________________
व्युत्पत्तिरत्नाकरकलिता
१५००-१५०६ ]
१ प्रणमनं प्रणतिः । प्रपूर्वः 'णमु ( णम) प्रह्वत्वे शब्दे चं' (भ्वा.प.अ.), 'स्त्रियां क्तिन् '३ १३ १९४ ॥, 'अनुदात्तोपदेश - '६ ४ १३७ ॥ इति म्लोपः । २ प्रणिपतनं प्रणिपातः । 'पत्लृ पतने '(भ्वा.प.से.), भावे घञ् । ३ अनुनयनम् अनुनयः । णीञ् प्रापणे' (भ्वा.उ. अ.), 'एरच् '३ । ३ । ५६ ॥ इत्यच्, तत्र । त्रीणि 'मनावणउं" इति ख्यातस्य ॥ अथ शयने क्रमात् ।
विशाय उपशाश्च
१-२ क्रमात् पर्यायेण प्राहरिकादीनां शयने विश१० यनं विशायः । उपशयनम् उपशायः । व्युपपूर्वात् 'शीङ् स्वप्ने' (अ.आ.से.), 'श्नाद्वयुपयोः (व्युपयोः) शेते:- '३ । ३ । ३९ ॥ इति घञ् । द्वे यामिकादीनामनुक्रमेण शयनस्य ॥ पर्यायोऽनुक्रमः क्रमः ॥१५०३॥
परिपाट्यानुपूर्व्यावृत्
१ पर्ययणं पर्यायः । परिपूर्वाद् 'इण् गतौ ' (अ. प.अ.) अस्मात् 'परावनुपात्यय इणः '३ । ३ । ३८ ॥ इति घञ् । २ अनुक्रमणम् अनुक्रमः । क्रमु पादविक्षेपे' (भ्वा.प.से.), भावे घञ्, 'नोदात्तोपदेश- ७।३।३४ ॥ इति न वृद्धिः । अनुगतः क्रमोऽनुक्रमः । प्रादिसमासो वा । ३ एवं २० क्रमणं क्रमः ॥१५०३ ॥ ४ परिपाटनं परिपाटिः, स्त्रीलिङ्ग: । 'पट गतौ ' (भ्वा.प.से.), णिजन्तः, 'अच इ: ' ( उणा - ५७८ ) इति इ: । 'कृदिकारात्- ' ( गणसू - ४ ११ ॥४५ ॥ ) इति ङीषि परिपाटी । " कृता लङ्काभर्तुर्वदनपरिपाटीषु घटना "[ ] इति पूर्वकविप्रयोगः । तृतीयस्वरान्तोऽप्ययम् । ५ पूर्वं पूर्वमनु अनुपूर्वम् । वीप्सायामव्ययीभावः । अनुपूर्वस्य भावः कर्म वा आनुपूर्व्यम् । दृढादित्वात् ष्यञ्, 'षिद्गौरादिभ्यश्च ४ । १ । ४१ ॥ इति ङीष्, 'हलस्तद्धितस्य' ६।४।१५० ॥ इति यलोपः आनुपूर्वी, स्त्रीक्लीबलिङ्गः । क्लीबे आनुपूर्व्यम् । ६ आवर्तनम् आवृत् । आवर्तते ३० व्यापारोऽस्यामिति वा । 'वृतु वर्तने ' (भ्वा.आ.से.), सम्पदादित्वात् क्विप् । आवृतौ आवृतः इत्यादि । स्त्रीलिङ्गोऽयम् । षडनुक्रमस्य ॥
Jain Education International
For Private
उपात्ययः पर्ययश्च
१ अतीत्य पतनं गतिः अतिपातः । अतिपूर्वात् 'पत्लृ पतने ' ( भ्वा.प.से.) अस्माद् भावे घञ् । २ अतिक्रमणम् अतिक्रमः । ३ उपपन्नस्याऽत्ययोऽतिक्रमणम् उपात्ययः । उपातिपूर्वः 'इण् गतौ ' ( अ.प.अ.), 'एरच् - ३।३।५६ ॥ इत्यच् । ४ परित्यज्याऽयनं पर्यर्यः । 'इण् गतौ' ( अ.प.अ.), 'परावनुपात्ययः - '३ ३ १३८ ॥ इति घञभावे ४० 'एरच् '३ । ३ । ५६ ॥ । चत्वारि अतिक्रमणस्य । 'उल्लंघनम् ' इति भाषा ॥
१ - २ काम्यते कामम्, प्रकाम्यते प्रकामम् । उभयत्र घञ् । ३ पर्याप्यते स्म पर्याप्तम् । 'आप्लृ ५० व्याप्तौ ' (स्वा.प.अ.), क्तः | ४ निकाम्यते निकामम्, घञन्तम् । एते चत्वारोऽप्यकारान्ता अनव्ययाः । यथा (यत्) शाश्वतः "कामे निकामे कामाख्या "[शाश्वतकोशः, श्रो- १०३] इति । अव्ययास्तु मकारान्ता अव्ययेषु ज्ञातव्याः 1 ५ इष्यत इष्टम् । 'इष गतौ ' ( दि.प.से.), निष्ठा । ६ ईप्सितमनतिक्रम्य यथेप्सितम् । प्रायः क्रियाविशेषणान्येतानि । [ पर्याप्तमपि ], यथा- "पर्याप्तमाप्ताः प्रविशं तु मध्यः "["]इति । एवमन्येऽपि । षड् यथेप्सितस्य । " जिउं इच्छा' इति भाषा ॥
अत्र्त्यर्थे गोढमुद्गाढं बाढं तीव्रं भृशं दृढम्
अतिमात्रातिमर्यादनितान्तोत्कर्षनिर्भराः । भरैकान्तातिवेलातिशयाः
१. 'परि-' इति१.४.५ ॥ २. 'णम प्रहृत्वे' इत्येव स्वामी ॥
३. 'न्लो-' इति ४.५ ॥ ४ 'शल हुल पत्लृ गतौ' इति क्षीरतरङ्गिण्यादयः ॥
५
'णुं' इतिश्, 'णौ' इति३.४ ॥ ६. 'भाषायाः' इति३ ॥ द्र. पदचन्द्रिका, भा-२, ब्रह्मवर्गः, श्रो-४३३, पृ. ५२१ ॥ ८ ३ प्रतौ नास्ति ॥
९ 'शल हुल पत्लृ गतौ' इति क्षीरतरङ्गिण्यादयः ॥ १०. ' -र्यायः' इति३. ४.५ ॥ १३. 'न्तः' इति४ ॥ १४ द्र. अनेकार्थकैरवाकरकौमुदीटीका, भा-२, ३।२६७ ॥
११. 'नु' इति३.४.५ ॥ १२. 'डूं' इति१, 'डौ' इति३ ॥ पृ. ११८ ॥ १५. 'जे-' इति३ ॥
समौ सम्बाधसङ्कटौ ॥१५०४॥
२
१ सम्बाध्यते सम्बाधः । करणे घञ् । सङ्कटम् । 'सम्प्रोदश्च - ५ ।२ ।९२ ॥ इति कटच् । "सङ्कटं ना तु सम्बाधः ''[ अमरकोषः ३ । १ १८५ ॥ ] इत्यमरः । द्वे सम्बाधस्य । ‘सांकडुं”, इति भाषा ॥१५०४॥ कामं प्रकामं पर्याप्तं निकामेष्टे यथेप्सिते ।
६८९
अतिपातस्त्वतिक्रमः ।
14
Personal Use Only
16
॥१५०५ ॥
६०
www.jainelibrary.org