________________
१०
२०
३०
अभिधानचिन्तामणिनाममाला
[ देवकाण्डः- २ गच्छति मयूखः । 'मा माने ' ( अ.प.अ.), 'उख नख ' (भ्वा.प.से.) इति दण्डको धातुर्गत्यर्थः, पचाद्यच्, पृषोदरादित्वाद् रूपसिद्धिः । यद्वा मिमीते मयूखः । 'माङ् माने ' ( जु.आ.अ.), 'माङ उखो ४० (ऊखो) मय् च' (उणा- ७०३ ) इत्यूखप्रत्ययो धातोर्मयादेशश्चेति । ३७ मह्यत इति महः । 'मह पूजायाम् ' (भ्वा.उ.से.), '-असुन्' (उणा - ६२८) इत्यसुन् । ३८ छ्यति छिनत्ति तमः, छाद्यते वा तमोऽनयेति छविः, स्त्रीलिङ्गः । 'छो छेदने' (दि.प.अ.), 'छर्द संवरणे' (चु.उ.से.), 'कृविघृष्विच्छविस्थविदविँकिकिदिर्विः' ( उणा - ४९६ ) इति सूत्रेण साधुः । ३९ विभानं विभा । विपूर्वः 'भा दीप्तो ' ( आ.प.अ.), 'आतश्चोपसर्गे '३ | ३ |१०६ ॥ इत्यङ् । सामान्येन एकोनचत्वारिंशत् किरणस्य ॥१००॥ प्रकाशस्तेज उद्योत औलोको वर्च आतपः ।
Jain Education International
३२
'इगुपधात् कित्' (उणा - ५५९ ) इतीन् डीषि द्युती च "[ ] इति कौमुदी । २४ द्योतनं द्युत् । 'द्युत दीप्तौ ' (भ्वा.आ.से.), सम्पदादित्वात् क्विप् । २५ रोचनं रुक् । 'रुच दीसौ' (भ्वा.आ.से.), सम्पदादित्वात् क्विप् । २६ विरोचतेऽनेनेति विरोकः । 'रुच दीप्तौ ' (भ्वा.आ.से.), बाहुलकात् करणे घञ् । २७ किरति तापमौष्ण्येन, कीर्यते वा आदित्येन दिग्मुखेषु वेति किरणः | 'कृ विक्षेपे ' ( तु.प.से.) तुदादि:, 'कृपृवृजिमन्दिनिधाञ्भ्यः क्युः ' ( उणा - २३९) इति क्युः, 'ऋत इद्धातोः ७ । १ । १००॥ इतीकारोऽन्तादेशः, ‘उरण् रपरः ' १ ।१ । ५१ ॥ यद्वा कृणाति हिनस्ति तमः, हिंस्यते तमोऽनेनेति वा व्युत्पत्तिः 'कृ[ञ्] हिंसायाम्' (क्र्या.उ.से.), प्रत्ययस्तु प्राचीन एव । २८ त्वेषते त्विषिः, स्त्रीलिङ्गः । ' त्विष दीप्तौ ' (भ्वा.उ.अ.), 'इगुपधात् कित्' (उणा५५९) इतीन् । २९ त्वेषणं त्विट् । 'त्विष दीप्तौ ' (भ्वा.उ. अ.), सम्पदादित्वात् क्विप् । ३० भासते भाः पुंस्त्रीलिङ्गः । ' भासृ दीसौ' (भ्वा.आ.से.) 'भ्राजभास- '३।२।१७७॥ इत्यादिना क्विप् । भासौ, भासः इत्यादिरूपाणि । ३१ प्रकर्षेण भात्यनया प्रभा । ' भा दीप्तौ ' ( अ.प.अ.) प्रपूर्वः, 'आतश्चोपसर्गे ' ३ | ३ |१०६ ॥ इत्यङ्ग स्त्रीत्वाट्टाप् । ३२ वसति लोकेषु, वसत्यत्र परं तेजो वा वसुः । वसति ( वस्ते) आच्छादयति लोकानिति वा । 'वस निवासे' (भ्वा.प.अ.), 'वस आच्छादने' (अ.आ.से.) वी, 'शस्वृ-स्निहिप्यसि - वसि - हनि - क्लिदि-बन्धि-मनिभ्यश्च' (उणा-१०) इत्युः । ३३ गोशब्दपूर्वादन्तर्भूतण्यर्थाद् 'भस भक्षण ( भर्त्सन) दीप्त्योः ' (जु.प.से.) इत्यस्मात् 'क्तिच्कौ च संज्ञायाम् ' ३ | ३ | १७४॥ इति क्तिचीडभावे, पृषोदरादित्वाद् गोशब्दस्याकारो ऽन्तादेशः । गां भूमिं भस्ति दीपयति । यद्वा गवि स्वर्गे दीप्यत । यद्वा बभस्तिरत्रात्तिकर्मा, गामुदकं भौमरसलक्षणं बभस्ति अत्ति । यद्वा 'गट्
( ) इति सूत्रेण तिप्रत्यय:, धातोर्गडागमश्च । बभस्ति दीप्यत इति गभस्तिः । ३४ भातीति भानुः । ' भा दीप्तौ ' ( अ.प.अ.), 'दाभाभ्यां नुः' (उणा - ३१२ ) इति नुः । वस्वादयस्त्रयः पुंसि । ३५ भानं भा । 'मृगयेच्छाटाट्यां- ' (वा - ३।३।१०१ ॥ ) इत्यादिना ‘भा दीप्तौ’(अ.प.अ.)इत्यस्य धातो रूपं निपात्यते । ३६ मिनोति प्रक्षिपति तमांसीति मयूखः कवर्गद्वितीयोपधः । 'डुमिञ् प्रक्षेपणे'(स्वा.उ.अ.), अस्माद्धातो: 'मुहे: खः मूर्च' (उणा७००)इति सूत्रेण मुहेर्विधीयमानः खप्रत्ययों बाहुलकाद् भवति, ऊडागमश्च । 'खप्रत्ययाधिकारेऽयं रूढः '[ ]इति श्रीभोजः । मयतेर्गत्यर्थो (भ्वा.आ.से.) वा, बाहुलकाद् ऊखप्रत्ययः, मयति गच्छति सर्वलोकेष्विति व्युत्पत्तेः । माय प्रमाय गगने ओखति १.१.२ प्रतौ नास्ति ॥ २. ' - त्रास्तिकर्मा' इति १, ' - त्रास्तिकर्म' इति २ ॥ ३. 'सिद्धान्तकौमुद्यां- 'मृगयाटाट्या-' इति दृश्यते ॥ ४. 'ख' इति ३ नास्ति, 'खः' इति १ ॥ ५. 'मयतिर्गत्यर्थो' इति १.२ । ६. 'छदि-' इति सायणः ॥ ७. ' - दवि' इत्युणादिगणे नास्ति ॥ ८. ' - किदीविः' इति१.२ ॥ ९. ' - स्या' इति १ ॥ १०. ' - देश - ' इति १ ॥
१ प्रकाशते प्रकाश: । 'काशृ दीप्तौ ' (भ्वा.आ.से.), घञ् । २ तेजयति तेजः । 'तिज निशाने ' (भ्वा.प.से.) णिजन्तादस्मात् '-असुन्' (उणा- ६२८ ) इत्यसुन् । तेजसी, तेजांसि इत्यादि । ३ उद्योतत उद्योतः । उत्पूर्वः 'द्युत दीप्तौ ' (भ्वा.प.से.), घञ् । ४ आलोकते जनोऽनेनेति आलोकः । 'लोकृ दर्शने ' (भ्वा.आ.से.), करणे घञ् । ५ वर्चते दीप्यते वर्चः । 'वर्च दीप्तौ ' (भ्वा.आ.से.), '- असुन्' (उणा - ६२८ ) इत्यसुन् । वर्चसी, वर्चांसि इत्यादि । ६ आतपति आतपः । ' तप सन्तापे ' (भ्वा.प.अ.), आङ्पूर्वः, पचाद्यच् । द्योत इत्यपि। षड् उद्योतस्य । 'उजुआलु' इति भाषा ॥ मरीचिका मृगतृष्णा
१ म्रियतेऽनया मरीचिः । 'मृङ् प्राणत्यागे' (तु.आ.अ.), ६० 'मृकणिभ्यामीचिः' (उणा-५१०) इतीचिः प्रत्यय:, मरीचिरिव मरीचिका, प्रथमस्वरादिः । 'इवे प्रतिकृतौ '५ । ३ ।९६ ॥ इति कन्, स्त्रीत्वाट्टाप् । २ जलाभासत्वाद् मृगाणां तृष्णाऽस्त्यस्यां मृगतृष्णा । अर्श आदित्वादच्, ततष्टाप् । मरुदेशे सिकतादौ अर्करश्मयः प्रतिफलिता दूरस्थानां जलत्वेनाभासन्ते, तद्वाचिनामद्वयम् । मरुमरीचिकाऽपि । 'झांझूआ' इति भाषा ॥ मण्डलं तूपसूर्यकम् ॥१०१॥
५०
परिधिः परिवेषश्च
१ मण्ड्यते मण्डयते वा मण्डलम्, त्रिलिङ्ग: । 'मडि भूषायाम् ' (भ्वा.प.से.), ण्यन्तो वा । 'कलतृ ( स्तृ) पश्च' (उणा१०४) । इह सूत्रे प्राक्प्रत्ययनिर्देशो मण्डलादिप्रसिद्ध्यर्थः । मण्डं ७० भूषां लात्यादत्ते वा मण्डलम्।' ला आदाने' (अ.प.अ.), 'आतोऽनुपसर्गे कः '३ ॥२॥३ ॥, ' आतो लोप इटि च '६ ४ ६४ ॥ इत्यालोपः ।
For Private Personal Use Only
www.jainelibrary.org