SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ १० १३६५ - १३६९ ] , ६ । १ ७१ ॥ इति तुक् । यौगिकत्वाद् देहभाक् शरीरीत्यादयः । ५ जायत उत्पद्यते जन्युः । 'जनी प्रादुर्भावे' (दि. आ.से.), 'जनि (यजि) मनि-' ( उणा - ३०० ) इति युच्, बाहुलकाद्, 'युवोरनाकौ ७ ।१ ।१ ॥ इत्यस्याऽप्राप्तिः । ६ जायत उत्पद्यते जन्तुः । 'जनी प्रादुर्भावे ' ' ( दि.आ.से.), 'कमिमनिजनिगापाभायावाहि भ्यश्च' (उणा - ७२ ) इति तु:, पुंनपुंसकलिङ्गोऽयम्, शेषाः पञ्च पुंलिङ्गाः । षट् संसारिजीवस्य ॥१३६६ ॥ व्युत्पत्तिरत्नाकरकलिता उत्पत्तिर्जन्म - जनुषी जननं जनिरुद्भवः । 6 १ उत्पदनम् उत्पत्तिः । उत्पूर्वः 'पद गतौ ' (दि. आ.अ.), 'स्त्रियां क्तिन् '३ | ३ |९४ ॥ ॥ २ जननं जन्म, क्लीबे । 'जनी प्रादुर्भावे ' (दि.आ.से.), -मनिन् ' (उणा५८४) इति मनिन् । अदन्तोऽपि जन्मशब्द:, कुलवत् । ३ जननं जनुः, क्ली । 'धनर्ति (रुद्यर्ति-)-' (हैमोणा९९७) इत्युस् । ४ जन्यते जननम् । ल्युट् । ५ जन्यते जनि:, स्त्रीलिङ्गः, मतिशब्दवत् । ६ उद्भवनम् उद्भवः ‘ऋदोरप्’३।३।५७ ।। । षड् जन्मनः || . I जीवेऽसुजीवितप्राणाः १ जीव्यते जीवः, त्रिलिङ्गः । पचाद्यच्, 'हलश्च' २० ३।३।१२१ ॥ इत्यधिकरणे घञ् वा । २ अस्यन्ते असवः, पुंलिङ्गः, बहुवचनान्त एव । 'असु क्षेपणे' (दि.प.से.), 'मृ (शृ) स्वस्निहित्रप्यसिवसिहनिक्लिदि- ' ( उणा - १०) इत्यादिना उप्रत्ययः । ३ जीव्यतेऽत्रेति जीवितम् । बाहुलकादितच् । जीवातुरपि । “जीवे जीवनभेषजे जीवातुः पुंनपुंसके " [ ] इति गौडः । ४ प्राण्यत एभिः प्राणाः, पुंसि, बहुवचनान्त: । प्रपूर्वः 'अन प्राणने ' ( अ.प.से.), करणे घञ् । चत्वारि प्राणस्य ॥ जीवातुर्जीवनौषधम् ॥१३६७॥ १ येन म्रियमाणो जीवति, तदौषधम्, जीवत्यनेन ३० जीवातुः, पुंक्ली.। 'जीवेरातुः ' (उणा-७९) इत्यातुः । २ जीवनायौषधम् जीवनौषधम् । द्वे जीवरक्षोपायस्य ॥१३६७॥ श्वास॑स्तु॒ श्वसि॑तम् Jain Education International ६२७ १ श्वसनं श्वासः । 'श्वस प्राणने ' ( अ.प.से.), भावे घञ् । श्वसितीति, 'श्याद्व्यधा - '३ । १ । १४१ ॥ इति णो वा । २ श्वस्यते स्म श्वसितम् । भावे क्तः । द्वे सामान्येन श्वासस्य ॥ सोऽन्तर्मुख उच्छ्वास आहरः । ऑनः ४० १ स श्वासोऽन्तर्मुखो मुखमध्यवृत्तिः, उच्छसित्यनेन उच्छ्वासः । करणे घञ् । २ आहरत्यनेन आहरः । 'ऋदोरप् ३।३।५७ ।। । ३ अनित्यनेन आनः । 'अन प्राणने ' (अ.प.से.), घञ् । त्रीणि ऊसास' इति ख्यातस्य ॥ बहिर्मुखस्तु स्यान्निःश्वासः पान एतनः ॥१३६८॥ १ बहिर्मुखो बहिरङ्गवृत्तिः, निःश्वसित्यनेन नि:श्वासः । करणे घञ् । २ पीयतेऽनेन पान: । 'पा पाने' (भ्वा.प.अ.), करणे ल्युट् । ३ एति एतनः । 'इण् गतौ' (अ.प.अ.), 'अणस्तनन् ' ( ) इति तनन् । त्रीणि निःश्वासस्य ॥१३६८ ॥ आयुर्जीवितकालः १ एति जन्मान्तरमनेनेति आयुः, क्लीबे । 'एतेर्णिच्च' (उणा - २७५) इत्युसिप्रत्ययः णित्त्वाद् वृद्धिः । बाहुल- ५० कात् 'कृवापाजि - ' (उणा - १ ) इत्यादिना उणि आयुरुकारान्तोऽपि भानुवत् । "विन्द्यादायुं तथाऽऽयुषा " [ पुरुषोत्तमदेवकृतः शब्दभेदप्रकाशः, श्रो- १५] इति द्विरूपकोषः । २ जीवितेनाऽवच्छिन्नः कालः जीवितकालः । द्वे आयुषः ॥ अन्तःकरणं मानसं मनः । हृच्चेतो हृदयं चित्तं स्वान्तं गूढपथोच्चले ॥१३६९॥ 44 ६० १ अन्तर्गतं करणानामिति अन्तःकरणम् । 'आत्मा मनश्च तद्विज्ञैरन्तःकरणमुच्यते "[ ] इति कामदकिं: । " मनो बुद्धिरहङ्कार इत्यन्तः करणं त्रिधा "[]इत्यन्य । २ मन एव मानसम् । 'प्रज्ञादिभ्यश्च ५ १४ ॥३८ ॥ इति स्वार्थेऽण् । ३ मनुते जानाति पदार्थानिति मनः । मन्यत इति वा । 'मनु अवबोधने ' (त. आ.से.), 'मनु (मन) ज्ञाने' (दि.आ.अ.), '-असुन्' (उणा - ६२८) इति सूत्रेणाऽसुन्। “सर्वार्थग्रहणं मनः " [प्रमाणमीमांसा, अध्या१, आह्नि - १, सू-२४] इति तार्किकाः । ४ ह्रियते विषयै १. 'जनी प्रादुर्भावे' इति १.२. ३.५ प्रतिषु नास्ति ॥ २. ' -वा-' इत्युणादिगणे नास्ति ॥ ३. 'इषियुधीन्धि- ' ( उणा - १४२ ) इत्यादिना मकि साधुः ॥ ४ 'जनेरुसि: ' ( उणा - २७२ ) इत्यनेनाऽप्युस् ॥ ५ तुलनीयोऽमरकोषः २ ४८ ॥ १२० ॥ ६ 'जीव्य-' इति४.५ ॥ ७ 'एक' इति३ ॥ ८. 'उ' इति१.३ ॥ ९ तुलनीयोऽमरकोषः २ ।४८ ।१२० ॥ १०. द्र. स्वोपज्ञटीका ६।१३६९ ॥, पृ.३०७॥ For Private Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy