________________
६४४
घञि तदभावेऽपि आरवः इति भवति । चान्द्रे तु बाहुलकाद् घञ्। २२ कृप्यते क्वणनम् । कण शब्दोपकरणयो: '(भ्वा.प.से.), ल्युट् । २३ निणनं निक्रणः । 'नौ गदनदपचस्वनेः '३ | ३ |६४ ॥ इत्यप् । २४-२५ । क्वणनं क्वाणः, निक्काणः । उभयत्र भावे घञ् । २६ क्वणनं क्वणः । 'अण रण वण भण मण कण क्वण व्रण भ्रणं ध्वन शब्दार्थाः ' (भ्वा.प.से.), 'क्वणो वीणायां च ' ३ ३ ६५ ॥ अनुपसृष्टाद् निपूर्वाद् वीणाविषयाच्च कणेर्वाऽप्प्रत्ययः । सप्तस्वपि शब्देषु नीरेफो न्युपसर्गः । निग्रहणं न्युपसर्ग१० नियमार्थम् । २७ [रणनं रणः । अप्] । सामान्येन सप्तविंशतिः शब्दस्य ॥१४०० ॥
अभिधानचिन्तामणिनाममाला
2
षड्ज ऋषभ - गान्धारा मध्यमः पञ्चमस्तथा । धैक्तो निषेधः सप्त तन्त्रीकण्ठोद्भवाः स्वराः
।। १४०१ ।।
१ षड्भ्यो जायते षड्जः । जनी प्रादुर्भावे' (दि. आ.से.), 'पञ्चम्यामजातौ ३ ।२ ।९८ ॥ इति डः । "कण्ठादुत्तिष्ठते व्यक्तं षड्जः षभ्यस्तु जायते । कण्ठोरस्तालुनासाभ्यो जिह्वाया दशनादपि ॥१॥ [] व्याडि: । २ ऋषति गच्छति उच्चैस्त्वम् ऋषभः । 'ऋष २० (ऋषी) गतौ ' ( तु.प.से.), 'ऋषिवृषिभ्यां कित्' (उणा - ४०३) इत्यभच् । गोरुतसंवादित्वाद् ऋषभः । यदुक्तम्"वायुः समुद्गतो नाभेः कण्ठशीर्षसमाहतः । नदत्पृषभवद् यस्मात् तेनैष ऋषभः स्मृतः ॥२ ॥ "[ ] | ३ गन्धमियति गान्धारः ऋ गतौ ' ( जु.प.अ.), 'कर्म यण '३ ॥२॥१ ॥ पृषोदरादित्वाद् दीर्घत्वम् । यद्वा गान्धारोऽभिजनोऽस्य । 'सिन्धुतक्षशिलादिभ्योऽण्- '४।३ ।९३ ॥ । "वायुः समुद्गतो नाभेः कण्ठशीर्षसमाहतः । नानागन्धवहः पुण्यो गान्धारस्तेन हेतुना ॥३ ॥[]इति । ४ मध्ये भवो मध्यमः । मध्यान्म: ४ । ३ ।८ ॥ इति मः ।
।
Jain Education International
[ सामान्यकाण्डः-६
"तद्वदेवोत्थितो वायुरुरः कण्ठसमाहतः ।
३०
नाभिप्राप्तो महानादो मध्यमस्तेन कीर्तितः ॥४॥[] इति । ५ पञ्चमस्थानभवत्वाद् पञ्चमः । नान्तादसङ्ख्यादेमंद' ५ ।२ ।४९ ।। ।
"वायुः समुत्थितो नाभेरुरोहत्कण्ठमूर्धसु । विचरन् पञ्चमस्थानप्राप्त्यां पञ्चम उच्यते ॥५ ॥ [ ] इति । ६ धीमद्भिर्धीयत इति धैवतः । पृषोदरादिः । दधाति संधते स्वरानिति वा ।
"अभिसन्धीयते यस्मात् स्वरांस्तेनैष धैवतः ।
स तु भावप्रधानत्वाल्ललाटे व्यवतिष्ठते ॥६॥"[] । ७ निषीदन्ति स्वरा अत्रेति निषधः । निषादोऽपि । "विशरणादी' (भ्वा.तु.प.अ.), सदेः 'अकर्तरि च ' ३।३।१९॥ इति घञ्, 'सदेरप्रतेः '८ । ३ ।६६ ॥ इति षत्वम् । “निषीदन्ति स्वरा अस्मिन् निषादस्तेन हेतुना । अशेषसन्धिविषयं स हि व्याप्यावतिष्ठति ( ते " ) ॥७॥[] । ‘षड्जं रौति मयूरस्तु गावो नर्दन्तं चर्षभम् । अजाविकी च गन्धारं कौशो नदति मध्यमम् ॥८॥[ ] | पुष्पसाधारणे काले कोकिलो रौति पञ्चमम् । अवस्तु चैवतं रौति निषाद रौति कुञ्जरः ॥९॥["]। एते च समदाः पञ्चमं गायन्ति । तथा च शाखिनः"अश्वस्तु धैवतं सोऽपि मत्तः पञ्चमसंज्ञितम् । निषादं तु गजो गर्जत्युन्मदोऽसौ तु पञ्चमम् ॥१०॥[]इति । कीदृशा एते सप्त स्वराः ? तन्त्रीकण्ठोद्भवाः । (द्वा वीणा शारीरी दारुजा चेति, तत्र दारुजायां वीणायां तन्त्रीतः, शारीयाँ वीणायां कण्ठादिति तन्त्रीकण्ठोद्भवाः) । वंशमुरजायदयस्तु स्वरानुकारमात्रकारित्वात् स्वरहेतुत्वेन नेोक्ताः । वीणातन्त्रीशरीरकण्ठोत्पन्नसप्तस्वरनामानि ॥ १४०१ ॥ ते मन्द्रमध्यताराः स्युरुरः कण्ठशिरोभवाः ।
१८.
१. क्षीरतरङ्गिण्यादौ अणेत्यादिदण्डात्मकोऽयं क्वणधातुः शब्दार्थको दृश्यते
॥
२. 'नौ गदनदपठस्वनः' इत्यष्टाध्याय्याम् ॥ ३. 'भण' इति३.४ ॥
४ क्षीरतरङ्गिण्यादौ द्रष्टव्यम् ॥ ५ द्र. स्वोपज्ञटीका६ । १४०१ ॥, पृ. ३१४ ॥, टीकासर्वस्वम्, भा-१, १७ ।१ ॥ पृ. १३४ ॥, पदचन्द्रिका, भा-१,
4
नाट्यवर्गः, श्लो- १७६, पृ. २१५ ॥ ६ - हितः' इति१.२.४ ॥ ७ ' -हित:' इति ॥ ८ ' - मध्यात्' इति ॥ ९ ' - ति' इति५ ॥ १०. ' - षेधः ' इति१. २, ' - षिध:' इति५ ॥ ११. 'विस' इति ॥ १२. 'तस्मिन्' इति १ २.४.५ ॥ १३. 'समवप्रविभ्यः स्थः १ । ३ । २२ ॥ इत्यात्मनेपदम् ॥ १४. ' - रास्तु' इति ॥ १५. 'नदन्ति' इति३ ॥ १६. 'गं-' इति३ ॥ १७. 'क्रों-' इति २.३ ॥ १८. द्र टीकासर्वस्वम्, भा-१, १७ ॥१ ॥, पृ. १३३ ॥, पदचन्द्रिका, भा-१, नाट्यवर्ग:, श्रो- १७६, पृ.२१४ ॥ १९. ४.५ प्रत्योर्नास्ति ॥ २०. कोष्ठान्तर्गतपाठः ४प्रतौ न दृश्यते ॥
For Private & Personal Use Only
४०
५०
www.jainelibrary.org