________________
८९-९८ ]
कल्पभवाः कल्पातीताश्च । इन्द्रादिदशतया कल्पनात् कल्पः समुदाय: सन्निवेशः, पृथ्वीप्रस्तार इति यावत्, तत्र भवाः कल्पभवा: द्वादश । ते चामी ॥ ९२ ॥ १-१२ सुधर्मा देवसभाऽत्रास्तीति सौधर्मः । ' तदस्मिन्नस्तीति देशे- '४ १२ १६७ ॥ इत्यण् । तत्र जाता: सौधर्मजाः । ईशानेन्द्रस्य निवास: ऐशानः कल्पः, तत्र जाता ऐशानजाः । एवं सनत्कुमारादिकल्पेषु जाताः सनत्कुमारजाः, माहेन्द्रजाः । ब्रह्मा ब्रह्मलोकः, तत्र' जाताः ब्रह्मजाः । लान्तकजाः, महाशुक्रजाः, सहस्त्रारजाः, आनतजाः, प्राणतजाः, आरणजा:, अच्युतजाः । सर्वत्र 'जनी प्रादुर्भावे ' (दि.आ.से.), अस्मात् 'सप्तम्यां १० जनेर्ड: '३ ।२ ।९७ ।। अत्र आर्यायां ब्र-प्राक्षरयोः पूर्वी द्र-तौ
हादिसंयोगवर्जनाद् गुरू न भवतः ॥ ९३ ॥ सौधर्माद्यच्युतजान्तदेवानां सामान्येनैकं कल्पभवा वैमानिका इति । कल्पानतीताः कल्पातीताः, कल्पानतिक्रम्योपरि स्थिता इत्यर्थः । अत्र' द्वितीया श्रिता- '२ ।१ । २४ ॥ इत्यादिना समासः । नवेति नवसंख्याका इत्यर्थः । लोकपुरुषस्य ग्रीवाप्रदेशविनिविष्टा ग्रीवाभरणभूता ग्रैवेयकाः । ग्रीवाशब्दात् ' कुलकुक्षि- '८ ।२ ।९६ ॥ इति ढकं । नवग्रैवेयकोद्भवदेवानां सामान्येनैकं कल्पातीता वैमानिका इति । पञ्चेति पञ्चसंख्या अनुत्तराः । नास्त्युत्तर उत्कर्षवान् येभ्यस्तेऽनुत्तराः विजयवैजयन्तजयन्तापराजितसर्वार्थसिद्धनामानः । २० विजयादिपञ्चानामैकम् ॥ संग्रहमाह
व्युत्पत्तिरत्नाकरकलिता
निकायभेदादेवं स्युर्देवाः किल चतुर्विधाः ॥९४॥
एवम् उक्तप्रकारेण देवाः भवनपत्यादयः चतुर्विधाः चतुष्प्रकाराः निकायभेदाद् निकायो निवास उत्पादस्थानं तद्भेदात् । तथाहि भवनपतयोऽशीतिसहस्त्रोत्तरयोजनलक्षपिण्डायां रत्नप्रभायामूर्ध्वमधश्चैकैकं योजनसहस्रमपहाय तिष्ठन्ति । व्यन्तरास्तु तस्या एव रत्नप्रभाया उपरि यत्परित्यक्तं योजनसहस्रमेकं तस्याध ऊर्ध्वं चैकैकं योजनशतं विहाय मध्येऽष्टसु योजनशतेषु जायन्ते । ज्योतिष्कास्तु समभूतल भूभागात् सप्तशतानि नवत्युत्तराणि ३० योजनानामारुह्य दशाधिकयोजनशतपिण्डे नभोदेशे लोकान्तात् किञ्चिन्यूने जन्माssसादयन्ति । वैमानिकास्तु रज्जुमध्यार्द्धमधिरुह्याऽमुतः सौधर्मादिकल्पेषु वसन्ति । उक्तस्थानमन्तरेणान्यत्रैषामुत्पादो जन्म नास्तीति । निवासार्थोऽत्र निकायशब्दः सङ्घार्थो वा ॥९४॥
अथ देवविशेषनामान्याह
आदित्यः सर्वतार्यमा खरसहस्त्रोष्णांशुरंशू रविमर्तिण्डस्तरणिर्गभस्तिररुणो भानुर्नभोऽर्हर्मणि: ।
२७
सूर्योऽर्कः किरणो भृगो ग्रहपुषः पूषा पतङ्गः खगो, मार्ताण्डो यमुनाकृतान्तजनकःप्रद्योतनस्तापनः ।९५ । ब्रध्नो हंसंश्चित्रभानुर्विवस्वान् सूरस्त्वष्टा द्वादशात्मा च हेलिः । मित्रो ध्वान्तारातिरब्जांशुहस्तचक्राब्जाहबन्धिवः सप्तसप्तिः ॥ ९६ ॥ दिवादिना हर्दिवसप्रभाविभीभासः करः स्यान्महिरो विरोचनः । ग्रहाब्जिनींगोद्युपतिर्विकैर्तनो हरिः शुचीनो गगनाद् ध्वजाध्वगः ॥९७॥ हरिदश्वो जगत्कर्मैर्साक्षी भास्वान् विभावसुः । त्रयीतनुर्जगच्चक्षुस्तपनोऽरुणसारथिः ॥ ९८ ॥
Jain Education International
१. 'सौधर्मे' इति ४प्रतेः टिप्पणी ॥ २. 'ऐशाने' इति ४प्रतेः टिप्पणी ॥ ३. 'ब्रह्मणि' इति ४प्रतेः टिप्पणी ॥ ४. इतोऽग्रे १प्रतौ 'नाम' इति दृश्यते ॥ ५. 'ढक्' इति २.३.४ ॥ ६. सुदर्शन- सुप्रतिबद्ध - मनोरम-सर्वतोभद्र - सुविशाल-सुमनस- सौमनस- प्रियङ्कर-नन्दीकर इति नवग्रैवेयकाः ॥ ७. विग्रहे 'सूते ' इत्यभिष्टत्वादत्रादादेः ‘प्राणिगर्भविमोचने' इत्यर्थकः षूयातुर्युक्तः ॥ ८. 'गतिप्रापणयो:' इति स्वामिसायणौ ॥ ९. 'अम गत्यादिषु' इति क्षीरतङ्गिण्यादौ ॥ १०. 'द्विधा' इति ३.४ ॥
१ अदितेरपत्यम् आदित्यः । दित्यदित्या- '४/१८५॥ ५० इति ण्यः । इदं रौढिकम् । २ सूते प्रकाशं सविता । षूङ् प्रसवें'(दि.आ.वे.), तृच् । ३ ऋच्छति अर्यते वा अर्यमा । 'ॠ गतौ प्रापणे च ' (भ्वा.प.अ.), बाहुलकात् 'श्वन्नुक्षन्पूषन् - प्लीहन्- क्लेदन्- स्नेहन्-मूर्धन्-मज्जन्- [ अर्यमन्]विश्वप्सन् परिज्मन् ' ( उणा- १५७ ) इति साधुः । ४-६ खराः कठिनाः, सहस्रं च सहस्रसंख्याकाः, उष्णाश्च अंशवो यस्य स खरसहस्रोष्णांशुः, तेन खरांशुः, सहस्त्रांशुः, उष्णांशुः । यौगिकत्वात् खररश्मिः, दशशतरश्मिः, उष्णरश्मिः, शीतेतरश्मिरित्यादयः । ७ अमते (अमति) गच्छति व्योममार्गेणेति अंशुः । 'अम गत्यादौं ' (भ्वा.प.से.) मृगय्वादयश्च' (उणा - ३७ ) इति ६० कुः, बाहुलकात् शुक्, शतालव्यः । " अथोडुबन्धुश्च भयङ्करे करे महौषधीनष्टकरांशुभे शुभे ॥''[ ] इति जानकीहरणयमकात् । ८ रूयते स्तूयते रविः । 'रु शब्दे ' ( अ.प.से.), 'अच इ: ' (उणा५७८ ) इति इ: । ९ मृतण्डस्याऽपत्यं मार्तण्ड: । 'ऋष्यन्धकवृष्णि - कुरुभ्यश्च ४ ११ ।११४ ॥ इत्यण् णित्त्वाद् वृद्धिः । " अण्डे द्विर्धा" कृते चार्त्तं दृष्ट्वा पितरमब्रवीत् । आर्त्तस्त्वं भव माण्डेति, मार्तण्डस्तेन संस्मृतः ॥ १ ॥ [ ]इति । १० तरन्त्यनेन संसारं तमो वेति तरणिः । 'तृ प्लवनतरणयोः '
४०
For Private Personal Use Only
www.jainelibrary.org