________________
६६०
२०
१ उज्ज्वलति उज्ज्वलम् । 'ज्वल दीप्तौ' सम्मुखीनमभिर्मुखम् (भ्वा.प.से.), पचाद्यच् ॥ १४३५ ॥ २ विगतो मलोऽस्माद् विमलम् । ३ विशीयते विशदम् । 'शद्लृ शताने ' (भ्वा. तु.अ.से. प.), घञर्थे कः । ४ विशेषेण इन्धे वीध्रम् । 'ञिइन्धी दीप्तौ ' (रु.आ.से.), 'स्फायितञ्चि- ' ( उणा - १७० ) इति रक्, [ यद्वा ] ' - इन्धेः ' ( उणा - १८४ ) इति रक्यनुनासिकलोपः । ५ अवदीयते अवदातम् । 'दैप् शोधने' (भ्वा.प.अ.), 'निष्ठा'३ । २ । १०२ ॥ आङ्पूर्वः । ६ 'विल संवरणे' (तु.प.से.), 'इगुपध- '३ । १ । १३५ ॥ इति कः आवि१० लम्, न आविलम् अनाविलम् । ७ विशुद्धयति स्म विशुद्धम् । 'शुन्धं शुद्धौ ' (भ्वा.प.से.), 'निष्ठा'३ ।२ ।१०२ ।। इति क्तः ' ८ शोचति निर्मलीभवति शुचिं । शुचिनैर्मल्यार्थोऽत्र । ' इगुपधात् कित्' ( उणा - ५५९ ) इतीन् । अष्टौ स्वभावनिर्मलवस्तुनः ॥
अभिधानचिन्तामणिनाममाला
चौक्षं तु निः शोध्यमनवस्करम् ॥१४३६॥ १ चुक्ष्यते चोक्षम् । चुक्षधातोर्घञ् । २ निष्क्रान्तं शोध्यं क्षालनीयमस्माद् निः शोध्यम् । ३ नास्त्यवस्करो मलमत्रेति अनवस्करम् । त्रीणि 'चोखउँ वस्तु' इति भाषायाः ॥१४३६॥
निर्णिक्तं शोधितं मृष्टं धौतं क्षालितमित्यपि ।
१ निर्णिज्यते स्म निर्णिक्तम् । 'णिजिर् शौचपृथग्भावयो:'(जु.उ.अ.), निर्पूर्वः, 'निष्ठा'३।२।१०२ ॥ इति क्तः, 'उपसर्गात् - '८ ।४ । १४ ॥ इति णत्वम् । २ शुद्धयते स्म शोधितम् । 'शुन्धं शुद्धौ ' (भ्वा.प.से.), 'निष्ठा'३ ।२ ।१०२ ॥ इति कः । ३ मृज्यते स्म मृष्टम् । 'मृजूष् शुद्धौ ' ( अ.प.से.), 'निष्ठा' ३ । २ । १०२ ॥, ' व्रश्चभ्रस्ज - ८ २ १३६ ॥ इति षत्वम् । ४ धाव्यते स्म धौतम् । 'धावु गतिशुद्धयोः '(भ्वा.उ.से.), 'निष्ठा' ३ । २ १०२ ॥ उदितो वा ७ । ३ । ५६ ॥ इतीविकल्पित्वाद् 'यस्य विभाषा ७ । २ । १५ ॥ इत्यनिट्त्वम्, 'च्छ्वोः शूट्३० ६ ४ १९ ॥ इत्यूट्, 'एत्येधत्यूट्सु '६ । १ ।८९ ॥ इति वृद्धिः । ५ क्षाल्यते स्म क्षालितम् । 'क्षल शौचकर्मणि' (चु.उ.से.), णिजन्तः, 'निष्ठा'३ । २ । १०२ ॥ । पञ्च धौतस्य ॥
J
Jain Education International
For Private
१ सम्मुखं दृश्यतेऽस्मिन् सम्मुखीनम्, आदर्शादिः, अन्यत्र तूपचारात्, यथा- " रुरोध सम्मुखीनो हि जयो रन्ध्रप्रहारिणाम् ''[रघुवंशम्, सर्गः - १५, श्लो- १७]इति । २ अभिव्याप्तं मुखेन अभिमुखम् । यथा- "व्याघ्रानभीरभिमुखोत्पतितान् गुहाभ्यः "[ रघुवंशम्, सर्ग: ९, श्री६३ ] इति रघुः । द्वे सम्मुखस्य ॥
[ सामान्यकाण्डः -६
पराचीनं पराङ्मुखम् ॥१४३७॥ ४०
१ पराञ्चति पराक्, परागेव पराचीनम् । 'विभाषाञ्चेरदिस्त्रियाम् '५ ।४ ।८ ॥ इति स्वार्थे खः २ पराङ्मुखमस्य पराङ्मुखम् । "मर्त्येष्वास्थापराङ्मुखः ''[रघुवंशम्, सर्गः - १०, श्री - ४३] । द्वे पराङ्मुखस्य । 'ऊंध' इति भाषा ॥१४३७ ॥
मुख्यं प्रकृष्टं प्रमुखं प्रबर्ह वर्यं वरेण्यं प्रवरं पुरोगम् ।
अनुत्तरं प्राग्रहरं प्रवेकं
प्रधानमग्रेसरमुत्तमग्रे ॥१४३८ ।।
22
19
ग्रामण्यग्रण्यग्रिमजात्याऽग्र्यानुत्तमान्यनवरार्ध्यवरे ।
Personal Use Only
21
१. 'शुद्ध' इति१, 'शुध्' इति२.३, 'शुध' इति५ ॥ २. ' - चिः' इति१.२.३ । ३. उं' इति१.२.५ ॥ ४. 'ख्यातस्य' इति१२. २. 'भाषा' इति४.५ ॥ ५. ‘णिजिर् ('निजिर्' इति मैत्रेयमते) शौचपोषणयोः ' क्षीरतरङ्गिण्यादयः ॥ ६. 'निपू-' इति १.३ ॥ ७ णीम्' इति३॥ ८. 'उंधउ' इति३ ॥ ९ इतोऽग्रे २प्रतौ 'मुखं' इति दृश्यते ॥ १०. ' न्दो' इति५ ॥ ११.
१ प्रतौ न दृश्यते ॥ १२. 'ङ' इति२. ३, ' ' इति५ ॥
प्रष्ठपरापराणि
१ मुखमिव प्रधानभूतं मुख्यम् । शाखादित्वाद् यत् । २ प्रकृष्यते स्म प्रकृष्टम् । प्रपूर्वः 'कृष विलेखने' (भ्वा.प.अ., तु.उ.अ.), 'निष्ठा'३ ।२ ॥ १०२ ॥ इति क्तः । प्रकृष्टं मुखमारम्भोऽस्य प्रमुखम् । ४ प्रकृष्टो बर्हः परिच्छदस्य प्रबर्हम्। प्रबर्हत इति वा । 'बर्ह बल्ह प्राधान्ये' (भ्वा.आ.से.), पचाद्यच् । ५ वरणीयं वर्य्यम् । ' ईप्सायाम् ' ( चु.उ.से.), चुरादावदन्तः, 'अचो यत् ३ । १ १९७ ॥ इति यत् । प्रायेणाऽयमुत्तरपदस्थ एव दृश्यते । ६ व्रियते वरेण्यम् । ‘वृङ् सम्भक्तौ ' (क्र्या.उ.से.), क्र्यादिः, 'वृञ
६०
५०
www.jainelibrary.org