________________
२०
६५८
नुवृत्तिः, पक्षेऽच्" [ काशिकावृत्तिः ३ । ३ । ४९ ॥ ] इति जयादित्यः । ४ उत्सेधनम् उत्सेधः, पुंक्ली. । ' षिधू शास्त्रे माङ्गल्ये च'(भ्वा.प.से.), भावे घञ् । ५ उदयते उदयः । उद्पूर्वः 'अय गतौ ' (भ्वा.आ.से.), अच् । पञ्च 'उंचपणउ' इति ख्यातस्य
||
अभिधानचिन्तामणिनाममाला
परिणाहो विशालता ॥१४३१॥
१ परिनह्यतेऽनेन परिणाहः । 'नह ( णह ) बन्धने' (दि.उ.अ.), परिपूर्वः, करणे घञ् । २ विशालस्य भावो विशालता । द्वे परिणाहस्य । 'पहिलपणउ' इति भाषा १० ॥१४३१ ॥
प्रपञ्चाभोगविस्तारव्यासाः
१ प्रपञ्चनं प्रपञ्चः । 'पचि विस्तारे' '(चु.उ.से.), भावे घञर्थे कः । २ आभुज्यतेऽनेन आभोग । [' भुज पालनाभ्यवहारयोः '(रु.प.अ.)], करणे घञ्, 'चजो:७।३।५२ ॥ इत्यादिना कुत्वम् । ३ विस्तरणं विस्तारः । घञ् 'प्रथने वावशब्दे '३ | ३ | ३३ ॥ इत्यनेन, 'अचोऽञ्णिति' ७२ ११५ ॥ इति वृद्धि:, 'उरण् रपरः १ ॥१ ॥ ५१ ॥ 1 ४ व्यस्यते व्यासः । व्याङ्पूर्वः, 'असु क्षेपणे' (दि.प.से.), घञ् । चत्वारि विस्तारस्य ॥
शब्दे सविस्तरः । १ स प्रपञ्चः शब्द" शब्दविषये," विस्तीर्यते विस्तरः । 'प्रथने वावशब्दे ' ३ | ३ | ३३ ॥ अत्र सूत्रे 'अवशब्दे (अशब्दे)' इत्युक्तत्वाच्छब्दविषये प्रपञ्चे 'ऋदोरप् '३ ॥३ ॥ ५७ ॥ इत्यप् । एकं शब्दविस्तरस्य ॥ समासस्तु समाहारः संक्षेपः सङ्ग्रहोऽपि च
॥१४३२ ॥
१ समसनं समासः । सम्पूर्वः 'असु क्षेपणे' (दि.प.से.), घञ् । २ समाहरणं समाहारः । भावे घञ् । ३ [ संक्षेपणं संक्षेपः । भावे घञ् ] । ४ सङ्ग्रहणं स ग्रहः ।
Jain Education International
[सामान्यकाण्डः-६
समो (सम्पूर्वः ' ग्रह उपादाने' (क्र्या.उ.से.) ), 'ग्रहवृदृ- ३० '३ । ३ । ५८ ॥ इत्यादिनाऽप्प्रत्ययः । चत्वारि संक्षेपस्य ॥१४३२ ॥ सर्वं समस्तमन्यूनं समग्रं सकलं समम् । विश्वाशैषाखण्डकृत्स्नन्यक्षाणि निखिलाखिले
(
॥१४३३ ॥ १ सरति सर्वम् । 'सृ गतौ ' (भ्वा.प.से.), 'सर्तेर्व: ' ) इति वः । यद्वा सर्ते: 'सर्वनिघृष्वरिष्वलिष्व(लष्व) शिवपद्वप्रह्नेष्वा अतन्त्रे' (उणा - १५१ ) इति साधुः । 'अर्व शर्व" षर्व" हिंसायाम् ' (भ्वा.प.से.), पचाद्यचि वा । २ समस्यत एकीक्रियते समस्तम् । सम्पूर्वाद् 'असु क्षेपणे' (दि.प.से.), अस्माद् भावे क्तः 1 ३ नास्ति न्यूनमस्य ४० अन्यूनम् । अनूनमपि। 'ऊन परिहाणे' (चु.उ.से.), चुरादिः, ऊनयति ऊनम्, पचाद्यच्, न ऊनमनूनम् । ४ सङ्गतमग्रमस्य समग्रम् । समं ग्रसत इति वा । 'अन्येभ्योऽपि - ' (वा - ३ १२ १४८ II) इति डः । ५ सह कलाभिर्भागैर्वर्तते सकलम् । ६ समति समम् । 'षम ष्टम वैक्लव्ये '(भ्वा. प.से.), अच् । अयं सर्वविश्वशब्दवत् सर्वादिः । यथा" सूर्यः समेषां समः " [स.कं. १ ।११२ ॥ ] इत्यादिप्रयोगः । ७ विशति विश्वम् । 'विश प्रवेशने ' ( तु.प.अ.), 'अशूप्रुषिलटिकटिखणिखटिविशिभ्यः क्वन्' ' (उणा - १४९) । ८ न विद्यते शेषोऽस्य अशेषम् । निर्गतं शेषाद् निः शेषमपि । ५० ९ न खण्डम् अखण्डम् । १० कीर्त्यते वेष्ट्यतेऽनेन कृत्स्नम् । 'कृती वेष्टने ' (रु.प.से.), 'कृती छेदने ' (तु. प.से.) वा, 'कृत्यशि (शू) भ्यां क्सन् ( क्स्नः ) ' (उणा२९७) इति क्सन्(क्स्नः), बाहुलकादिडभावश्च । ११ न्यक्ष्णोति व्याप्नोति न्यक्षम् । निपूर्वः 'अक्ष (अक्षू) व्याप्तौ सङ्घाते चे' (भ्वा.प.से.), पचाद्यच् । १२ खं लाति खिलम् । पृषोदरादित्वादकारस्येकारः । खिलं शून्यम्, निवृत्तं खिलमस्माद् निखिलम् । १३ अविद्यमानं खिलमत्र अखिलम् । त्रयोदश सर्वस्य ॥१४३३॥
१. " कथं 'पतनान्ताः समुच्छ्रयाः ' ? वक्ष्यमाणं विभाषाग्रहणमिह सिंहावलोकितन्यायेन सम्बध्यते" इति काशिकावृत्तौ भा-३, ३।३४९ ॥ पृ.४६ ॥
२. 'ति' इति ॥ ३. 'उं' इति१.२, 'णौ' इति४ ॥ ४ तुलनीयोऽमरकोषः २ ।६ ।११४ ॥ ५. 'पिहणपणउ' इति३, 'णौ' इति४, 'णुं' इति५ ॥
६. 'ख्यातस्य' इति ॥ ७ ' च' इति५ ॥ ८ 'पचि विस्तारवचने' इति स्वामिसायणौ, 'पचि विस्तारे वचने' इति मैत्रेयः ।। ९. ' -सते' इति३ || यः' इति१ ॥ १३. 'सम-' इति३ ॥ १४. कोष्ठान्तर्गतपाठः ३ प्रतिस्थ
१६.
१०. ' - स्तारः' इति३ ॥ ११. १.२.४.५ प्रतिषु नास्ति ॥ १२. पञ्चपाद्युणादिगणस्थश्च ॥ १५. 'खर्व' इति१, 'सर्व' इति३ ॥ 'श' इति१, क्षीरतरङ्गिण्यां न दृश्यते ॥ १७. 'अशु' इति३.४.५ ॥ १८. ' यन्ति' इति५ ॥ १९. 'अवैक्लव्ये' इति स्वामी ॥ २० दा' इति२ ॥ २१. 'अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन्' इति पञ्चपाद्याम्, 'अशूनुषिप्लुषिलटिकणिखटिविशिभ्यः क्वन् ' ( ८ ।१२५ ॥ ) इति दशपादाद्याम् ॥ २२. 'अक्षू व्याप्तौ ' इत्येव सायणः ॥ २३. 'निर्वृ-' इति१.२.४.५ ॥
For Private & Personal Use Only
www.jainelibrary.org