________________
१४६८- १४७३ ]
क्लीबे गुणवृत्तौ वाच्यलिङ्गाः । अरमाशु मङ्क्षु चाऽव्ययकाण्डे वक्ष्यते (श्रो- ६ । १५३०) । नव त्वरितस्य । ''ऊ तावलि' इति भाषा ॥
झम्पा सम्पातपाटवम् ॥१४७० ॥
१ झमति झम्पा । 'झमु अदने ' (भ्वा.प.से.), बाहुलकात् पः, स्त्रीलिङ्गोऽयम्, “पुंस्यपि "[]इत्यन्ये । यदाहु:- " झम्पः सम्पातपाटवम् "[]इति । २ सम्पतनं सम्पातः । सम्पाते पाटवं सम्पातपाटवम् । द्वे उच्चान्नीचैः पतनस्य । 'झांप' इति भाषा ॥१४७० ॥ १० अनारतं त्वविरतं संसक्तं सततार्निशे
1
व्युत्पत्तिरत्नाकरकलिता
नित्यानवरताजैस्त्रासक्ताश्रान्तानि सन्ततम् ।१४७१ ।
१ आङ पूर्वी रेमिर्विरामे वर्तते । तदुक्तम्"आरतविरताऽवरतशब्दा विरामार्था: "[ ] । अविद्यमानमारतमस्मिन्निति अनारतम् । २ नास्ति विरतमस्येति अविरतम् । ३ संसजति स्म संसक्तम् । 'षञ्ज सङ्गे' (भ्वा.प.अ.), क्तः | ४. ११ संतन्यत इति सततम् । सम्पूर्वः 'तनु विस्तारे' (त. उ.से.), भावे क्तः, 'अनुदात्तोपदेशस्य - '६ ।४ ।३७ ॥ इति न्लोपः, 'समो वा हितततयोः ' (वा - ६ । १ । १४४ ।। ) इति वा म्लोपः । म्लोपाभावपक्षे २० सन्ततम् अपि । ५ निशाव्यापारशून्यत्वमुपचारात्, तद् रहितम् अनिशम् । "नास्ति निशाप्रायो व्यवच्छेदक : कालोऽस्येत्यनिशम्''[टीकासर्वस्वम् १ | १ | ६५ ॥] इति तु सर्वानन्दः । ६ नियो भवमित्यर्थे नियतार्थाद् निशब्दात् 'त्यब्नेध्रुव : ' ( वा - ४ १२ ।१०४ ॥ ) इति त्यप् [ नित्यम् ] । ७ नाऽस्त्यवरतमस्य अनवरतम् । ८ न जस्यतीत्येवंशीलम् अजस्त्रम् । 'जसु हिंसार्याम् (दि.प.से.), दन्त्यसः, 'मनिकम्पि' ३ ।२।१६७॥ इत्यादिना रः । सततमजस्त्र शब्दावव्ययावपि नित्यपर्यायौ स्तः । " शश्वदभीक्ष्णं नित्यं सदा सततमजस्रमिति सातत्ये "[ ] इत्यव्ययप्रकरणे आपिशलेः । ३० न सजति स्म असक्तम् । १० न श्राम्यति स्म
९
अश्रा
Jain Education International
६७५
न्तम् । श्रमु तपसि खेदे च ' ( दि.प.से.), निष्ठा, 'अनुनासिकस्य ६ ४ १५ ।। इति दीर्घः । एकादश निरन्तरक्रिया
करणस्य
॥१४७१ ॥
साधारणं तु सामान्यम्
९ समानमाधारणेन वर्तते साधारणम् । 'अन्येषामपि - '६।३।१३७ ॥ इति दीर्घत्वें वा । पूर्वं 'सहक्, साधारणम्'(श्लो-६।१४६१ ॥ ) इत्युक्तम्, इदानीं तु यदेकमनेकसम्बन्धि, तत् साधारणशब्देनोच्यते । बह्वादित्वाद् ङीषि साधारणी साधारणा च । २ समानमेव सामान्यम् । स्वार्थे ष्यञ् । जातौ तु भावकर्मणोः ष्यत्रि सामान्यम्, ४० क्लीबमेव । द्वे साधारणस्य
||
दृढसन्धिस्तु संहतम् ।
१ दृढः सन्धिः सन्धानं संघट्टनमस्य दृढसन्धिः । २ संहन्यते स्म संहतम् । 'हन् ( हन) हिंसागत्योः ' ( अ. प.अ.), क्तः । " संहतमच्छिद्रम् "[ अम. क्षीर. ३ ।१ ॥७६ ॥] इति क्षीरस्वामी । वाच्यलिङ्गौ द्वावपि । द्वे दृढसन्धिवस्तुन: । 'छेकै रहित' इति भाषा ॥
कलिलं गहने
१ कल्यते क्षिप्यतेऽत्राऽन्यत् कलिलम् । 'कल
उत्क्षेपे'(
), 'कल शब्दसंख्यानयो: ' (भ्वा.आ.से.), ५० वा, 'सलिकलि- ' ( उणा - ५४ ) इतीलच् । २ दुष्प्रवेशत्वाद् दुरधिगमान्तः पातं" गहनम् । यथा- " गहनं शास्त्रम्, दुरधिगमार्थमित्यर्थः, तत्र । गहनं गह्वरे दुःखे विपिने कलिलेऽपि च " [विश्वप्रकाशकोशः, नान्तवर्गः श्रो- ३३] इति महेश्वरः । "कलिलमाकीर्णम्, तंत्र, यथा- 'शार्दूलगहनं वनम्' []" इति तट्टीका । द्वे गहनस्य ॥
सङ्कीर्णे तु सङ्कुलमाकुलम् ॥१४७२॥ कीर्णमाकीर्णं च
॥
४. 'झम्पा' इति ॥ ५. द्र. स्वोपज्ञटीका६ । १४७० ॥ पृ.२० ॥ ९ विरति ' इति३.४ ॥ १०. 'म' इति ॥
१. 'तत्परस्य' इति३ ॥ २. 'उ' इति३ ३. 'झम्पति' इति४.५ ॥ ' रमितिर्वि-' इति ॥ ७ 'विर-' इति४ ॥ ८द्र. अम. क्षीर. १ । १ ६५ ॥ इति टीकासर्वस्वे १ । १ । ६५ ॥ पृ. ४८ ॥। १२. १ प्रतौ नास्ति ॥ १३ द्र. पदचन्द्रिका, भा-१, श्री ६०, पृ. ८६ ॥ १४ 'जसु मोक्षणे' इति क्षीरतरङ्गिण्यादयः ॥ १५. -स्र-' इति३ ॥ १६. तुलनीयोऽमरकोषः ३ ।१ ।८२ ॥ १७ त्वं' इति१.२.३ ॥ १८. ' क्तः' इति३ ॥ १९. तुलनीयोऽमरकोषः ३ । १ १७५ ॥ २०. संहि-' इति, 'संहन-' इति५ ॥ २१. मुद्रितामरकोशक्षीरस्वामिकृतटीकायाम्- "संहतोऽच्छिद्रः" इति दृश्यते ॥ २२. 'वेझ' इति१.२ ॥ २३. न्तपातं ' इति३ ॥
For Private & Personal Use Only
पृ. ३२९ ॥ ६.
११. '-करः '
www.jainelibrary.org