________________
६९०
अभिधानचिन्तामणिनाममाला
44
१ अर्थो निवृत्तिर्विषयो वा, तमतिक्रान्तम् अत्यर्थम् । 'अत्यादयोऽतिक्रान्ताद्यर्थे - ' ( वा २ ।२।१८ ॥ इति समासः, तत्र । २ गाहते स्म गाढम् । 'गाहू विलोडने ' (भ्वा.आ.अ.), (धत्वढत्वादि । ३ उद्गाहते स्म उद्गाढम् । उद्पूर्वः 'गाहू विलोडने' (भ्वा.आ.से.), क्तः) । ‘हो ढ:’८।२।३१॥, ‘इषस्तथोः - '८ २ १४० ॥ इति धत्वम्, ष्टुत्वम्, 'ढो ढे लोपः '८ । ३ । १३ ॥ । ४ बाहते बाढम् । 'वेह जेह बाहृ प्रयत्ने' (भ्वा.आ.से.), 'क्षुब्धस्वान्त- '७।२। १८ ॥ इति साधुः । भृशार्थेऽयम्, अन्यत्र वाहितः । ५ १० तीवति तीव्रम् । 'तीव स्थौल्ये ' ( भ्वा.प.से.), बाहुलकात् 'स्फायितञ्चि- ' (उणा - १७० ) इति रक् ‘ऋज्रेन्द्राग्र(उणा - १८६) इत्यत्र बहुलवचनात् 'तिज निशाने ' (भ्वा. आ.से.) अतोऽपि रन्, दीर्घत्वं च जकारस्य च वत्वम् " [] इत्युणादौ । ६ 'भृशु भ्रंशु अधःपतने' (दि.प.से.), धातू - नामनेकार्थत्वाद् 'इगुपध- '३ ।१ ।१३५ ॥ इति कः भृशम्, तालव्यशम् । बिभर्तीति वा । भृञो बाहुलकात् कित् शः । ७ दर्हति दृढम् । 'दृढः स्थूलबलयोः ७ । २ । २० ॥ इति साधुः ॥१५०५ ।। ८-९ अतिक्रान्तं मात्रां मर्यादां च अतिमात्रम्, अतिमर्यादम् । १० निताम्यति स्म नितान्तम् । २० 'तमु काङ्क्षायाम्' (दि.प.से.), क्तः, 'अनुनासिकस्य क्विझलो :- '६ ॥४ ॥१५ ॥ इति दीर्घः । ११ उत्कृष्यतेऽनेन उत्कर्षः । 'कृष विलेखने' (भ्वा.प.अ., तु.उ. अ.), करणे घञ् । १२ निःशेषेण भरोऽत्र निर्भरः । १३ भ्रियतेऽनेन भरः । 'भृ भर्त्सने'(क्र्या.प.से.), 'ऋदोरप् '३ । ३ ५७ ॥ इति करणेऽप् । १४ एकोऽन्तो निश्चयोऽत्रेति एकान्तम् । १५ अतिक्रान्तो वेलां मर्यादाम् अतिवेलम् । अत्यादयः क्रान्ताद्यर्थे द्वितीयया' (वा - २ । २ । १८ ॥ ) इति समासः, ‘गोस्त्रियोरुपसर्जनस्य’१ ।२ ।४८ ॥ इति ह्रस्वः । १६ अतिशेते जयत्यनेन अतिशयः । अतिपूर्वः 'शीङ् स्वप्ने' (अ. 10 आ.से.), 'एरच् '३ । ३ । ५६ ॥ इत्यच्। एते षोडशाऽपि क्रियाविशेषणत्वादद्रव्ये वर्तमानाः क्लीबलिङ्गाः । यथा" नितान्तं पठति । यत् तेषां मध्ये द्रव्यवाचि, तत् त्रिषु वाच्यलिङ्गमित्यर्थः । यथा - " दृढः कम्बलः, दृढा पटी, दृढं वस्त्रम् ''[] इति । षोडशात्यन्तस्य ॥
7
Jain Education International
"
[ सामान्यकाण्डः-६
जृम्भा तु जृम्भणम् ॥१५०६॥
॥१५०६ ॥
१ जृम्भते जृम्भा, त्रिलिङ्ग: । २ जृम्भ्यते जृम्भणम् । 'जृभी गात्रविनामे' (भ्वा.आ.से.), ल्युट् । द्वे जृम्भायाः । ‘बगाई' इति भाषा आलिङ्गनं परिष्वङ्गः संष उपगूहनम् । अङ्कपाली परीरम्भः क्रोडीकृतिः
१ आलिङ्ग्यते आलिङ्गनम् । 'लिगि विचित्रीकरणे' (चु.उ.से.), ल्युट् । २ परिष्वञ्जनं परिष्वङ्गः । 'ष्वञ्ज परिष्वङ्गे' (भ्वा.आ.अ.), घञ्, 'उपसर्गात् सुनोतिसुवति - १८ |३ |६५ ॥ इत्यादिना षत्वम्, 'चजो: कु घिण्ण्यतो : ७ । ३ । ५२ ॥ इति कुत्वम् । ३ संश्लेषणं संषः । ष आलिङ्गने' (दि.प.अ.), घञ् । ४ उपगूह्यते उपगूहनम् । 'गुहू संवरणे' (भ्वा.उ.से.), ल्युट्, ' -उपधाया गोह : '६ । ४ । * ८९ ॥ इति दीर्घः । ५ अङ्के पाल्यते अङ्कपालिः । चुरादिः, णिजन्तः, ‘अच इ:'(उणा - ५७८) इति इ:, 'कृदिकारात्- ' ( गणसू - ४ ११ ।४५ ॥ ) इति ङीषि अङ्कपाली । तृतीयस्वरा - ५० न्तोऽप्ययम् । ६ परिरम्भणं परिरम्भः । 'रभ राभस्ये' (भ्वा.आ.अ.), घञ्, 'रभेरशब्लिटोः ७ । १ । ६३ ॥ इति नुम् । ' उपसर्गस्य घञ्यमनुष्ये बहुलम् '६ । ३ । १२२ ॥ इति दीर्घत्वे परीरम्भोऽपि । ७ क्रोडीकरणं क्रोडीकृतिः । 'स्त्रियां क्तिन्' ३।३।९४॥ । सप्त आलिङ्गनस्य ॥
अथोत्सवे ॥१५०७॥
१. 'अत्यादय क्रान्ताद्यर्थे द्वितीयया' इति वार्तिकस्वरूपं दृश्यते ॥ २. कोष्ठान्तर्गतपाठः ३.४प्रत्योर्नास्ति ॥ 'लौल्ये' इति४.५, 'पीव मीव नीव तीव स्थौल्ये' इति स्वामी, 'पीव मीव तीव णीव स्थौल्ये' इति मैत्रेयसायणौ ॥ ४ - न्ति' इति ॥ ५. ' -ङ्गाः' इति५ ॥ ६. 'बा-' इति२ ॥ ७ 'चित्रीकरणे' इति क्षीरतरङ्गिण्यादयः ॥ ८. 'परि-' इति३.५ ॥ ९ 'थें' इति३ ॥ १० व्युत्त्पत्त्यां 'सूते' इति व्युत्त्पत्तित्वात् 'षूङ् प्राणिगर्भविमोचने ' (अ.आ.से.) इति युक्तः प्रतिभाति ॥
४०
महक्षणोद्धवोर्द्धर्षाः
१ उदत्यर्थं सूते सुखमिति उत्सवः । उत्पूर्वः 'षु प्रसवें ( ), पचाद्यच्, तत्र ॥१५०७ ॥ २ मह्यते पूज्यतेऽनेनेति महः । 'मह पूजायाम् ' (भ्वा.प.से., चु.उ.से.), ६० पुंसि संज्ञायाम् ' ३ । ३ । ११८ ॥ इति घः, अदन्तोऽयम् । " महमसाविति बन्धुतयोदितैः "[ शिशुपालवधम्, सर्गः -६, लो- १९] इति माघात् सकारान्ताऽपि । 'महस्तूत्सवतेजसोः ''[ अमरकोषः३।३ । २३१ ॥ ] इत्यनेकार्थश्च । ३ क्ष दुःखमिति क्षणः । क्षणु हिंसायाम् ' ( त. उ.से.), तनादिः,
For Private Personal Use Only
www.jainelibrary.org