला १ तिरोऽञ्चति तिर्यक् । 'अञ्च गतिपूजनयोः ' (भ्वा.प.से.), 'तिर: पूर्वः, 'ऋत्विग्दधृक्- '३ १२ १५९ ॥ इत्यादिना क्विन्, 'तिरसस्तिर्यलोपे ' ६ । ३ । ९४ ॥ इति तिर्यादेशः, तिरश्ची, तिर्यञ्च इत्यादि क्लीबे । २ सचते समवैति साचिः । षच समवाये ' (भ्वा.प.से.), बाहुलकात् ३० 'कम्यमि- ' ( ) इति णिदिः । साचीत्यव्ययमपि । द्वे 'तिरछा' इति ख्यातस्य ॥ जातिः सामान्यम् १ जायतेऽस्यां जाति: । 'जनी प्रादुर्भावे ' (दि.आ.से.), ‘स्त्रियां क्तिन्’३।३।९४ ॥, ' अनुनासिकस्य - ' बन्ध्ये मोघा फलमुधाः १० ६ । ४ । १५ ॥ इति दीर्घः । गौरयं गौरयमित्यादिसदृशाभिलापज्ञानहेतुर्जातिरित्यर्थः । यदुक्तम्- " आकृतिग्रहणाजातिर्लिङ्गानां च न सर्वभाक् "[ काशिका४ ॥ १ ॥ ६३ ॥ ] इति । जातमित्यकारान्तोऽपि क्लीबे । " जात्यं जात्योघजन्मसु" [विश्वप्रकाशकोशः, तान्तवर्ग:, श्रो- १४] इति महेश्वरः । "जातिः सामान्यम्''[ ] इति तट्टीका । २ समानस्य भावः सामान्यम् । भावे ष्यञ्ं । द्वे जातेः ॥ व्यक्तिंस्तु विशेषः पृथगत्मिका । १ व्यज्यतेऽनया व्यक्तिः | 'अञ्जू व्यक्त्यादौ' (रु.प.वे.), 'स्त्रियां क्तिन् '३ । ३ ।९४ ॥, 'अनिदितां हल २० उपधायाः - '६ । ४ । २४ ॥ इति लोपः । २ विशिष्यतेऽनेन विशेषः । 'शिष्लृ विशेषणे' (रु.प.अ.) करणे घञ् । ३ पृथग् भिन्न आत्मा यस्याः सा पृथगात्मिका, भिन्नस्वरूपेत्यर्थः । त्रीणि व्यक्तेः । 'विशेष' इति भाषा ॥ तिर्यक् साचिः संहर्षस्तु स्पर्धा १ संहर्षणं संहर्षः । 'हृषु अलीके' (भ्वा.प.से.), [ सामान्यकाण्डः-६ भावे घञ् । सङ्घर्षोऽपि । २ स्पर्धनं स्पर्धा । 'स्पर्ध सङ्घर्षे' (भ्वा.आ.से.), भिदादित्वादङ् । द्वे स्पर्धायाः । 'पराभिभवेच्छा' इति भाषा ॥ Jain Education International द्रौहस्त्वपर्क्रिया ॥१५१५॥ १ द्रोहणं द्रोहः । 'द्रुह जिघांसायाम् ' (दि.प.से.), घञ् । २ अपकरणम् अपक्रिया । 'कृञः श च'३।३। १०० ॥ इति शः । द्वे द्रोहस्य ॥१५१५ ॥ १ बध्नाति बन्ध्यम् । 'बन्ध बन्धने' (क्र्या.प.अ.), 'अघ्न्यादयश्च'(उणा-५५१ ) इति साधुः, तत्र । २ मुह्यतेऽत्रेति मोघम् । 'मुह वैचित्ये ' ( दि.प.वे.), घञ्, न्यङ्क्वादित्वात् कुत्वम् । ३ न फलति अफलम् । 'फल निष्पत्तौ ' (भ्वा.प.से.) अच् । ४ मुह्यत्यनया मुधा । 'मुह वैचित्ये' (दि.प.वे.), भिदाद्यङ् । मुधेत्यव्ययमपि । चत्वारि निष्फलस्य ॥ अन्तर्गडु निरर्थकम् । १ अन्तर्गडति अन्तर्गडु । 'गड सेचने ' ( भ्वा. ५० प.से.), 'भृमृशी-'(उणा-७) इत्यादिना उ: । २ निर्गतमर्थात् प्रयोजनाद् निरर्थम्, स्वार्थे कनि निरर्थकम् । द्वे निष्प्रयोजनस्य ॥ संस्थानं सन्निवेशः स्यात् १. ' - दः' इति४.५ ॥ २ ' न्' इति५ ॥ ३ ' जते' इति३.५ ॥ ४ 'न-' इति३ ॥ ५ 'तिरपू' इतिर, 'तिर्पू' इति३ ॥ ६ 'प्' इति१ ॥ ७ ' - चीः' इति ॥ ८. ३. ४.५ प्रतिषु नास्ति ॥ ९ इतोऽग्रे ३प्रतौ 'द्वे' इति दृश्यते ॥ १०. ' र्थकम्' इति५ ॥ ११. 'सं-' इति४ ॥ १२. द्र. अनेकार्थकैरवाकरकौमुदीटीका, भा-२, श्रो- ४२३, पृ. १८६ ॥ १३. 'तिः' इति५ ॥ ४० १ संस्थीयतेऽत्रेति संस्थानम् । अधिकरणे ल्युट् । २ सन्निवेशनं सन्निवेशः । 'विश प्रवेशने ' ( तु.प.अ.), भावे घञ् । " अथ चतुष्पथे सन्निवेशे च संस्थानम् "[ अमरकोष: ३ | ३ | १२४ ॥] इत्यमरः । " सन्निवेशो रचना' [ अम. क्षीर. ३ | ३ | १२४ ॥ ] इति क्षीरस्वामी । यथा"मालाकार इव जां से विदधे संस्थानमुच्चैर्द्विषाम् "[ ]इति । " इह ६० द्विषां संस्थानं मृतिम्, द्वितीयपक्षे स्रजां संस्थानं रचनाम् " [ ] इति । द्वे संस्थानस्य । 'भली रचना' इति भाषा ॥ अर्थस्याऽपगमे व्ययः ॥ १५१६ ॥ १ अर्थस्य द्रव्यस्याऽपगमे समुत्सर्गे व्ययनं For Private Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy