________________
६४८
न्वितोऽनुगतो लयो द्रुतादिर्यत्र, एकः समस्तालो मानमस्यैकतालः, अभिन्नकालमान इत्यर्थः । [ एकं तननमस्यैकतानो वा ] । 'एकतानमनाकुल: ' [ ] इति दुर्ग: "[अम. क्षीर. १ ६ १३ ॥ ] इति क्षीरस्वामी । द्वेऽभिन्नकालमानशब्दस्य ॥ कोकुर्ध्वनिविकारः स्यात्
१ कायत्यर्थान्तरं काकुः, अस्त्रीलिङ्गः । ‘कै शब्दे' (भ्वा.प.अ.), पृषोदरादिः । यद्वा कानं काः शब्दः । काक्यते (कक्यते) इति कक् । 'कक लौल्योपतापयोः ' (भ्वा.आ.से.), बाहुलकात् 'कृवापाजिमि - ' ( उणा - १) इत्या१० दिना उण् । हृदयस्थवस्तुप्रतीतेरीषद्भूमिर्वा, काकुर्जिह्वा, तद्व्यापारसम्पाद्यत्वाद् वा । ध्वनेर्विकारोऽन्यथापत्तिर्ध्वनिविकारः । “भिन्नकण्ठो ध्वनिर्धीरैः काकुरित्यभिधीयते' [ हलायुधकोशः १ । १४३ ॥ ] इति हलायुधः । " शोकभीत्यादिभिः शोषितकण्ठो ध्वनिः काकुः "[ ] इति तट्टीका । एकं ध्वनिविकारस्य ॥
अभिधानचिन्तामणिनाममाला
प्रतिश्रुत् तु प्रतिध्वनिः ॥१४१०॥
१ प्रतिरूपः श्रूयते प्रतिश्रुत्, स्त्रीलिङ्गः । 'श्रु श्रवणे' (भ्वा.प.से.), सम्पदादित्वात् क्विप् । २ प्रतिरूपो ध्वनिः प्रतिध्वनिः, प्रतिशब्दः । द्वे 'पडिच्छंदा' इति
२० ख्यातस्य ॥१४१० ॥
4
सङ्घाते प्रक-ध-वार-निकर-व्यूहाः समूहश्चयः,
3
10
12
13
15
18
सन्दोहः समुदाय - राशि - विसर - व्राताः कलापो व्रजः । कूटं मण्डल- चक्रवाल- पटेल-स्तोमा गणः पेटकं, वृन्दं चक्र-कदम्बके समुदयः पुञ्जोत्करौ संहतिः
॥१४११॥
34
Jain Education International
समवायो निकुरुम्बं जालं नवह-सञ्च ।
35
[ सामान्यकाण्डः-६ हिंसागत्योः '(अ.प.से.), करणे घञ्, 'हनस्तोऽचिण्णलोः ' ७।३।३२ ॥ इति नकारस्य तकारः, 'हो हन्तेः - '७।३ । ५४ ॥ ३० इति कुत्वम्, 'अचोऽञ्णिति ७ । २ । ११५ ॥ इति वृद्धिः । आत्रेयस्तु हन्त्यर्थाश्चेति चुरादिपाठाण्णावेवाऽचि सङ्घातशब्दमाह, तत्र । २ प्रकीर्यते प्रकरः । 'कृ विक्षेपे ' (तु. प.से.), ‘ऋदोरप्’३।३ ५७ ॥ । ३ उद्यत ओघः । 'वह प्रापणे' (भ्वा.उ.अ.), घञ्, न्यङ्क्वादित्वात् कुत्वम् । यद्वा 'उच समवाये' (दि.प.से), घञि न्यक्वादित्वात् कुत्वम् । आ ऊह्यत इति घञि न्यक्वादित्वात् कुत्वेन हस्य घत्वे वा । ४ व्रियत आच्छाद्यतेऽनेनेति वार: I 'वृञ् आच्छा-दने' (स्वा.उ.से.), करणे घञ् । वारयतीति णिजन्तात् पचाद्यचिं वा, पुंक्ली. । ५ निकीर्यते निकरः । ४० 'कृ विक्षेपे' (तु.प.से.), 'ऋदोरप् '३ ॥३ ॥५७॥, आकरोऽपि । ६ विशेषेण ऊह्यते व्यूहः । विपूर्वः 'ऊह वितर्के' (भ्वा.आ.से.), घञ् । ७ सम्यग् विशेषेण ऊह्यते बहुत्वात् पुञ्जीभूत- त्वेन । 'हलश्च' ३ | ३ |१२१ ॥ इतिघ समूहः । ८ चीयते चयः | 'चिञ् चयने ' ( स्वा.उ. अ.), 'एरच् ३ । ३ । ५६ ॥ । ९ सन्दुह्यते प्रपूर्यतेऽनेन सन्दोहः । सम्पूर्वः 'दुह प्रपूरणे'(अ.उ.अ.), घञ् । १० समुदयनं समुदायः । समुद्पूर्वः 'अय गतौ ' (भ्वा.आ.से.), घञ् । ११ राश्यते राशि:, पुंसि । 'राशृ दीप्तौ ' ( ), 'इन् सर्वधातुभ्यः' (उणा-५५७ ) इतीन् । अश्नुते वा राशि: । ५० 'अशूङ् (अशू) व्याप्तौं' (स्वा.आ.वे.), [' अशिपणा' (उणा - ५७२) इतीण, रुडागमश्च] । १२ विशेषेण स्त्रियते गम्यतेऽनेनेति विसरः । 'सृ गतौ ' (भ्वा.प.अ.), 'ऋदोरप्’ ३।३५७ ॥ । १३ व्रत्यते नियम्यतेऽनेनेति व्रातः । व्रत नियमने ' ( ), करणे घञ् । १४ कल्यते कलापः I 'कल सङ्ख्याने ' ( ), 'कलेराप: ' (हैमोणा - ३०८) इत्यापः । १५ व्रजन्त्यस्मिन् व्रजः । ' व्रज गतौ ' (भ्वा.प.से.), 'गोचरसञ्चर- '३ । ३ । ११९ ॥ इति साधुः 1 १६ कूट्यते कूटम्, पुंक्लीबलिङ्गावेतौ । 'कूट अप्रसादने ( ), 'कूट दाहें' ( ) अस्माद् वा, घञ् । १७ मण्ड्यते ६० मण्डलम्, त्रिलिङ्गम् । 'मडि भूषायाम् ' (भ्वा.प.से.),
"
१ संहन्यते निविडीक्रियतेऽनेनेति सङ्घातः । 'हन
१. 'पुं-' इति३ ॥ २ १ ३ प्रत्योर्नास्ति ॥ ३' शर-' इति३.४.५ ॥ ४ - रम्बं' इति४.५ ॥ ५ कारः' इति५ ॥ ६. ' - च्' इति५ ॥ ७. 'बा-' इति ॥ ८ 'सर्वधातुभ्य इन्' इत्युणादिगणसूत्रम् ॥ " अत्राह भट्टोजिदीक्षितः - इह इन् इत्येव सूत्रं सर्वधातुभ्य इति तु प्रक्षिप्तं व्यर्थं च । अत एव दशपाद्यां 'इन्' इत्येव सूत्रं पठितमिति दिक्' इति [प्रौ. मनो. पृ. ७९६] । तत्त्वबोधिनीकारोऽपीत्थमेवाह [ पृ.५५५] । श्वेतवनवासी त्वाह- धात्वधिकाराद् धातुविशेषानुपादनाद् धातुमात्रपरिग्रहे सिद्धे सर्वग्रहणं विस्पष्टार्थम्' इति [पृ. १७१] व्युत्पत्तिसारनामिकायामुणादिवृत्तौ तु ‘धातोरि:' इति सूत्रं दृश्यते ।" इति दशपाद्युणादिवृत्तिसंग्रहः, भा-१, पृ. १९, टि -२ ॥ ९ स्वामिमतेऽयम्, 'अशू व्याप्तौ सङ्घाते च' इति मैत्रेयसायणौ ॥ १०. अत्र क्षीरतरङ्गिण्यादिष्टव्या ॥ ११. १. २.३ प्रतिषु नास्ति ॥
For Private Personal Use Only
www.jainelibrary.org