________________
१४०५-१४१० ]
१ बुक्क्यते बुक्कनं । 'बुक्क भेषणे ' ( चु.उ.से.), ल्युट् । २ भष्यते भषणम् । 'भष भर्त्सने ' (भ्वा.प.से.), ल्युट् । द्वे शुनः शब्दस्य ॥१४०७ ॥ पीडितानां तु कर्णतम्
१ व्याधिप्रहारादिभिः पीडितानां शब्दः कणनं कणितम् । 'कण आर्तस्वरे ' (भ्वा.प.से.), भावे क्तः मणितं रतकूजितम् ।
॥
१ रते सम्भोगे जम्पतीनां कूजितमव्यक्तशब्दों मणनं मणितम् । 'मण शब्दे ' (भ्वा.प.से.), भावे क्तः
१० प्रक्राणः प्रक्वणस्तन्त्र्याः
१ तन्त्री वीणास्नायुः, तस्या रवः प्रक्वणनं प्रक्वाणः | 'क्वण शब्दे' (भ्वा.प.से.), भावे घञ् । २ प्रक्वणनं प्रक्वणः । 'क्वणो वीणायां च '३ | ३ |६५ ॥ इत्यप् । तत्र वीणाग्रहणस्यैतदेव प्रयोजनं वीणादिविषयेऽन्योपसर्गाद् यथा स्यादिति । द्वे तन्त्रीशब्दस्य ॥
२०
व्युत्पत्तिरत्नाकरकलिता
मर्दलस्य तु गुन्देलः ॥१४०८॥ १ 'गुन्द' इति शब्द लाति गुन्दलः । एकं मर्द - लध्वनेः ॥ १४०८ ॥
क्षीर्जनं तु कीचकानाम्
१ क्षीज्यते क्षीजनम् । 'क्षीज अव्यक्ते शब्दे ' (भ्वा. प.से.), ल्युट् । एकं कीचकानां सच्छिद्रवंशानां ध्वनेः ॥ भेर्या नादस्तु दर्दुरः ।
१ दर्दुरिति शब्द राति दर्दुरः, रेफमध्यः । एकं भेरीध्वनेः ॥
तारोऽत्युच्चैर्ध्वनिः
१ तारयति स्वरं स्थानेभ्यः स्थानान्तरं नयति तारः । तरतेर्ण्यन्तात् पचाद्यच् । अतिशयेनोच्चैः शब्दस्यैकम् ॥
१. 'भा-' इति३ ॥ २. अणेत्यादिदण्डात्मकोऽयं धातुः शब्दार्थकः ॥ ५. 'मद्यते' इति३ ॥ ६ द्र. पदचन्द्रिका, भा-१, नाट्यवर्गः, श्रो- १७७, शब्दे काकली, ईषत्कलोऽस्याम् । कलति कलयतीति वा कलः ।" इति४ ॥ ९ 'डिव - ' इति १.३ ॥ १०. स्क-' इति१.३ ॥ ११. दृश्यते ॥ १४. द्र. स्वोपज्ञटीका६ । १४१० ॥ पृ. ३१६ ॥
द्र
Jain Education International
६४७
मन्द्रो गम्भीरः
१ मन्द्यते मध्यताराभ्यां मन्द्रः । 'मदि स्तुत्यादौ' (भ्वा.आ.से.), 'स्फायि-' (उणा - १७० ) इति रक् । मद्रो ३० निरनुस्वारोऽपि । एकं गम्भीरध्वनेः ॥
मधुरः कलः ॥ १४०९॥
१ कं सुखं लाति कलः । कलत इति वा । 'कल शब्दसङ्ख्यानयो: ' (भ्वा.आ.से.), अच् । “कलस्तु मधुरोऽव्यक्तः "[ हलायुधकोशः १ । १४० ] इति हलायुधः " अव्यक्ते मधुरे शब्दे "[ ] इति तट्टीका । एकं मधुरध्वनेः ॥१४०९ ॥
कार्कली तु कलः सूक्ष्मः
१ " कु ईषत् कलोऽस्यां काकली । 'ईषदर्थे च' ६ | ३ |१०५ ॥ इति कोः कादेशः, गौरादित्वाद् ङीष् " [] ४० इति स्वामी । कलीवत्, कलिः शब्द ईषदत्रेति काकलिः । 'कृदिकारात्- ' (गणसू- ४ ।१ । ४५ ।। ) इति ङीषि काकली । " ओषधिपद्धतिपक्षतिपङ्गिर्वर्तनिवासिवितर्दिपुरन्ध्रिः अङ्गुलिकाकलिशाविशरवारिस्तुंन्दितुरीयुधिदीधितिवर्ति: "[]इति शबरस्वामी । " साधूदितं काकलिभिः कुलीना "[] इत्यभिनन्दैः । “तस्मात् काकलीति गौरादिरिति स्वामिकलिङ्गादीनां प्रमादः ''[] इति तु कौमुदी । तृतीयस्वरान्तोऽपि काकलिर्बुद्धिवत् । यदाह - "निषादः काकलीसंज्ञो द्विः श्रुत्युत्कर्षणाद् भवेत्”[ ँ]। " शुष्काङ्गी घनचार्वाङ्ग्याः सुवाचः काली स्वरा [] इति त्रिविक्रमः । कलो मधुरः सूक्ष्मो- ५० sव्यक्तो यः शब्दः, तस्यैकम् ॥
एकतालो लयानुगः ।
I
१ एकः समस्तालो मानमस्य एकताल: " तालः कालक्रियामानम् "[ अमरकोषः १ १७ ।९ ॥ ] इत्यमरः । अभिन्नकालमानमित्यर्थः । २ लयोsन्यूनाधिक्येन श्रिष्टतालयो द्रुतादिर्वाद्यादीनामन्योन्यं सामर्थ्यमिति यावत् सोऽनुगोऽस्य लयानुगः, समन्वितलय इत्यर्थः । " समन्वि - तलयस्त्वेकताल: "[ अमरकोषः १ ॥७ ॥३ ॥ ] इत्यमरः । " सम
३' ते शब्दे' इति४.५, 'क्तं शब्दं' इति३ ॥ ४ तीति' इति१ ॥ पृ. २१६ ॥ ७ स्वामिकृतामरकोशटीकायाम्- "ध्वनावित्येव, मधुरेऽल्पे इत्येव दृश्यते, ११६ ॥ २ ॥ पृ. ४८ ॥ ८ 'कली:' इति३, 'कलिश-' रामाश्रमी १ ।७।२ ॥ पृ.९२ ॥ १२. 'स्वामी' इति४.५ ॥ १३. ५ प्रतौ न
For Private & Personal Use Only
www.jainelibrary.org