________________
१४३६-१४४१ ]
एण्य:'(उणा-३७८) इत्येण्यः । ७ प्रव्रियते प्रवरम् । प्रपूर्वः ‘वृञ् वरणे’(स्वा.उ.से.), 'ऋदोरप्’३।३१५७॥ । ८ पुरो गच्छति पुरोगम् । 'गम्लृ गतौ ' (भ्वा.प.अ.), 'अन्यत्राऽपि दृश्यते ' (वा ३ ।२ । ४८ ॥ ) इति डः । ९ नास्त्युत्तरमस्माद् अनुत्तरम् । १० प्रकृटमग्रं हरति प्राग्रहरम् । पचाद्यच् । ११ प्रकृष्टो वेकः पृथक्त्वमस्य प्रवेकम् । १२ प्रकृष्टं धनं धारणस्थानस्य प्रधानम् । आविष्टलिङ्गम्, अजहत्क्लीबलिङ्गमित्यर्थः । यथा- "दूत्याय दैत्यारिपतेः प्रवृत्तों द्विषां निषेद्धा निपधप्रधानम् "[ नैषधीयचरितम्, सर्गः - ६, १० श्री - १ ] इति श्रीहर्पः । १३ अग्रे सरति अग्रेसरम् । 'सृ गतौ ' (भ्वा.प.अ.), 'पुरोऽग्रतोऽग्रेषु सर्तेः '३ ।२ । १८ ॥ इति ट: । १४ अतिशयेनोत्प्रकाशं ताम्यत्याकाङ्क्षति उत्तमम् । उत्पूर्वः 'तमु काङ्क्षायाम् ' (दि.प.से.), पचाद्यच् । अतिशयेनोद्गतमिति वा । प्रकृष्टे तमप् । १५ अगति अग्रम् । 'अगं गतौ ' (भ्वा.प.से.), 'ऋज्रेन्द्रा-' (उणा-१८६) इति साधुः ॥१४३८॥ १६ ग्रामं नयति ग्रामणी: I 'णीञ् प्रापणे' (भ्वा.उ. अ.), 'सत्सूद्विष- '३ ।२ ६१ ॥ इत्यादिना क्विप् । १७ एवम् अग्रणीः । एतौ सेनानीवत् । १८
अग्रे भवम् अग्रिमम् । 'अग्रपश्चादिमन् (-ड्डिमच्) '(वा२० ४।३।२३ ।। ) । १९ जातौ साधु जात्यम् । 'तत्र साधुः ' ४ । ४ । ९८ ।। इति यत् । २० अग्रे साधु अग्ग्रम् | 'तत्र साधु [ : ] ४४ ॥९८ ॥ इति यत् । २१ नाऽस्त्युत्तमः श्रेष्ठोऽस्माद् अनुत्तमम् । २२ अनवरार्धे मुख्यभागे भवम् अनवरार्ध्यम् । यद्वाऽवरस्मिन्नर्थे भागे भवोऽवरार्थ्यो जघन्यः, ततो नञ्समासेऽनवरार्ध्यम् । 'परावर- '४।३।५ ।। इति यत् । २३ व्रियते वरम्, पुंक्ली । अन्ये तु वरं वाच्यलिङ्गमाहुः । ‘वृञ् वरणे ' ( स्वा.उ.से.), 'ऋदोरप् ' ३।३१५७ ॥ । २४ प्रतिष्ठते प्रष्ठम् । 'ष्ठा गतिनिवृत्तौ ' (भ्वा.प.अ.), 'प्रष्ठोऽग्रगामिनि ' ८ । ३ ।९२ ॥ इति षः । २५ ३० परार्धे भवं परार्ध्यम् । 'परावर - ४ | ३ |५ ॥ इति यत् । २६ पिपर्ति परम् । ' पालनपूरणयो: ' (जु.प.से.), पचाद्यच् । एते वाच्यलिङ्गाः । षड्विंशतिर्मुख्यस्य ॥
व्युत्पत्तिरत्नाकरकलिता
Jain Education International
६६१
श्रेयस
तु
श्रेष्ठसत्तमे पुष्कलवत् ॥१४३९॥
१ अतिशयेन प्रशस्यं श्रेयः । अतिशायने ईयसुन् 'प्रशस्यस्य श्र: '५ । ३ । ६० ॥ इति श्रादेशः, तत्र । २ अतिशयेन प्रशस्यं श्रेष्ठम् । इष्ठनि प्रशस्यस्य श्रः । ३ अतिशयेन सत् सत्तमम् । अतिशायिने (-यने) तमप् । ४ पुष्णाति पुष्कलम् । 'पुषः कलन्- ' ( दशपाद्युणा-८ ।११८ ॥ ) इति कलन् । एते चत्वारोऽपि वाच्यलिङ्गाः । चत्वारि अतिश्रेष्ठस्य ॥१४३९ ॥
९. धान्यं' इति४.५ ॥ २. ' - त्तौ' इति३.५ ॥ ३ ' धः' इति३.५ ॥ अग कुटिलायां गतौ' इति क्षीरतरङ्गिण्यादयः ॥ सि. कौमुदीस्थः ॥ १०. ' -तिमु-' इति३.४.५ ॥ इति४ ॥ १५. द्वित इति३ ॥ १६. ज्जित' इति३ ॥
४ 'रः' इति३ ॥ ५ 'मः' इति३ ॥ ६ 'अगि' इति३ ॥ 'अक ८ ' - णिः' इति५ ॥ ९ ' अग्रपश्चाड्डिमच्' इति काशिकास्थपाठः, 'अग्रादिपश्चाडिमच्' इति ११. ' - यिने' इति २.३.४.५ ॥ १२. ' षेः' इति३ ॥ १३. 'गो-' इति३. ४ । १४ 'आ- '
स्युरुत्तरपदे व्याघ्रपुङ्खैवर्षभकुञ्जराः । सिंहशार्दूलनागाद्यास्तल्लजश्च मतल्लिका ।१४४०। मचर्चिका प्रकाण्डोद्धौ प्रशस्यार्थप्रकाशकाः ।
१-१२ व्याघ्रादयः शब्दा उत्तरपदे प्रयुज्यमानाः प्रशस्यस्याऽर्थस्य प्रकाशकाः प्रशंसाद्योतकाः स्युरित्यर्थः । यथा- पुरुषो व्याघ्र इव पुरुषव्याघ्रः । 'उपमितं व्याघ्रादिभिः - २ ।१ ५६ ॥ इति समासः । एवं पुरुषपुङ्गवः । "गौवृष:, पुमांश्चासौ गौश्चेति । 'गोरतद्धितलुकि '५ ।४ ।९२ ॥ इति टच्, पुङ्गवः, पुरुषवृषभ इत्यर्थ: "[ पदचन्द्रिका, भा-३, विशेष्यनिघ्नवर्गः, श्रो-५९ ] इति मिश्राः । पुरुषर्षभः, पुरुष - ५० सिंह:, पुरुषशार्दूलः । सर्वत्र 'उपमितं व्याघ्रादिभिः - २ ।१ । ५६ ॥ इति समासः । अश्वश्चासौ कुञ्जरश्च अश्वकुञ्जरः, 'गौश्चासौ नागश्च गोनागः, आदेर्गोवृन्दारकः । एषु 'वृन्दा - रकनागकुञ्जरै: '२ ।१ ।६२ ॥ इति समासः । गौश्चासौ तल्लजश्च गोतल्लजः, गोमतल्लिकेत्यादि । एषु 'पोटायुवति - ' २ ।१ ६५ ॥ इत्यादिना प्रशंसारूढत्वात् समासः । तल्ले अखातसरसि जातस्तल्लजः | 'सप्तम्यां जनेर्ड : '३ ।२ । ९७ ॥ इति डः । 'इवे प्रतिकृतौ '५ । ३ । ९६ ॥ इति कनि तल्लजकोऽपि । तल्लज्ज इति द्विजकारवानपि तदा लज्जत इति लज्ज: । 'ओलस्जी व्रीडने ' ( तु.आ.से.), अच् । वुलि लज्जकोऽपि । मया लक्ष्म्या तल्लातीति मतल्लिका । 'कुशिक - '( ) इतीके निपात्यते ॥१४४० ॥
१४
४०
For Private & Personal Use Only
६०
www.jainelibrary.org