________________
६७४
स्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य " [ कुमारसम्भवम्, सर्गः - १, श्रो- ४२ ] इति कुमारसम्भवः । " बन्धूरबन्धुरौ रम्ये नग्ने (नम्रे) हंसे तु बन्धुरः "[]इ रभसः । २ उन्नतं च तदुपाधिवशादीषन्नतम् उन्नतानतम् । द्वे उन्नतानतस्य । 'ढाल' इति भाषा ॥
स्थपुटं विषन्नम् ।
१ तिष्ठति स्थपुटम्, पृषोदरादिः । २ विषमं च तदुन्नतं च विषमोन्नतम् | "निष्कन्दामरविन्दिनीं स्थपुटितोद्देशाङ्कशेरुस्थलीम् " [] इति खण्डप्रशस्तिः १० 'अखडवषडा' इति ख्यातस्य
द्वे
अन्यदन्यतरद् भिन्नं त्वमेकमितरंश्च तत् ॥१४६८॥
१ अनिति अन्यत् । २ बहूनां मध्येऽन्यद् अन्यतरत् । ३ भिद्यते भिन्नम् । निष्ठान्तः । ४ त्वम् । 'त्वक्ष (त्वक्षू) तनूकरणे ' (भ्वा.प.वे.), 'अन्येभ्योऽपि - '( ) इति डः । वृत्तौ त्वत्वच्छब्दौ सर्वादिष्वन्यार्थी । ५ एति एकम् । 'इण् गतौ ' ( अ.प.अ.), 'इण्भीका- '(उणा-३२३ ) इत्यादिना कन् । यथा- " इत्येके मन्यन्ते " [कौ. सू. २१७] इति । " प्रधानान्यासहायेषु सङ्ख्यायां चैक इष्यते " [ ]इति कात्यः ६ एति इतरैः । २० 'इण् गतौ ' ( अ.प.अ.), 'इण्पूभ्यां कित्' (हैमोणा-४३८) इति तर:, 'अद्ड् डतरादिभ्यः पञ्चभ्यः ७ । १ । २५ ॥ इत्यड् । एते भिन्नादन्ये सर्वनामसंज्ञाः वाच्यलिङ्गाः । षडन्यस्य । 'अनेरा' इति भाषा करम्बः कर्बरो मिश्रः सम्पृक्तः खचितः समाः ।
I
॥ १४६८ ॥
अभिधानचिन्तामणिनाममाला
॥
१ क्रियते करम्बः । 'डुकृञ् करणे' (त. उ. अ.), 'कृञश्च'(दशपाद्युणा-७ । १७ ॥ ) इत्यम्बच् । २ कूयते कबरः । ३ मिश्यते मिश्रः । 'मिश शब्दे ' (भ्वा.प.से.), 'स्फायितञ्चि- '(उणा - १७० ) इति बाहुलकाद् रक् । ४
Jain Education International
[ सामान्यकाण्डः-६
सम्पृच्यते सम्पृक्तः । पृची सम्पर्के' (रु.प.से.), क्तः । ५ खच्यते खचितः । 'खच बन्धने ' (भ्वा.आ.से.), कवर्ग- ३० द्वितीयादिः, 'निष्ठा'३ ।२ । १०२ ॥ इति क्तः । पञ्च मिश्रस्य । 'भेलर्ड' इति भाषा ॥
विविधस्तु बहुविधो नानारूपः पृथग्विधः ॥१४६९॥
१ विचित्रो विधः प्रकारोऽस्य विविधिः । २ बहु पृथक् च विधोऽस्य बहुविधः । ३ नाना अनेकप्रकारं रूपस्य नानारूपः । ४ पृथग् विधोऽस्य पृथग्विधः । बहुरूप- पृथग्रूप - नानाविधा अपि । चत्वारि बहुविधस्य
॥१४६९॥
त्वरितं सत्वरं तूर्णं शीघ्रं क्षिप्रं द्रुतं लघु । चपलाविलम्बिते च
१ त्वरते स्म त्वरितम् । 'ञित्वरा सम्भ्रमे ' (भ्वा. प.से.), क्तः । २ सह त्वरया वर्तते सत्वरम् । ३ त्वरते तूर्णम् । 'ञित्वरा सम्भ्रमे ' (भ्वा.प.से.), 'निष्ठा' ३ । २ । १०२ ॥ इति क्तः, 'रुष्यमत्वरसंघुषास्वनाम् '७ । २ । २८ ॥ इतीडभावः, ‘ज्वरत्वरस्त्रिव्यविमवामुपधायाश्च ६ ॥४॥२०॥ इति वकारस्योट्, 'रदाभ्याम् - '८।२ ।४२ ॥ इति नत्वम्, १' रषाभ्याम्- '८ ।४ ।१ ॥ इति णत्वम्) । ४ शिङ्खति व्यानोति शीघ्रम् । 'शिघि आघ्राणे' (भ्वा.प.से.), 'शीघ्रा - दयश्च'( ) इति रक्। ५ क्षिपति क्षिप्रम् । क्षिप प्रेरणे' ( तु.उ. अ.), 'स्फायितञ्चि- ' ( उणा - १७० ) इत्यादिना रक्, ५० 'ऋजेन्द्र-- ' ( उणा - १८६ ) इत्यादिना वा रक् । ६ द्रवति द्रुतम् । 'द्रु गतौ' (भ्वा.प.अ.), निष्ठा । ७ लङ्घ लघु । 'लघि गतौ (भ्वा.आ.से.), 'लङ्घिबंह्योर्नलोपश्च' ( उणा - २९) इति कुः । ८ चपति चपलम् । 'चप सान्त्वने' (भ्वा.प.से.), वृषादित्वात् कलच् । 'चुप मन्दायां गतौ' (भ्वा.प.से.), 'चुपेरच्चोपधायाः ' (उणा - १०८) इति कलप्रत्यये वा । ९ न विलम्बितम् अविलम्बितम् । एते धर्ममात्रे
१७
१. द्र. टीकासर्वस्वम्, भा-४, ३ १ ६७ ॥ पृ.३३ ॥ तत्र- " बन्धुरं बन्धुरे रम्ये नदे हंसे तु बन्धु ( रम् ? र: ) " इति दृश्यते ॥, पदचन्द्रिका, भा-३, विशेष्यनिघ्नवर्गः, श्रो- ६९, पृ. ६९ ॥, रामाश्रमी३ । १ । ६९ ॥, पृ. ५०२ ॥ २. न्दनी इति१, 'न्दनीं' इति३ ॥ ३ - क्षिति' इति५ ॥ ४. 'तक्षू त्वक्षू तनूकरणे' इति क्षीरतरङ्गिण्यादयः ॥ ५ अम. क्षीर. ३ । १ ८३ ॥ पृ. २५३ ॥ स्वोपज्ञटीका६ । १४६८ ॥ पृ.३२८ ॥ ६ ' -रत्' इति३ ॥ ७ 'इतर' इति३ ॥ ८ ' - माम्' इति४ ॥ ९. 'मिश मश शब्दे रोषकृते च' इति क्षीरतरङ्गिण्यादयः ॥ १०. 'कच बन्धने' इत्यत्र स्वामिनोक्तम्- "खच इति लौकिकोऽस्ति" इति, क्षीर. पृ. ३७ ॥ ११. ' - लौ' इति३.४ ॥ १२. तुलनीयोऽमरकोषः ३ । १ । ९३ ।। १३. ५ प्रतौ नास्ति ॥ १४. मस्य' इति इति १.२ ॥ १५. श्रि-' इति१.२.४.५ ॥ १६. कोष्ठान्तर्गतपाठः २प्रतौ नास्ति ॥ इत्यादिदण्डात्मकोऽयं धातुः ॥
१७. 'ककि'
For Private & Personal Use Only
४०
www.jainelibrary.org