________________
१०
६४२
इति घञ्, कुत्वम्, तत्र । द्वादश पीतरक्तवर्णस्य । शब्दार्णवे तुभेद:
अभिधानचिन्तामणिनाममाला
"सितपीतहरिद्रक्तः कडारस्तृणवह्निवत् ।
अयं तद्रक्तपीताङ्गः कपिलाङ्गो विभीषणः ॥ १ ॥ हरितांशे हिनो (हीनो ? ) सोऽपि पिशङ्गः पद्मधूलिवत् । पिशङ्गत्वशितावैश्यान् पिङ्गो दीपशिखादिषु ॥ २ ॥ पिङ्गलस्तु परच्छायः पिङ्गे शुक्लाङ्गखण्डवत् ।" [] इति ॥ कृष्णस्तु मेकः 1 स्याद् रामः श्यामलः श्यामः कालो नीलोऽसितः शितिः ॥१३९७॥
००
१ कर्षति मनः कृष्णः । 'कृष विलेखने' (भ्वा. प.अ.), 'कृषेर्वर्णे' ( उणा - २८४ ) इति नक् । २ मत (मचते) मिश्रीभवति वर्णान्तरेणेति मेचकः । 'मर्च मुि कल्कने'(भ्वा.आ.से.), क्वुन्, 'गमिपचिमचीनाम् ' ( ) इत्येत्वम्, पुंनपुंसकलिङ्गोऽयम् । "मेचकः शिखिकण्ठाभः " [] इति दुर्ग: । ३ रमते मनो रामः । 'रमु क्रीडायाम्' (भ्वा.आ.अ.), ज्वलादित्वाण्णः । ४ श्यामं श्यामत्वं लाति श्यामलः । ५ श्यायतेऽस्मात् श्यामः | 'श्यैङ् गतौ’(भ्वा.आ.अ.), ‘इषियुधीन्धिदसिश्याधूसूभ्यो मक्' २० (उणा - १४२ ) इति मक्, 'आदेचः - '६ ११ १४५ ॥ इत्यात्वम् । ६ कलयति मनः कालः । 'कल सङ्ख्यानें ' (चु.उ.से.), ज्वलादित्वाण्णः । ७ नीलति नील: । "णी वर्णे (भ्वा.प.से.), 'इगुपध- '३ । १ ।१३५ ॥ इति कः । ८ सितविरुद्धः असितः । ९ शिनोति शितिः । "शिङ् (शिञ्) निशाने ' (स्वा.उ. अ.), क्तिच् । " मेचकः कृष्णनीलः स्यादतसीपुष्पसन्निभः"["]इति शब्दार्णवे भेदः । नव कृष्णवर्णस्यै ॥१३९७॥
१२
रक्तश्यामे पुनर्धूम्रधूमलौ
१ 'सि' इति१.२ ॥ २ द्र. पदचन्द्रिका, भा-१, धीवर्ग:, श्रो- १४९, पृ. १८७ ॥ ३ 'चमते' इति३ ॥ ४ 'मचि' इति४ ॥ ५. 'पचिमच्योरिच्चोपधायाः ’(उणा - ७१५ ) इत्युणादिगणसूत्रम् ॥ ६. द्र अम. क्षीर. १४ ११४ ॥ पृ.४१ ॥ स्वोपज्ञटीका६ ॥१३९७ ॥ पृ. ३१३ ॥ ७ 'हुग्रः ' इति१. ३.४.५ ॥ ८ ' - तीति' इति४.५ ॥ ९. 'गतौ सङ्ख्याने च' इति स्वामिसायणौ, 'सङ्ख्याने गतौ च' इति मैत्रेयः ॥ १०. 'नी- ' रामाश्रमी १ ॥५ ॥१४॥ पृ.७८ ।। १३.
इति१.३.४ ॥ ११. 'शी-' इति३ ॥ ' - वर्णभेदस्य' इति३ ॥ १४ 'वरणे' धातुः ॥ १७ 'म' इति४ ॥ १८. इति ॥ २३. न्त' इति ॥
१२. द्र. पदचन्द्रिका, भा-१, धीवर्ग:, श्रो- १४७, पृ. १८५ ॥, इति१ ॥ १५. अस्य स्थाने मा. धातुवृत्तौ 'रेफोजनश्च' इति दृश्यते - वनयमकात्' इति३ ॥ १९. 'त्र' इति३ ॥ २०. र्थः ' इति ॥
॥
१६. 'पर्प' इत्यादिदण्डात्मकोऽयं - रिति' इति ॥ २२. 'गुणे'
·
Jain Education International
[ सामान्यकाण्डः - ६
१ रक्तश्चासौ श्यामश्च रक्तश्यामः, तत्र । २ धूमं राति धूम्रः । 'रा दाने ' ( अ.प.अ.), पृषोदरादित्वादाकारलोपः । ३० ३ धूमवर्णं लाति धूमलः । त्रीणि रक्तकृष्णवर्णस्य ॥ अथ कर्बुरः ।
किर्मीर एतः शर्बलश्चित्रकल्माषचित्रलाः ॥१३९८ ॥
44
44
१ " 'कबृ वर्णे ं '(भ्वा.आ.से.), बाहुलकादुरप्रत्ययो रेफोपसृष्टेः ''[मा. धातुवृत्तिः, भ्वादि:, धातुसं - २५९] इति माधवः । 'कर्व" गतौ' (भ्वा.प.से.), अस्माद् 'उरादयश्च ( ) इत्युरच् "[] इत्युज्ज्वलदत्त:, [कर्बुरः ]। २ कीर्यते किर्मीरः । ' विक्षेपे ' (तु.प.से.), 'गम्भीरादयश्च' ( ) इति किरतेरीरन्, 'मुँडागमश्च । ३ एति वर्णानिति एतः । 'इण् गतौ ' ( अ.प.अ.), 'हसिमृग्रिण्- ' ( उणा - ३६६ ) इति तन् । ४ ४० शपत्याक्रोशति वर्णमिति शबलः । ' शप आक्रोशे ' (भ्वा. प.अ.), 'शपेर्बश्च' (उणा-१०५ ) इति कलः, तालव्यादिरयम् । 'शकुनिपताकाशबलं घनवृन्दं चक्षुषा पताऽऽकाशबलम्''[]इति वृन्दावनात् । ५ ची चित्रम् । 'चिञ् चयने' (स्वा.उ. अ.), 'अमिचिमिदि - ' (उणा-६०३) इत्यादिना क्त्रः, कित्त्वाद् गुणाभावः । मिश्रास्तु- "गुणे शुक्लादयः पुंसि " [ अमरकोषः १ ।५ ।१७ ॥ ] इति वचनादतो नानार्थपुंस्काण्डे निबन्धनाच्चित्रमिति पाठो लिपिदोषः, तस्मात् चित्रकिर्ति समस्तं वाच्यमित्येके । क्लीबनिर्देशस्तद्वति गुणिलिङ्गत्वेन कामचारादित्यन्ये । प्रक्रान्तं" समासं विहाय चित्रमिति पृथग् रूपभेदप्रदर्शनमत्रोच्यते"गुणे शुक्लादयः पुंसि " [ अमरकोषः १ ।५ ।१७ ॥ ] इत्यस्य बाधनार्थमिति तु वयम् । तथा च शब्दार्णवे क्लीबत्वं दृश्यते । मेदिनीकारोऽपि विस्पष्टमेव- "तिलकालेख्ययोः क्लीबं कर्बुराद्भुतयोरपि " [ मेदिनीकोशः, रान्तवर्ग:, श्रो३५]इति । “एवं चेत् तत् कथं चित्रभेदे च नाकुत: ' [ ] इति धर्मकीर्तिवार्तिकं च । नामानुशासने तु कथं
For Private & Personal Use Only
२९
५०
www.jainelibrary.org