________________
२०
२८
(भ्वा.प.से.), अर्त्ति-सृ-धृ-धम्यस्यश्यवितृभ्योऽनिः' (उणा२५९) इत्यनि:, ' सार्वधातुकार्धधातुकयोः ७।३ १८४ ॥ इति गुणः; पुंस्त्रीलिङ्गः | ११ गृध्यते अभिकाङ्क्ष्यते लोकैरिति गभस्तिः । 'गृधु अभिकाङ्क्षायाम्' (दि.प.से.) 'गृधेर्गभ् च' (हैमोणादिः ६६१)इत्यस्तिक्प्रत्ययो गृधेर्गभादेशश्च । यद्वा गोशब्दपूर्वादन्तभूतण्यर्थात्, 'भस भक्षण (भर्त्सन) दीप्त्यो: ' (जु.प.से.) अस्मात् 'क्तिच(क्तिच्)क्तौ च संज्ञायाम् ' ३ | ३ | १७४ ॥ इति क्तिंचीडभावे पृषोदरादित्वाद् गोशब्दस्य अकारः । गां भूमिं बभस्ति दीपयति गभस्तिः । यद्वा गवि स्वर्गे दीप्यते । यद्वा बभस्ति रत्तिकर्माऽत्र । १० गामुदकं भौमरसलक्षणं बभस्ति अत्तीति गभस्तिः । यद्वा 'गट् च' ( ) इति भोजसूत्रेण तिप्रत्यय:, धातोर्गडागमश्च । बभस्ति दीप्यत इति गभस्तिरिति । १२ अरुणः सारथिरस्येति अरुणः । 'अर्शआदिभ्योऽच्’५।२।१२७ ॥ इत्यच् । अरुणकान्तित्वादु वा अरुणः । १३ भाति दीप्यते भानुः ।' भा दीप्तौ ' ( अ.प.अ.), 'दाभाभ्यां नुः ' ( उणा - ३१२ ) इति नुः । १४-१५ नभोऽहमणिः इति, नभश्च अहश्च नभोऽह्री, नभोऽहोभ्यां मणिः नभोऽहमणि:, तेन नभसि मणिरिव नभोमणिः । अह्नो अह्नि वा मणिरिव अहमणिः । यौगिकत्वाद् व्योमरत्नम् दिनरत्नमित्यादिः । दिवो मणिरिव द्युमणिः । दिवि मणि: [ इव] ' [ अम. क्षीर १ | ३ | ३१ ॥ ] इति तु क्षीरस्वामी । १६ सरति व्योममार्गेण, सुवति प्रेरयत्यन्धकारं
सूर्य: । 'सृ गतौ' (भ्वा.प.अ.) अस्मात् कर्तरि क्यप्, उकारोन्तादेशश्च निपात्यते, तत्र रपरत्वे 'हलि च '८ ।३ १७७ ॥ इति दीर्घः । 'षूप्रेरणे' (तु.प.से.) अस्माद् वा, 'राजसूय-सूर्य- मृषोद्य- रुच्यकुप्य-कृष्ट - पच्याव्यथाः ३ । १ । ११४ ॥ इति सूत्रेण साधुः । सुवति प्रेरयति कर्मणि लोकानिति वा व्युत्पत्तिः । तत्रोदिते लोकानां कर्मसु प्रवृत्तेः सूर एव वा सूर्य: । 'नवसूरयवा ' (') इत्यादिना यत् । १७ दैवैर्मानवैश्च अर्च्यते पूज्यते अर्कः । 'अर्च पूजायाम्' (भ्वा.प.से.), कृ-दा-धा-रार्चि- कलिभ्यः कः' (उणा - ३२० ) इति कप्रत्ययः, 'चोः कुः ' ८ |२| ३० ॥ इति धातोः कवर्गोऽन्तादेशः, ['झरो झरि - ८ ४ ६५ ॥ इति कलोपः ] । अर्च्यते ऽसाविति कर्मणि घञि वा, 'चजो: ' - ७।३ १५२ ॥ इति कुत्वम् । १८ किरति विक्षिपति तमांसीति किरणः । कृणाति तम इति वा । 'कृ विक्षेपे ' ( तु.प.से.), तुदादिः, 'कृ हिंसायाम् ' (क्र्या.प.से.), क्र्यादिः, आभ्यां 'कृघृ(पृ)वृजिमन्दिनिधाञ्भ्य: क्यु : ' ( उणा - २३९) इति . क्युः । १९ भज्यते आश्रीयतेऽनेन कृत्वा आलोको जनैरिति भगः । 'भज सेवायाम्' (भ्वा.उ.अ.),करणेघञ्, 'चजो :- ७३ ५२ ॥ इति कुत्वम् ।
३०
अभिधानचिन्तामणिनाममाला
Jain Education International
[ देवकाण्डः-२
२० ग्रहान् पुष्णाति ग्रहपुषः ।' पुष पुष्टौ ' (क्र्या.प.से), मूलविभुजादित्वात् कः । आदित्यो हि सुषुम्णाभिर्नाडिभिर्ग्रहान् पुष्णातीति । यद् व्याडि:
"
१. ' - धम्यश्यवि - ' इत्युणादिगणे ॥ २. ' - भ्योऽणिरित्यणिः' इति २ ॥ ३. मूलं मृग्यम् ॥ ४. द्र. स्वोपज्ञटीका. २।९५ ॥ पृ. २० ॥ ५. ' चैका- ' इति ३ ॥ ६. 'पौष' इति १ । ७. 'विवस् ' इति ३.४ ॥
For Private
'सुषुम्णाद्याश्च नाड्योऽस्य पुष्णन्ति सततं ग्रहान् ॥[] ४० इति । २१ वर्षेण कृत्वा लोकान् पुष्णाति ऋतुभेदात् पूषति वर्धते वा पूषा । पूषणौ, पूषणः इत्यादि । 'पुष पुष्टौ ' (क्र्या.प.से.), क्र्यादिः, 'पुष पुष्टौ ' (भ्वा.प.से), भ्वादिर्वा, 'श्वन्नुक्षन्- पूषन्(उणा - १५७) इत्यादिना साधुः । यद् व्याडि:
५०
" ऋतुभेदात् पुनस्तस्यातिरिच्यन्ते च रश्मयः । शतानि द्वादश मधौ त्रयोदश च माधवे ॥२॥ चतुर्दश पुनर्ज्येष्ठे नभोनभस्ययोस्तथा । पञ्चदशैव त्वाषाढे षोडशैव तथाश्विने ॥३॥ कार्तिकिके त्वेकादश शतान्येवं तपस्यपि । मार्गे च दश सार्द्धानि शतान्येवं च फाल्गुने ॥४॥ "पोष एव परं मासि सहस्रं किरणा रवेः ॥" ["] इति । २२ पतति गच्छति व्योम्नि पतङ्गः ।' पत्लृ गतौ ' (भ्वा.प.से.), 'पतेरङ्गच्-'(उणा-११६ ) इत्यङ्गच् । २३ खे आकाशे गच्छति खगः । 'गम्लृ गतौ' (भ्वा.प.अ.), 'अन्यत्रापि दृश्यते ' ( वा३ ।२ ।४८ ॥ ) इति ङः । २४ मृतमण्डमस्येति मृताण्ड : ऋषिस्तस्यापत्यं मार्ताण्डः । 'ऋष्यन्धकवृष्णि- '४।१ ।११४ ॥ इत्यानिाऽण् । 'मृतमण्डमजायत "[ ] इति श्रुतेः । मार्ताण्डो दीर्घमध्यः ।" अथ मार्तण्डमार्ताण्डौ''[ ] इति नामनिधानम् । शब्दार्णवे मार्कण्डोऽपि । २५-२६ यमुनायाः कृतान्तस्य च जनक:, तेन यमुनाजनकः, कृतान्तजनकः । यौगिकत्वात् कालिन्दीसूः, यमसूरित्यादयोऽपि । ६० २७ प्रद्योतते प्रद्योतन: । 'द्युत दीप्तौ ' (भ्वा.आ.से.), नन्द्यादित्वाल्लयुः, 'युवोरनाकौ' ७।१ ।१ ॥ इत्यनादेशः । २८ तापयत्युष्णतेजोभिरिति तापनः । ‘तप सन्तापे' (भ्वा.प.अ.) अस्माद् हेतुमण्णिजन्ताद् 'अन्यत्रापि बहुलम् ' ( ) इति युच् ॥ ९५ ॥ २९ बध्नाति तिमिरमिति ब्रध्नः । 'बन्ध बन्धेन'(क्र्या.प.अ.), 'बन्धेर्ब्रधिबुधी च' (उणा२८५) इति नक्,' अनिदिताम्- '६।४।२४ ॥ इति न्लोपः । ३० हन्ति तमांसि हन्ति गच्छति वा विहायसीति हंसः । 'हन हिंसागत्योः ' ( अ.प.अ.), 'वृतृवदिहनिकमिकषियुमुचिभ्यः सः ' ( उणा३४२) इति सः । ३१ चित्रा नानाप्रकारा भानव: किरणा अस्येति चित्रभानुः । ३२ विवस्ते विविधप्रकारेणाच्छादयति परतेजांसीति ७० विवँ: । 'वस आच्छादने ' (अ.आ.से), अस्माद् विपूर्वात् क्विप् ।
Personal Use Only
www.jainelibrary.org